१७ सर्गः
तां तु शूर्पणखां रामः कामपाशावपाशिताम्।स्वेच्छया श्लक्ष्णया वाचा स्मितपूर्वमथाब्रवीत्॥ १कृतदारोऽस्मि भवति भार्येयं दयिता मम।त्वद्विधानां तु नारीणां सुदुःखा ससपत्नता॥ २अनुजस्त्वेष मे भ्राता शीलवान्प्रियदर्शनः।श्रीमानकृतदारश्च लक्ष्मणो नाम वीर्यवान्॥ ३अपूर्वी भार्यया चार्थी तरुणः प्रियदर्शनः।अनुरूपश्च ते भर्ता रूपस्यास्य भविष्यति॥ ४एनं भज विशालाक्षि भर्तारं भ्रातरं मम।असपत्ना वरारोहे मेरुमर्कप्रभा यथा॥ ५इति रामेण सा प्रोक्ता राक्षसी काममोहिता।विसृज्य रामं सहसा ततो लक्ष्मणमब्रवीत्॥ ६अस्य रूपस्य ते युक्ता भार्याहं वरवर्णिनी।मया सह सुखं सर्वान्दण्डकान्विचरिष्यसि॥ ७एवमुक्तस्तु सौमित्री राक्षस्या वाक्यकोविदः।ततः शूर्पणखीं स्मित्वा लक्ष्मणो युक्तमब्रवीत्॥ ८कथं दासस्य मे दासी भार्या भवितुमिच्छसि।सोऽहमार्येण परवान्भ्रात्रा कमलवर्णिनि॥ ९समृद्धार्थस्य सिद्धार्था मुदितामलवर्णिनी।आर्यस्य त्वं विशालाक्षि भार्या भव यवीयसी॥ १०एतां विरूपामसतीं करालां निर्णतोदरीम्।भार्यां वृद्धां परित्यज्य त्वामेवैष भजिष्यति॥ ११को हि रूपमिदं श्रेष्ठं संत्यज्य वरवर्णिनि।मानुषेषु वरारोहे कुर्याद्भावं विचक्षणः॥ १२इति सा लक्ष्मणेनोक्ता कराला निर्णतोदरी।मन्यते तद्वचः सत्यं परिहासाविचक्षणा॥ १३सा रामं पर्णशालायामुपविष्टं परंतपम्।सीतया सह दुर्धर्षमब्रवीत्काममोहिता॥ १४इमां विरूपामसतीं करालां निर्णतोदरीम्।वृद्धां भार्यामवष्टभ्य न मां त्वं बहु मन्यसे॥ १५अद्येमां भक्षयिष्यामि पश्यतस्तव मानुषीम्।त्वया सह चरिष्यामि निःसपत्ना यथासुखम्॥ १६इत्युक्त्वा मृगशावाक्षीमलातसदृशेक्षणा।अभ्यधावत्सुसंक्रुद्धा महोल्का रोहिणीमिव॥ १७तां मृत्युपाशप्रतिमामापतन्तीं महाबलः।निगृह्य रामः कुपितस्ततो लक्ष्मणमब्रवीत्॥ १८क्रूरैरनार्यैः सौमित्रे परिहासः कथंचन।न कार्यः पश्य वैदेहीं कथंचित्सौम्य जीवतीम्॥ १९इमां विरूपामसतीमतिमत्तां महोदरीम्।राक्षसीं पुरुषव्याघ्र विरूपयितुमर्हसि॥ २०इत्युक्तो लक्ष्मणस्तस्याः क्रुद्धो रामस्य पश्यतः।उद्धृत्य खड्गं चिच्छेद कर्णनासं महाबलः॥ २१निकृत्तकर्णनासा तु विस्वरं सा विनद्य च।यथागतं प्रदुद्राव घोरा शूर्पणखा वनम्॥ २२सा विरूपा महाघोरा राक्षसी शोणितोक्षिता।ननाद विविधान्नादान्यथा प्रावृषि तोयदः॥ २३सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना।प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम्॥ २४ततस्तु सा राक्षससंघसंवृतंखरं जनस्थानगतं विरूपिता।उपेत्य तं भ्रातरमुग्रतेजसंपपात भूमौ गगनाद्यथाशनिः॥ २५ततः सभार्यं भयमोहमूर्छितासलक्ष्मणं राघवमागतं वनम्।विरूपणं चात्मनि शोणितोक्षिताशशंस सर्वं भगिनी खरस्य सा॥ २६इति श्रीरामायणे अरण्यकाण्डे सप्तदशः सर्गः ॥ १७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved