॥ ॐ श्री गणपतये नमः ॥

७ सर्गः
रामस्तु सहसौमित्रिः सुतीक्ष्णेनाभिपूजितः।परिणम्य निशां तत्र प्रभाते प्रत्यबुध्यत॥ १उत्थाय तु यथाकालं राघवः सह सीतया।उपास्पृशत्सुशीतेन जलेनोत्पलगन्धिना॥ २अथ तेऽग्निं सुरांश्चैव वैदेही रामलक्ष्मणौ।काल्यं विधिवदभ्यर्च्य तपस्विशरणे वने॥ ३उदयन्न्तं दिनकरं दृष्ट्वा विगतकल्मषाः।सुतीक्ष्णमभिगम्येदं श्लक्ष्णं वचनमब्रुवन्॥ ४सुखोषिताः स्म भगवंस्त्वया पूज्येन पूजिताः।आपृच्छामः प्रयास्यामो मुनयस्त्वरयन्ति नः॥ ५त्वरामहे वयं द्रष्टुं कृत्स्नमाश्रममण्डलम्।ऋषीणां पुण्यशीलानां दण्डकारण्यवासिनाम्॥ ६अभ्यनुज्ञातुमिच्छामः सहैभिर्मुनिपुङ्गवैः।धर्मनित्यैस्तपोदान्तैर्विशिखैरिव पावकैः॥ ७अविषह्यातपो यावत्सूर्यो नातिविराजिते।अमार्गेणागतां लक्ष्मीं प्राप्येवान्वयवर्जितः॥ ८तावदिच्छामहे गन्तुमित्युक्त्वा चरणौ मुनेः।ववन्दे सहसौमित्रिः सीतया सह राघवः॥ ९तौ संस्पृशन्तौ चरणावुत्थाप्य मुनिपुंगवः।गाढमालिङ्ग्य सस्नेहमिदं वचनमब्रवीत्॥ १०अरिष्टं गच्छ पन्थानं राम सौमित्रिणा सह।सीतया चानया सार्धं छाययेवानुवृत्तया॥ ११पश्याश्रमपदं रम्यं दण्डकारण्यवासिनाम्।एषां तपस्विनां वीर तपसा भावितात्मनाम्॥ १२सुप्राज्यफलमूलानि पुष्पितानि वनानि च।प्रशान्तमृगयूथानि शान्तपक्षिगणानि च॥ १३फुल्लपङ्कजषडानि प्रसन्नसलिलानि च।कारण्डवविकीर्णानि तटाकानि सरांसि च॥ १४द्रक्ष्यसे दृष्टिरम्याणि गिरिप्रस्रवणानि च।रमणीयान्यरण्यानि मयूराभिरुतानि च॥ १५गम्यतां वत्स सौमित्रे भवानपि च गच्छतु।आगन्तव्यं च ते दृष्ट्वा पुनरेवाश्रमं मम॥ १६एवमुक्तस्तथेत्युक्त्वा काकुत्स्थः सहलक्ष्मणः।प्रदक्षिणं मुनिं कृता प्रस्थातुमुपचक्रमे॥ १७ततः शुभतरे तूणी धनुषी चायतेक्षणा।ददौ सीता तयोर्भ्रात्रोः खड्गौ च विमलौ ततः॥ १८आबध्य च शुभे तूणी चापे चादाय सस्वने।निष्क्रान्तावाश्रमाद्गन्तुमुभौ तौ रामलक्ष्मणौ॥ १९इति श्रीरामायणे अरण्यकाण्डे सप्तमः सर्गः ॥ ७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved