॥ ॐ श्री गणपतये नमः ॥

५० सर्गः
तमल्पजीवितं भूमौ स्फुरन्तं राक्षसाधिपः।ददर्श गृध्रं पतितं समीपे राघवाश्रमात्॥ १सा तु ताराधिपमुखी रावणेन समीक्ष्य तम्।गृध्रराजं विनिहतं विललाप सुदुःखिता॥ २निमित्तं लक्षणज्ञानं शकुनिस्वरदर्शनम्।अवश्यं सुखदुःखेषु नराणां प्रतिदृश्यते॥ ३न नूनं राम जानासि महद्व्यसनमात्मजः।धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥ ४त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना।सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके॥ ५तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत्।अभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥ ६तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान्।मुञ्च मुञ्चेति बहुशः प्रवदन्राक्षसाधिपः॥ ७क्रोशन्तीं राम रामेति रामेण रहितां वने।जीवितान्ताय केशेषु जग्राहान्तकसंनिभः॥ ८प्रधर्षितायां वैदेह्यां बभूव सचराचरम्।जगत्सर्वममर्यादं तमसान्धेन संवृतम्॥ ९दृष्ट्वा सीतां परामृष्टां दीनां दिव्येन चक्षुषा।कृतं कार्यमिति श्रीमान्व्याजहार पितामहः॥ १०प्रहृष्टा व्यथिताश्चासन्सर्वे ते परमर्षयः।दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः॥ ११स तु तां राम रामेति रुदन्तीं लक्ष्मणेति च।जगामाकाशमादाय रावणो राक्षसाधिपः॥ १२तप्ताभरणसर्वाङ्गी पीतकौशेयवासनी।रराज राजपुत्री तु विद्युत्सौदामनी यथा॥ १३उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः।अधिकं परिबभ्राज गिरिर्दीप इवाग्निना॥ १४तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च।पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम्॥ १५तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम्।बभौ चादित्यरागेण ताम्रमभ्रमिवातपे॥ १६तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम्।न रराज विना रामं विनालमिव पङ्कजम्॥ १७बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः।सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम्।शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम्॥ १८रुदितं व्यपमृष्टास्त्रं चन्द्रवत्प्रियदर्शनम्।सुनासं चारुताम्रौष्ठमाकाषे हाटकप्रभम्॥ १९राक्षसेन्द्रसमाधूतं तस्यास्तद्वचनं शुभम्।शुशुभे न विना रामं दिवा चन्द्र इवोदितः॥ २०सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम्।शुशुभे काञ्चनी काञ्ची नीलं मणिमिवाश्रिता॥ २१सा पद्मगौरी हेमाभा रावणं जनकात्मजा।विद्युद्घनमिवाविश्य शुशुभे तप्तभूषणा॥ २२तस्या भूषणघोषेण वैदेह्या राक्षसाधिपः।बभूव विमलो नीलः सघोष इव तोयदः॥ २३उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः।सीताया ह्रियमाणायाः पपात धरणीतले॥ २४सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः।समाधूता दशग्रीवं पुनरेवाभ्यवर्तत॥ २५अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम्।नक्षत्रमालाविमला मेरुं नगमिवोत्तमम्॥ २६चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम्।विद्युन्मण्डलसंकाशं पपात मधुरस्वनम्॥ २७तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम्।प्राशोभयत वैदेही गजं कष्येव काञ्चनी॥ २८तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा।जहाराकाशमाविश्य सीतां वैश्रवणानुजः॥ २९तस्यास्तान्यग्निवर्णानि भूषणानि महीतले।सघोषाण्यवकीर्यन्त क्षीणास्तारा इवाम्बरात्॥ ३०तस्याः स्तनान्तराद्भ्रष्टो हारस्ताराधिपद्युतिः।वैदेह्या निपतन्भाति गङ्गेव गगनाच्च्युता॥ ३१उत्पात वाताभिहता नानाद्विज गणायुताः।मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः॥ ३२नलिन्यो ध्वस्तकमलास्त्रस्तमीनजले चराः।सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम्॥ ३३समन्तादभिसंपत्य सिंहव्याघ्रमृगद्विजाः।अन्वधावंस्तदा रोषात्सीताच्छायानुगामिनः॥ ३४जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहवः।सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः॥ ३५ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः।प्रविध्वस्तप्रभः श्रीमानासीत्पाण्डुरमण्डलः॥ ३६नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता।यत्र रामस्य वैदेहीं भार्यां हरति रावणः॥ ३७इति सर्वाणि भूतानि गणशः पर्यदेवयन्।वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः॥ ३८उद्वीक्ष्योद्वीक्ष्य नयनैरास्रपाताविलेक्षणाः।सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः॥ ३९विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम्।तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम्॥ ४०अवेक्षमाणां बहुषो वैदेहीं धरणीतलम्।स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम्।जहारात्मविनाशाय दशग्रीवो मनस्विनाम्॥ ४१ततस्तु सा चारुदती शुचिस्मिताविनाकृता बन्धुजनेन मैथिली।अपश्यती राघवलक्ष्मणावुभौविवर्णवक्त्रा भयभारपीडिता॥ ४२इति श्रीरामायणे अरण्यकाण्डे पञ्चाशः सर्गः ॥ ५०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved