॥ ॐ श्री गणपतये नमः ॥

२३ सर्गः
आश्रमं प्रति याते तु खरे खरपराक्रमे।तानेवौत्पातिकान्रामः सह भ्रात्रा ददर्श ह॥ १तानुत्पातान्महाघोरानुत्थितान्रोमहर्षणान्।प्रजानामहितान्दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत्॥ २इमान्पश्य महाबाहो सर्वभूतापहारिणः।समुत्थितान्महोत्पातान्संहर्तुं सर्वराक्षसान्॥ ३अमी रुधिरधारास्तु विसृजन्तः खरस्वनान्।व्योम्नि मेघा विवर्तन्ते परुषा गर्दभारुणाः॥ ४सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिनः।रुक्मपृष्ठानि चापानि विवेष्टन्ते च लक्ष्मण॥ ५यादृशा इह कूजन्ति पक्षिणो वनचारिणः।अग्रतो नो भयं प्राप्तं संशयो जीवितस्य च॥ ६संप्रहारस्तु सुमहान्भविष्यति न संशयः।अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः॥ ७संनिकर्षे तु नः शूर जयं शत्रोः पराजयम्।सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते॥ ८उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मणः।निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः॥ ९अनागतविधानं तु कर्तव्यं शुभमिच्छता।आपदं शङ्कमानेन पुरुषेण विपश्चिता॥ १०तस्माद्गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः।गुहामाश्रयशैलस्य दुर्गां पादपसंकुलाम्॥ ११प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया।शापितो मम पादाभ्यां गम्यतां वत्स माचिरम्॥ १२एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया।शरानादाय चापं च गुहां दुर्गां समाश्रयत्॥ १३तस्मिन्प्रविष्टे तु गुहां लक्ष्मणे सह सीतया।हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत्॥ १४सा तेनाग्निनिकाशेन कवचेन विभूषितः।बभूव रामस्तिमिरे विधूमोऽग्निरिवोत्थितः॥ १५स चापमुद्यम्य महच्छरानादाय वीर्यवान्।बभूवावस्थितस्तत्र ज्यास्वनैः पूरयन्दिशः॥ १६ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः।ऊचुः परमसंत्रस्ता गुह्यकाश्च परस्परम्॥ १७चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति॥ १८ततो गम्भीरनिर्ह्रादं घोरवर्मायुधध्वजम्।अनीकं यातुधानानां समन्तात्प्रत्यदृश्यत॥ १९सिंहनादं विसृजतामन्योन्यमभिगर्जताम्।चापानि विस्फरयतां जृम्भतां चाप्यभीक्ष्णशः॥ २०विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम्।तेषां सुतुमुलः शब्दः पूरयामास तद्वनम्॥ २१तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः।दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन्॥ २२तत्त्वनीकं महावेगं रामं समुपसर्पत।घृतनानाप्रहरणं गम्भीरं सागरोपमम्॥ २३रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः।ददर्श खरसैन्यं तद्युद्धाभिमुखमुद्यतम्॥ २४वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान्।क्रोधमाहारयत्तीव्रं वधार्थं सर्वरक्षसाम्॥ २५दुष्प्रेक्ष्यः सोऽभवत्क्रुद्धो युगान्ताग्निरिव ज्वलन्।तं दृष्ट्वा तेजसाविष्टं प्राव्यथन्वनदेवताः॥ २६तस्य क्रुद्धस्य रूपं तु रामस्य ददृशे तदा।दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः॥ २७इति श्रीरामायणे अरण्यकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved