॥ ॐ श्री गणपतये नमः ॥

११ सर्गः
स प्रविश्याश्रमपदं लक्ष्मणो राघवानुजः।अगस्त्यशिष्यमासाद्य वाक्यमेतदुवाच ह॥ १राजा दशरथो नाम ज्येष्ठस्तस्य सुतो बली।रामः प्राप्तो मुनिं द्रष्टुं भार्यया सह सीतया॥ २लक्ष्मणो नाम तस्याहं भ्राता त्ववरजो हितः।अनुकूलश्च भक्तश्च यदि ते श्रोत्रमागतः॥ ३ते वयं वनमत्युग्रं प्रविष्टाः पितृशासनात्।द्रष्टुमिच्छामहे सर्वे भगवन्तं निवेद्यताम्॥ ४तस्य तद्वचनं श्रुत्वा लक्ष्मणस्य तपोधनः।तथेत्युक्त्वाग्निशरणं प्रविवेश निवेदितुम्॥ ५स प्रविश्य मुनिश्रेष्ठं तपसा दुष्प्रधर्षणम्।कृताञ्जलिरुवाचेदं रामागमनमञ्जसा॥ ६पुत्रौ दशरथस्येमौ रामो लक्ष्मण एव च।प्रविष्टावाश्रमपदं सीतया सह भार्यया॥ ७द्रष्टुं भवन्तमायातौ शुश्रूषार्थमरिंदमौ।यदत्रानन्तरं तत्त्वमाज्ञापयितुमर्हसि॥ ८ततः शिष्यादुपश्रुत्य प्राप्तं रामं सलक्ष्मणम्।वैदेहीं च महाभागामिदं वचनमब्रवीत्॥ ९दिष्ट्या रामश्चिरस्याद्य द्रष्टुं मां समुपागतः।मनसा काङ्क्षितं ह्यस्य मयाप्यागमनं प्रति॥ १०गम्यतां सत्कृतो रामः सभार्यः सहलक्ष्मणः।प्रवेश्यतां समीपं मे किं चासौ न प्रवेशितः॥ ११एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना।अभिवाद्याब्रवीच्छिष्यस्तथेति नियताञ्जलिः॥ १२ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत्।क्वासौ रामो मुनिं द्रष्टुमेतु प्रविशतु स्वयम्॥ १३ततो गत्वाश्रमपदं शिष्येण सह लक्ष्मणः।दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम्॥ १४तं शिष्यः प्रश्रितं वाक्यमगस्त्यवचनं ब्रुवन्।प्रावेशयद्यथान्यायं सत्कारार्थं सुसत्कृतम्॥ १५प्रविवेश ततो रामः सीतया सहलक्ष्मणः।प्रशान्तहरिणाकीर्णमाश्रमं ह्यवलोकयन्॥ १६स तत्र ब्रह्मणः स्थानमग्नेः स्थानं तथैव च।विष्णोः स्थानं महेन्द्रस्य स्थानं चैव विवस्वतः॥ १७सोमस्थानं भगस्थानं स्थानं कौबेरमेव च।धातुर्विधातुः स्थानं च वायोः स्थानं तथैव च॥ १८ततः शिष्यैः परिवृतो मुनिरप्यभिनिष्पतत्।तं ददर्शाग्रतो रामो मुनीनां दीप्ततेजसं।अब्रवीद्वचनं वीरो लक्ष्मणं लक्ष्मिवर्धनम्॥ १९एष लक्ष्मण निष्क्रामत्यगस्त्यो भगवानृषिः।औदार्येणावगच्छामि निधानं तपसामिमम्॥ २०एवमुक्त्वा महाबाहुरगस्त्यं सूर्यवर्चसं।जग्राह परमप्रीतस्तस्य पादौ परंतपः॥ २१अभिवाद्य तु धर्मात्मा तस्थौ रामः कृताञ्जलिः।सीतया सह वैदेह्या तदा राम सलक्ष्मणः॥ २२प्रतिगृह्य च काकुत्स्थमर्चयित्वासनोदकैः।कुशलप्रश्नमुक्त्वा च आस्यतामिति सोऽब्रवीत्॥ २३अग्निं हुत्वा प्रदायार्घ्यमतिथिं प्रतिपूज्य च।वानप्रस्थेन धर्मेण स तेषां भोजनं ददौ॥ २४प्रथमं चोपविश्याथ धर्मज्ञो मुनिपुंगवः।उवाच राममासीनं प्राञ्जलिं धर्मकोविदम्॥ २५अन्यथा खलु काकुत्स्थ तपस्वी समुदाचरन्।दुःसाक्षीव परे लोके स्वानि मांसानि भक्षयेत्॥ २६राजा सर्वस्य लोकस्य धर्मचारी महारथः।पूजनीयश्च मान्यश्च भवान्प्राप्तः प्रियातिथिः॥ २७एवमुक्त्वा फलैर्मूलैः पुष्पैश्चान्यैश्च राघवम्।पूजयित्वा यथाकामं पुनरेव ततोऽब्रवीत्॥ २८इदं दिव्यं महच्चापं हेमवज्रविभूषितम्।वैष्णवं पुरुषव्याघ्र निर्मितं विश्वकर्मणा॥ २९अमोघः सूर्यसंकाशो ब्रह्मदत्तः शरोत्तमः।दत्तो मम महेन्द्रेण तूणी चाक्षयसायकौ॥ ३०संपूर्णौ निशितैर्बाणैर्ज्वलद्भिरिव पावकैः।महाराजत कोशोऽयमसिर्हेमविभूषितः॥ ३१अनेन धनुषा राम हत्वा संख्ये महासुरान्।आजहार श्रियं दीप्तां पुरा विष्णुर्दिवौकसाम्॥ ३२तद्धनुस्तौ च तूणीरौ शरं खड्गं च मानद।जयाय प्रतिगृह्णीष्व वज्रं वज्रधरो यथा॥ ३३एवमुक्त्वा महातेजाः समस्तं तद्वरायुधम्।दत्त्वा रामाय भगवानगस्त्यः पुनरब्रवीत्॥ ३४इति श्रीरामायणे अरण्यकाण्डे एकादशः सर्गः ॥ ११
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved