५५ सर्गः
राक्षसं मृगरूपेण चरन्तं कामरूपिणम्।निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत॥ १तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम्।क्रूरस्वरोऽथ गोमायुर्विननादास्य पृष्ठतः॥ २स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम्।चिन्तयामास गोमायोः स्वरेण परिशङ्कितः॥ ३अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा।स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना॥ ४मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम्।विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद्यदि॥ ५स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम्।तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति॥ ६राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः।काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम्॥ ७दूरं नीत्वा तु मारीचो राक्षसोऽभूच्छराहतः।हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्यजहार ह॥ ८अपि स्वस्ति भवेद्द्वाभ्यां रहिताभ्यां मया वने।जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः।निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च॥ ९इत्येवं चिन्तयन्रामः श्रुत्वा गोमायुनिःस्वनम्।आत्मनश्चापनयनं मृगरूपेण रक्षसा।आजगाम जनस्थानं राघवः परिशङ्कितः॥ १०तं दीनमानसं दीनमासेदुर्मृगपक्षिणः।सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान्॥ ११तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः।ततो लक्षणमायान्तं ददर्श विगतप्रभम्॥ १२ततोऽविदूरे रामेण समीयाय स लक्ष्मणः।विषण्णः स विषण्णेन दुःखितो दुःखभागिना॥ १३संजगर्हेऽथ तं भ्राता जेष्ठो लक्ष्मणमागतम्।विहाय सीतां विजने वने राक्षससेविते॥ १४गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः।उवाच मधुरोदर्कमिदं परुषमार्तवत्॥ १५अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम्।सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति॥ १६न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा।विनष्टा भक्षिता वाप राक्षसैर्वनचारिभिः॥ १७अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे।अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयावहे॥ १८इदं हि रक्षोमृगसंनिकाशंप्रलोभ्य मां दूरमनुप्रयातम्।हतं कथंचिन्महता श्रमेणस राक्षसोऽभून्म्रियमाण एव॥ १९मनश्च मे दीनमिहाप्रहृष्टंचक्षुश्च सव्यं कुरुते विकारम्।असंशयं लक्ष्मण नास्ति सीताहृता मृता वा पथि वर्तते वा॥ २०इति श्रीरामायणे अरण्यकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved