४५ सर्गः
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा।परिव्राजकरूपेण शशंसात्मानमात्मना॥ १ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम्।इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत्॥ २दुहिता जनकस्याहं मैथिलस्य महात्मनः।सीता नाम्नास्मि भद्रं ते रामभार्या द्विजोत्तम॥ ३संवत्सरं चाध्युषिता राघवस्य निवेशने।भुञ्जाना मानुषान्भोगान्सर्वकामसमृद्धिनी॥ ४ततः संवत्सरादूर्ध्वं सममन्यत मे पतिम्।अभिषेचयितुं रामं समेतो राजमन्त्रिभिः॥ ५तस्मिन्संभ्रियमाणे तु राघवस्याभिषेचने।कैकेयी नाम भर्तारं ममार्या याचते वरम्॥ ६प्रतिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे।मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम्।द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम्॥ ७नाद्य भोक्ष्ये न च स्वप्स्ये न पास्येऽहं कदाचन।एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते॥ ८इति ब्रुवाणां कैकेयीं श्वशुरो मे स मानदः।अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा॥ ९मम भर्ता महातेजा वयसा पञ्चविंशकः।रामेति प्रथितो लोके गुणवान्सत्यवाक्शुचिः।विशालाक्षो महाबाहुः सर्वभूतहिते रतः॥ १०अभिषेकाय तु पितुः समीपं राममागतम्।कैकेयी मम भर्तारमित्युवाच द्रुतं वचः॥ ११तव पित्रा समाज्ञप्तं ममेदं शृणु राघव।भरताय प्रदातव्यमिदं राज्यमकण्टकम्॥ १२त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च।वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात्॥ १३तथेत्युवाच तां रामः कैकेयीमकुतोभयः।चकार तद्वचस्तस्या मम भर्ता दृढव्रतः॥ १४दद्यान्न प्रतिगृह्णीयात्सत्यब्रूयान्न चानृतम्।एतद्ब्राह्मण रामस्य व्रतं ध्रुवमनुत्तमम्॥ १५तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान्।रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा॥ १६स भ्राता लक्ष्मणो नाम धर्मचारी दृढव्रतः।अन्वगच्छद्धनुष्पाणिः प्रव्रजन्तं मया सह॥ १७ते वयं प्रच्युता राज्यात्कैलेय्यास्तु कृते त्रयः।विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा॥ १८समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया।आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम्॥ १९स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः।एकश्च दण्डकारण्ये किमर्थं चरसि द्विज॥ २०एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः।प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः॥ २१येन वित्रासिता लोकाः सदेवासुरपन्नगाः।अहं स रावणो नाम सीते रक्षोगणेश्वरः॥ २२त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम्।रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते॥ २३बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः।सर्वासामेव भद्रं ते ममाग्रमहिषी भव॥ २४लङ्का नाम समुद्रस्य मध्ये मम महापुरी।सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि॥ २५तत्र सीते मया सार्धं वनेषु विचरिष्यसि।न चास्यारण्यवासस्य स्पृहयिष्यसि भामिनि॥ २६पञ्चदास्यः सहस्राणि सर्वाभरणभूषिताः।सीते परिचरिष्यन्ति भार्या भवसि मे यदि॥ २७रावणेनैवमुक्ता तु कुपिता जनकात्मजा।प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसं॥ २८महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम्।महोदधिमिवाक्षोभ्यमहं राममनुव्रता॥ २९महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम्।नृसिंहं सिंहसंकाशमहं राममनुव्रता॥ ३०पूर्णचन्द्राननं वीरं राजवत्सं जितेन्द्रियम्।पृथुकीर्तिं महाबाहुमहं राममनुव्रता॥ ३१त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम्।नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा॥ ३२पादपान्काञ्चनान्नूनं बहून्पश्यसि मन्दभाक्।राघवस्य प्रियां भार्यां यस्त्वमिच्छसि रावण॥ ३३क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः।आशीविषस्य वदनाद्दंष्ट्रामादातुमिच्छसि॥ ३४मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि।कालकूटं विषं पीत्वा स्वस्तिमान्गन्तुमिच्छसि॥ ३५अक्षिसूच्या प्रमृजसि जिह्वया लेढि च क्षुरम्।राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि॥ ३६अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि।सूर्या चन्द्रमसौ चोभौ प्राणिभ्यां हर्तुमिच्छसि।यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि॥ ३७अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि।कल्याण वृत्तां रामस्य यो भार्यां हर्तुमिच्छसि॥ ३८अयोमुखानां शूलानामग्रे चरितुमिच्छसि।रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि॥ ३९यदन्तरं सिंहशृगालयोर्वनेयदन्तरं स्यन्दनिकासमुद्रयोः।सुराग्र्यसौवीरकयोर्यदन्तरंतदन्तरं दाशरथेस्तवैव च॥ ४०यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः।यदन्तरं हस्तिबिडालयोर्वनेतदन्तरं दशरथेस्तवैव च॥ ४१यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि।यदन्तरं सारसगृध्रयोर्वनेतदन्तरं दाशरथेस्तवैव च॥ ४२तस्मिन्सहस्राक्षसमप्रभावेरामे स्थिते कार्मुकबाणपाणौ।हृतापि तेऽहं न जरां गमिष्येवज्रं यथा मक्षिकयावगीर्णम्॥ ४३इतीव तद्वाक्यमदुष्टभावासुदृष्टमुक्त्वा रजनीचरं तम्।गात्रप्रकम्पाद्व्यथिता बभूववातोद्धता सा कदलीव तन्वी॥ ४४तां वेपमानामुपलक्ष्य सीतांस रावणो मृत्युसमप्रभावः।कुलं बलं नाम च कर्म चात्मनःसमाचचक्षे भयकारणार्थम्॥ ४५इति श्रीरामायणे अरण्यकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved