॥ ॐ श्री गणपतये नमः ॥

४ सर्गः
हत्वा तु तं भीमबलं विराधं राक्षसं वने।ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान्।अब्रवील्लक्ष्मणां रामो भ्रातरं दीप्ततेजसं॥ १कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः।अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्॥ २आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह॥ ३तस्य देवप्रभावस्य तपसा भावितात्मनः।समीपे शरभङ्गस्य ददर्श महदद्भुतम्॥ ४विभ्राजमानं वपुषा सूर्यवैश्वानरोपमम्।असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्॥ ५सुप्रभाभरणं देवं विरजोऽम्बरधारिणम्।तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः॥ ६हरिभिर्वाजिभिर्युक्तमन्तरिक्षगतं रथम्।ददर्शादूरतस्तस्य तरुणादित्यसंनिभम्॥ ७पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम्।अपश्यद्विमलं छत्रं चित्रमाल्योपशोभितम्॥ ८चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने।गृहीते वननारीभ्यां धूयमाने च मूर्धनि॥ ९गन्धर्वामरसिद्धाश्च बहवः परमर्षयः।अन्तरिक्षगतं देवं वाग्भिरग्र्याभिरीडिरे॥ १०दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्।ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः।अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम्॥ ११इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो रथम्।शतं शतं कुण्डलिनो युवानः खड्गपाणयः॥ १२उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः।रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम्॥ १३एतद्धि किल देवानां वयो भवति नित्यदा।यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः॥ १४इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण।यावज्जनाम्यहं व्यक्तं क एष द्युतिमान्रथे॥ १५तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति।अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति॥ १६ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः।शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत्॥ १७इहोपयात्यसौ रामो यावन्मां नाभिभाषते।निष्ठां नयत तावत्तु ततो मां द्रष्टुमर्हति॥ १८जितवन्तं कृतार्थं च द्रष्टाहमचिरादिमम्।कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम्॥ १९इति वज्री तमामन्त्र्य मानयित्वा च तापसं।रथेन हरियुक्तेन ययौ दिवमरिंदमः॥ २०प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः।अग्निहोत्रमुपासीनं शरभङ्गमुपागमत्॥ २१तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः।निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः॥ २२ततः शक्रोपयानं तु पर्यपृच्छत्स राघवः।शरभङ्गश्च तत्सर्वं राघवाय न्यवेदयत्॥ २३मामेष वरदो राम ब्रह्मलोकं निनीषति।जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः॥ २४अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः।ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम्॥ २५समागम्य गमिष्यामि त्रिदिवं देवसेवितम्।अक्षया नरशार्दूल जिता लोका मया शुभाः।ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान्॥ २६एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः।ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत्॥ २७अहमेवाहरिष्यामि सर्वाँल्लोकान्महामुने।आवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥ २८राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै।शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद्वचः॥ २९सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्।रमणीये वनोद्देशे स ते वासं विधास्यति॥ ३०एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्।यावज्जहामि गात्राणि जीर्णं त्वचमिवोरगः॥ ३१ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवित्।शरभङ्गो महातेजाः प्रविवेश हुताशनम्॥ ३२तस्य रोमाणि केशांश्च ददाहाग्निर्महात्मनः।जीर्णं त्वचं तथास्थीनि यच्च मांसं च शोणितम्॥ ३३स च पावकसंकाशः कुमारः समपद्यत।उत्थायाग्निचयात्तस्माच्छरभङ्गो व्यरोचत॥ ३४स लोकानाहिताग्नीनामृषीणां च महात्मनाम्।देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत॥ ३५स पुण्यकर्मा भुवने द्विजर्षभःपितामहं सानुचरं ददर्श ह।पितामहश्चापि समीक्ष्य तं द्विजंननन्द सुस्वागतमित्युवाच ह॥ ३६इति श्रीरामायणे अरण्यकाण्डे चतुर्थः सर्गः ॥ ४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved