॥ ॐ श्री गणपतये नमः ॥

३६ सर्गः
कदाचिदप्यहं वीर्यात्पर्यटन्पृथिवीमिमाम्।बलं नागसहस्रस्य धारयन्पर्वतोपमः॥ १नीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः।भयं लोकस्य जनयन्किरीटी परिघायुधः।व्यचरं दण्डकारण्यमृषिमांसानि भक्षयन्॥ २विश्वामित्रोऽथ धर्मात्मा मद्वित्रस्तो महामुनिः।स्वयं गत्वा दशरथं नरेन्द्रमिदमब्रवीत्॥ ३अयं रक्षतु मां रामः पर्वकाले समाहितः।मारीचान्मे भयं घोरं समुत्पन्नं नरेश्वर॥ ४इत्येवमुक्तो धर्मात्मा राजा दशरथस्तदा।प्रत्युवाच महाभागं विश्वामित्रं महामुनिम्॥ ५ऊन षोडश वर्षोऽयमकृतास्त्रश्च राघवः।कामं तु मम यत्सैन्यं मया सह गमिष्यति।बधिष्यामि मुनिश्रेष्ठ शत्रुं तव यथेप्सितम्॥ ६इत्येवमुक्तः स मुनी राजानं पुनरब्रवीत्।रामान्नान्यद्बलं लोके पर्याप्तं तस्य रक्षसः॥ ७बालोऽप्येष महातेजाः समर्थस्तस्य निग्रहे।गमिष्ये राममादाय स्वस्ति तेऽस्तु परंतपः॥ ८इत्येवमुक्त्वा स मुनिस्तमादाय नृपात्मजम्।जगाम परमप्रीतो विश्वामित्रः स्वमाश्रमम्॥ ९तं तदा दण्डकारण्ये यज्ञमुद्दिश्य दीक्षितम्।बभूवावस्थितो रामश्चित्रं विस्फारयन्धनुः॥ १०अजातव्यञ्जनः श्रीमान्बालः श्यामः शुभेक्षणः।एकवस्त्रधरो धन्वी शिखी कनकमालया॥ ११शोभयन्दण्डकारण्यं दीप्तेन स्वेन तेजसा।अदृश्यत तदा रामो बालचन्द्र इवोदितः॥ १२ततोऽहं मेघसंकाशस्तप्तकाञ्चनकुण्डलः।बली दत्तवरो दर्पादाजगाम तदाश्रमम्॥ १३तेन दृष्टः प्रविष्टोऽहं सहसैवोद्यतायुधः।मां तु दृष्ट्वा धनुः सज्यमसंभ्रान्तश्चकार ह॥ १४अवजानन्नहं मोहाद्बालोऽयमिति राघवम्।विश्वामित्रस्य तां वेदिमध्यधावं कृतत्वरः॥ १५तेन मुक्तस्ततो बाणः शितः शत्रुनिबर्हणः।तेनाहं ताडितः क्षिप्तः समुद्रे शतयोजने॥ १६रामस्य शरवेगेन निरस्तो भ्रान्तचेतनः।पातितोऽहं तदा तेन गम्भीरे सागराम्भसि।प्राप्य संज्ञां चिरात्तात लङ्कां प्रति गतः पुरीम्॥ १७एवमस्मि तदा मुक्तः सहायास्ते निपातिताः।अकृतास्त्रेण रामेण बालेनाक्लिष्टकर्मणा॥ १८तन्मया वार्यमाणस्त्वं यदि रामेण विग्रहम्।करिष्यस्यापदं घोरां क्षिप्रं प्राप्य नशिष्यसि॥ १९क्रीडा रतिविधिज्ञानां समाजोत्सवशालिनाम्।रक्षसां चैव संतापमनर्थं चाहरिष्यसि॥ २०हर्म्यप्रासादसंबाधां नानारत्नविभूषिताम्।द्रक्ष्यसि त्वं पुरीं लङ्कां विनष्टां मैथिलीकृते॥ २१अकुर्वन्तोऽपि पापानि शुचयः पापसंश्रयात्।परपापैर्विनश्यन्ति मत्स्या नागह्रदे यथा॥ २२दिव्यचन्दनदिग्धाङ्गान्दिव्याभरणभूषितान्।द्रक्ष्यस्यभिहतान्भूमौ तव दोषात्तु राक्षसान्॥ २३हृतदारान्सदारांश्च दशविद्रवतो दिशः।हतशेषानशरणान्द्रक्ष्यसि त्वं निशाचरान्॥ २४शरजालपरिक्षिप्तामग्निज्वालासमावृताम्।प्रदग्धभवनां लङ्कां द्रक्ष्यसि त्वमसंशयम्॥ २५प्रमदानां सहस्राणि तव राजन्परिग्रहः।भव स्वदारनिरतः स्वकुलं रक्षराक्षस॥ २६मानं वृद्धिं च राज्यं च जीवितं चेष्टमात्मनः।यदीच्छसि चिरं भोक्तुं मा कृथा राम विप्रियम्॥ २७निवार्यमाणः सुहृदा मया भृशंप्रसह्य सीतां यदि धर्षयिष्यसि।गमिष्यसि क्षीणबलः सबान्धवोयमक्षयं रामशरात्तजीवितः॥ २८इति श्रीरामायणे अरण्यकाण्डे षट्त्रिंशः सर्गः ॥ ३६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved