॥ ॐ श्री गणपतये नमः ॥

५२ सर्गः
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती।ददर्श गिरिशृङ्गस्थान्पञ्चवानरपुंगवान्॥ १तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम्।उत्तरीयं वरारोहा शुभान्याभरणानि च।मुमोच यदि रामाय शंसेयुरिति मैथिली॥ २वस्त्रमुत्सृज्य तन्मध्ये विनिक्षिप्तं सभूषणम्।संभ्रमात्तु दशग्रीवस्तत्कर्म न च बुद्धिवान्॥ ३पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव।विक्रोशन्तीं तदा सीतां ददृशुर्वानरर्षभाः॥ ४स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम्।जगाम रुदतीं गृह्य मैथिलीं राक्षसेश्वरः॥ ५तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः।उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम्॥ ६वनानि सरितः शैलान्सरांसि च विहायसा।स क्षिप्रं समतीयाय शरश्चापादिव च्युतः॥ ७तिमिनक्रनिकेतं तु वरुणालयमक्षयम्।सरितां शरणं गत्वा समतीयाय सागरम्॥ ८संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः।वैदेह्यां ह्रियमाणायां बभूव वरुणालयः॥ ९अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा।एतदन्तो दशग्रीव इति सिद्धास्तदाब्रुवन्॥ १०स तु सीतां विवेष्टन्तीमङ्केनादाय रावणः।प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः॥ ११सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम्।संरूढकक्ष्या बहुलं स्वमन्तःपुरमाविशत्॥ १२तत्र तामसितापाङ्गीं शोकमोहपरायणाम्।निदधे रावणः सीतां मयो मायामिवासुरीम्॥ १३अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः।यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः॥ १४मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च।यद्यदिच्छेत्तदेवास्या देयं मच्छन्दतो यथा॥ १५या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम्।अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम्॥ १६तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान्।निष्क्रम्यान्तःपुरात्तस्मात्किं कृत्यमिति चिन्तयन्।ददर्शाष्टौ महावीर्यान्राक्षसान्पिशिताशनान्॥ १७स तान्दृष्ट्वा महावीर्यो वरदानेन मोहितः।उवाचैतानिदं वाक्यं प्रशस्य बलवीर्यतः॥ १८नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः।जनस्थानं हतस्थानं भूतपूर्वं खरालयम्॥ १९तत्रोष्यतां जनस्थाने शून्ये निहतराक्षसे।पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः॥ २०बलं हि सुमहद्यन्मे जनस्थाने निवेशितम्।सदूषणखरं युद्धे हतं तद्रामसायकैः॥ २१ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते।वैरं च सुमहज्जातं रामं प्रति सुदारुणम्॥ २२निर्यातयितुमिच्छामि तच्च वैरमहं रिपोः।न हि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम्॥ २३तं त्विदानीमहं हत्वा खरदूषणघातिनम्।रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः॥ २४जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता।प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः॥ २५अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः।कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति॥ २६युष्माकं हि बलज्ञोऽहं बहुशो रणमूर्धनि।अतश्चास्मिञ्जनस्थाने मया यूयं नियोजिताः॥ २७ततः प्रियं वाक्यमुपेत्य राक्षसामहार्थमष्टावभिवाद्य रावणम्।विहाय लङ्कां सहिताः प्रतस्थिरेयतो जनस्थानमलक्ष्यदर्शनाः॥ २८ततस्तु सीतामुपलभ्य रावणःसुसंप्रहृष्टः परिगृह्य मैथिलीम्।प्रसज्य रामेण च वैरमुत्तमंबभूव मोहान्मुदितः स राक्षसः॥ २९इति श्रीरामायणे अरण्यकाण्डे द्विपञ्चाशः सर्गः ॥ ५२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved