॥ ॐ श्री गणपतये नमः ॥

४२ सर्गः
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः।बबन्धासिं महातेजा जाम्बूनदमयत्सरुम्॥ १ततस्त्रिविणतं चापमादायात्मविभूषणम्।आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः॥ २तं वञ्चयानो राजेन्द्रमापतन्तं निरीक्ष्य वै।बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत्॥ ३बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः।तं स पश्यति रूपेण द्योतमानमिवाग्रतः॥ ४अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने।अतिवृत्तमिषोः पाताल्लोभयानं कदाचन॥ ५शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरे।दश्यमानमदृश्यं च नवोद्देशेषु केषुचित्॥ ६छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम्।मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते॥ ७दर्शनादर्शनेनैव सोऽपाकर्षत राघवम्।आसीत्क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः॥ ८अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले।मृगैः परिवृतो वन्यैरदूरात्प्रत्यदृश्यत॥ ९दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः।संधाय सुदृढे चापे विकृष्य बलवद्बली॥ १०तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम्।मुमोच ज्वलितं दीप्तमस्त्रब्रह्मविनिर्मितम्॥ ११स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः।मारीचस्यैव हृदयं विभेदाशनिसंनिभः॥ १२तालमात्रमथोत्पत्य न्यपतत्स शरातुरः।व्यनदद्भैरवं नादं धरण्यामल्पजीवितः।म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम्॥ १३संप्राप्तकालमाज्ञाय चकार च ततः स्वरम्।सदृशं राघवस्यैव हा सीते लक्ष्मणेति च॥ १४तेन मर्मणि निर्विद्धः शरेणानुपमेन हि।मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमात्मनः।चक्रे स सुमहाकायो मारीचो जीवितं त्यजन्॥ १५ततो विचित्रकेयूरः सर्वाभरणभूषितः।हेममाली महादंष्ट्रो राक्षसोऽभूच्छराहतः॥ १६तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम्।जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन्॥ १७हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वरम्।ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत्॥ १८लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति।इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः॥ १९तत्र रामं भयं तीव्रमाविवेश विषादजम्।राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वरम्॥ २०निहत्य पृषतं चान्यं मांसमादाय राघवः।त्वरमाणो जनस्थानं ससाराभिमुखस्तदा॥ २१इति श्रीरामायणे अरण्यकाण्डे द्विचत्वारिंशः सर्गः ॥ ४२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved