॥ ॐ श्री गणपतये नमः ॥

२६ सर्गः
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः।राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत्॥ १मां नियोजय विक्रान्त संनिवर्तस्व साहसात्।पश्य रामं महाबाहुं संयुगे विनिपातितम्॥ २प्रतिजानामि ते सत्यमायुधं चाहमालभे।यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम्॥ ३अहं वास्य रणे मृत्युरेष वा समरे मम।विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव॥ ४प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि।मयि वा निहते रामं संयुगायोपयास्यसि॥ ५खरस्त्रिशिरसा तेन मृत्युलोभात्प्रसादितः।गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ॥ ६त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता।अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः॥ ७शरधारा समूहान्स महामेघ इवोत्सृजन्।व्यसृजत्सदृशं नादं जलार्द्रस्येव दुन्दुभेः॥ ८आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः।धनुषा प्रतिजग्राह विधुन्वन्सायकाञ्शितान्॥ ९स संप्रहारस्तुमुलो राम त्रिशिरसोर्महान्।बभूवातीव बलिनोः सिंहकुञ्जरयोरिव॥ १०ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः।अमर्षी कुपितो रामः संरब्धमिदमब्रवीत्॥ ११अहो विक्रमशूरस्य राक्षसस्येदृशं बलम्।पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः।ममापि प्रतिगृह्णीष्व शरांश्चापगुणच्युतान्॥ १२एवमुक्त्वा तु संरब्धः शरानाशीविषोपमान्।त्रिशिरो वक्षसि क्रुद्धो निजघान चतुर्दश॥ १३चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः।न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः॥ १४अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत्।रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम्॥ १५ततो हतरथात्तस्मादुत्पतन्तं निशाचरम्।बिभेद रामस्तं बाणैर्हृदये सोऽभवज्जडः॥ १६सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः।शिरांस्यपातयत्त्रीणि वेगवद्भिस्त्रिभिः शतैः॥ १७स भूमौ शोणितोद्गारी रामबाणाभिपीडितः।न्यपतत्पतितैः पूर्वं स्वशिरोभिर्निशाचरः॥ १८हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः।द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव॥ १९तान्खरो द्रवतो दृष्ट्वा निवर्त्य रुषितः स्वयम्।राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा॥ २०इति श्रीरामायणे अरण्यकाण्डे षड्विंशतितमः सर्गः ॥ २६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved