॥ ॐ श्री गणपतये नमः ॥

१९ सर्गः
ततः शूर्पणखा घोरा राघवाश्रममागता।रक्षसामाचचक्षे तौ भ्रातरौ सह सीतया॥ १ते रामं पर्णशालायामुपविष्टं महाबलम्।ददृशुः सीतया सार्धं वैदेह्या लक्ष्मणेन च॥ २तान्दृष्ट्वा राघवः श्रीमानागतां तां च राक्षसीम्।अब्रवीद्भ्रातरं रामो लक्ष्मणं दीप्ततेजसं॥ ३मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः।इमानस्या वधिष्यामि पदवीमागतानिह॥ ४वाक्यमेतत्ततः श्रुत्वा रामस्य विदितात्मनः।तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत्॥ ५राघवोऽपि महच्चापं चामीकरविभूषितम्।चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत्॥ ६पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ।प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम्॥ ७फलमूलाशनौ दान्तौ तापसौ धर्मचारिणौ।वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ॥ ८युष्मान्पापात्मकान्हन्तुं विप्रकारान्महावने।ऋषीणां तु नियोगेन प्राप्तोऽहं सशरासनः॥ ९तिष्ठतैवात्र संतुष्टा नोपसर्पितुमर्हथ।यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः॥ १०तस्य तद्वचनं श्रुत्वा राक्षसास्ते चतुर्दश।ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नः शूलपाणयः॥ ११संरक्तनयना घोरा रामं रक्तान्तलोचनम्।परुषा मधुराभाषं हृष्टादृष्टपराक्रमम्॥ १२क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः।त्वमेव हास्यसे प्राणानद्यास्माभिर्हतो युधि॥ १३का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि।अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे॥ १४एभिर्बाहुप्रयुक्तैर्नः परिघैः शूलपट्टिशैः।प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम्॥ १५इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश।उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः।चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम्॥ १६तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश।तावद्भिरेव चिच्छेद शरैः काञ्चनभूषणैः॥ १७ततः पश्चान्महातेजा नाराचान्सूर्यसंनिभान्।जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान्॥ १८गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान्।मुमोच राघवो बाणान्वज्रानिव शतक्रतुः॥ १९रुक्मपुङ्खाश्च विशिखाः प्रदीप्ता हेमभूषणाः।अन्तरिक्षे महोल्कानां बभूवुस्तुल्यवर्चसः॥ २०ते भित्त्वा रक्षसां वेगाद्वक्षांसि रुधिराप्लुताः।विनिष्पेतुस्तदा भूमौ न्यमज्जन्ताशनिस्वनाः॥ २१ते भिन्नहृदया भूमौ छिन्नमूला इव द्रुमाः।निपेतुः शोणितार्द्राङ्गा विकृता विगतासवः॥ २२तान्भूमौ पतितान्दृष्ट्वा राक्षसी क्रोधमूर्छिता।परित्रस्ता पुनस्तत्र व्यसृजद्भैरवं रवम्॥ २३सा नदन्ती महानादं जवाच्छूर्पणखा पुनः।उपगम्य खरं सा तु किंचित्संशुष्क शोणिता।पपात पुनरेवार्ता सनिर्यासेव वल्लरी॥ २४निपातितान्प्रेक्ष्य रणे तु राक्षसान्प्रधाविता शूर्पणखा पुनस्ततः।वधं च तेषां निखिलेन रक्षसांशशंस सर्वं भगिनी खरस्य सा॥ २५इति श्रीरामायणे अरण्यकाण्डे नवदशः सर्गः ॥ १९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved