२० सर्गः
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां खरः।उवाच व्यक्तता वाचा तामनर्थार्थमागताम्॥ १मया त्विदानीं शूरास्ते राक्षसा रुधिराशनाः।त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः॥ २भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः।घ्नन्तोऽपि न निहन्तव्या न न कुर्युर्वचो मम॥ ३किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः।हा नाथेति विनर्दन्ती सर्पवद्वेष्टसे क्षितौ॥ ४अनाथवद्विलपसि किं नु नाथे मयि स्थिते।उत्तिष्ठोत्तिष्ठ मा भैषीर्वैक्लव्यं त्यज्यतामिह॥ ५इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता।विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत्॥ ६प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश।निहन्तुं राघवं घोरा मत्प्रियार्थं सलक्ष्मणम्॥ ७ते तु रामेण सामर्षाः शूलपट्टिशपाणयः।समरे निहताः सर्वे सायकैर्मर्मभेदिभिः॥ ८तान्भूमौ पतितान्दृष्ट्वा क्षणेनैव महाबलान्।रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम॥ ९सास्मि भीता समुद्विग्ना विषण्णा च निशाचर।शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी॥ १०विषादनक्राध्युषिते परित्रासोर्मिमालिनि।किं मां न त्रायसे मग्नां विपुले शोकसागरे॥ ११एते च निहता भूमौ रामेण निशितैः शरैः।ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः॥ १२मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च।रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर।दण्डकारण्यनिलयं जहि राक्षसकण्टकम्॥ १३यदि रामं ममामित्रमद्य त्वं न वधिष्यसि।तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा॥ १४बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे।स्थातुं प्रतिमुखे शक्तः सचापस्य महारणे॥ १५शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः।मानुषौ यन्न शक्नोषि हन्तुं तौ रामलक्ष्मणौ॥ १६अपयाहि जनस्थानात्त्वरितः सहबान्धवः।निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह॥ १७रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि।स हि तेजःसमायुक्तो रामो दशरथात्मजः।भ्राता चास्य महावीर्यो येन चास्मि विरूपिता॥ १८इति श्रीरामायणे अरण्यकाण्डे विंशतितमः सर्गः ॥ २०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved