॥ ॐ श्री गणपतये नमः ॥

९ सर्गः
वाक्यमेतत्तु वैदेह्या व्याहृतं भर्तृभक्तया।श्रुत्वा धर्मे स्थितो रामः प्रत्युवाचाथ मैथिलीम्॥ १हितमुक्तं त्वया देवि स्निग्धया सदृशं वचः।कुलं व्यपदिशन्त्या च धर्मज्ञे जनकात्मजे॥ २किं तु वक्ष्याम्यहं देवि त्वयैवोक्तमिदं वचः।क्षत्रियैर्धार्यते चापो नार्तशब्दो भवेदिति॥ ३ते चार्ता दण्डकारण्ये मुनयः संशितव्रताः।मां सीते स्वयमागम्य शरण्याः शरणं गताः॥ ४वसन्तो धर्मनिरता वने मूलफलाशनाः।न लभन्ते सुखं भीता राक्षसैः क्रूरकर्मभिः॥ ५काले काले च निरता नियमैर्विविधैर्वने।भक्ष्यन्ते राक्षसैर्भीमैर्नरमांसोपजीविभिः॥ ६ते भक्ष्यमाणा मुनयो दण्डकारण्यवासिनः।अस्मानभ्यवपद्येति मामूचुर्द्विजसत्तमाः॥ ७मया तु वचनं श्रुत्वा तेषामेवं मुखाच्च्युतम्।कृत्वा चरणशुश्रूषां वाक्यमेतदुदाहृतम्॥ ८प्रसीदन्तु भवन्तो मे ह्रीरेषा हि ममातुला।यदीदृशैरहं विप्रैरुपस्थेयैरुपस्थितः।किं करोमीति च मया व्याहृतं द्विजसंनिधौ॥ ९सर्वैरेव समागम्य वागियं समुदाहृता।राक्षसैर्दण्डकारण्ये बहुभिः कामरूपिभिः।अर्दिताः स्म भृशं राम भवान्नस्त्रातुमर्हति॥ १०होमकाले तु संप्राप्ते पर्वकालेषु चानघ।धर्षयन्ति स्म दुर्धर्षा राक्षसाः पिशिताशनाः॥ ११राक्षसैर्धर्षितानां च तापसानां तपस्विनाम्।गतिं मृगयमाणानां भवान्नः परमा गतिः॥ १२कामं तपः प्रभावेन शक्ता हन्तुं निशाचरान्।चिरार्जितं तु नेच्छामस्तपः खण्डयितुं वयम्॥ १३बहुविघ्नं तपोनित्यं दुश्चरं चैव राघव।तेन शापं न मुञ्चामो भक्ष्यमाणाश्च राक्षसैः॥ १४तदर्द्यमानान्रक्षोभिर्दण्डकारण्यवासिभिः।रक्षनस्त्वं सह भ्रात्रा त्वन्नाथा हि वयं वने॥ १५मया चैतद्वचः श्रुत्वा कार्त्स्न्येन परिपालनम्।ऋषीणां दण्डकारण्ये संश्रुतं जनकात्मजे॥ १६संश्रुत्य च न शक्ष्यामि जीवमानः प्रतिश्रवम्।मुनीनामन्यथा कर्तुं सत्यमिष्टं हि मे सदा॥ १७अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम्।न तु प्रतिज्ञां संश्रुत्य ब्राह्मणेभ्यो विशेषतः॥ १८तदवश्यं मया कार्यमृषीणां परिपालनम्।अनुक्तेनापि वैदेहि प्रतिज्ञाय तु किं पुनः॥ १९मम स्नेहाच्च सौहार्दादिदमुक्तं त्वया वचः।परितुष्टोऽस्म्यहं सीते न ह्यनिष्टोऽनुशिष्यते।सदृशं चानुरूपं च कुलस्य तव शोभने॥ २०इत्येवमुक्त्वा वचनं महात्मासीतां प्रियां मैथिल राजपुत्रीम्।रामो धनुष्मान्सहलक्ष्मणेनजगाम रम्याणि तपोवनानि॥ २१इति श्रीरामायणे अरण्यकाण्डे नवमः सर्गः ॥ ९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved