॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः
ततः शूर्पणखा दीना रावणं लोकरावणम्।अमात्यमध्ये संक्रुद्धा परुषं वाक्यमब्रवीत्॥ १प्रमत्तः कामभोगेषु स्वैरवृत्तो निरङ्कुशः।समुत्पन्नं भयं घोरं बोद्धव्यं नावबुध्यसे॥ २सक्तं ग्राम्येषु भोगेषु कामवृत्तं महीपतिम्।लुब्धं न बहु मन्यन्ते श्मशानाग्निमिव प्रजाः॥ ३स्वयं कार्याणि यः काले नानुतिष्ठति पार्थिवः।स तु वै सह राज्येन तैश्च कार्यैर्विनश्यति॥ ४अयुक्तचारं दुर्दर्शमस्वाधीनं नराधिपम्।वर्जयन्ति नरा दूरान्नदीपङ्कमिव द्विपाः॥ ५ये न रक्षन्ति विषयमस्वाधीना नराधिपः।ते न वृद्ध्या प्रकाशन्ते गिरयः सागरे यथा॥ ६आत्मवद्भिर्विगृह्य त्वं देवगन्धर्वदानवैः।अयुक्तचारश्चपलः कथं राजा भविष्यसि॥ ७येषां चारश्च कोशश्च नयश्च जयतां वर।अस्वाधीना नरेन्द्राणां प्राकृतैस्ते जनैः समाः॥ ८यस्मात्पश्यन्ति दूरस्थान्सर्वानर्थान्नराधिपाः।चारेण तस्मादुच्यन्ते राजानो दीर्घचक्षुषः॥ ९अयुक्तचारं मन्ये त्वां प्राकृतैः सचिवैर्वृतम्।स्वजनं च जनस्थानं हतं यो नावबुध्यसे॥ १०चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम्।हतान्येकेन रामेण खरश्च सहदूषणः॥ ११ऋषीणामभयं दत्तं कृतक्षेमाश्च दण्डकाः।धर्षितं च जनस्थानं रामेणाक्लिष्टकर्मणा॥ १२त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च रावण।विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे॥ १३तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम्।व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम्॥ १४अतिमानिनमग्राह्यमात्मसंभावितं नरम्।क्रोधनं व्यसने हन्ति स्वजनोऽपि नराधिपम्॥ १५नानुतिष्ठति कार्याणि भयेषु न बिभेति च।क्षिप्रं राज्याच्च्युतो दीनस्तृणैस्तुल्यो भविष्यति॥ १६शुष्ककाष्ठैर्भवेत्कार्यं लोष्टैरपि च पांसुभिः।न तु स्थानात्परिभ्रष्टैः कार्यं स्याद्वसुधाधिपैः॥ १७उपभुक्तं यथा वासः स्रजो वा मृदिता यथा।एवं राज्यात्परिभ्रष्टः समर्थोऽपि निरर्थकः॥ १८अप्रमत्तश्च यो राजा सर्वज्ञो विजितेन्द्रियः।कृतज्ञो धर्मशीलश्च स राजा तिष्ठते चिरम्॥ १९नयनाभ्यां प्रसुप्तोऽपि जागर्ति नयचक्षुषा।व्यक्तक्रोधप्रसादश्च स राजा पूज्यते जनैः॥ २०त्वं तु रावणदुर्बुद्धिर्गुणैरेतैर्विवर्जितः।यस्य तेऽविदितश्चारै रक्षसां सुमहान्वधः॥ २१परावमन्ता विषयेषु संगतोनदेश कालप्रविभाग तत्त्ववित्।अयुक्तबुद्धिर्गुणदोषनिश्चयेविपन्नराज्यो न चिराद्विपत्स्यते॥ २२इति स्वदोषान्परिकीर्तितांस्तयासमीक्ष्य बुद्ध्या क्षणदाचरेश्वरः।धनेन दर्पेण बलेन चान्वितोविचिन्तयामास चिरं स रावणः॥ २३इति श्रीरामायणे अरण्यकाण्डे एकत्रिंशत्तमः सर्गः ॥ ३१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved