५८ सर्गः
भृशमाव्रजमानस्य तस्याधोवामलोचनम्।प्रास्फुरच्चास्खलद्रामो वेपथुश्चास्य जायते॥ १उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः।अपि क्षेमं तु सीताया इति वै व्याजहार ह॥ २त्वरमाणो जगामाथ सीतादर्शनलालसः।शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः॥ ३उद्भ्रमन्निव वेगेन विक्षिपन्रघुनन्दनः।तत्र तत्रोटजस्थानमभिवीक्ष्य समन्ततः॥ ४ददर्श पर्णशालां च रहितां सीतया तदा।श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव॥ ५रुदन्तमिव वृक्षैश्च म्लानपुष्पमृगद्विजम्।श्रिया विहीनं विध्वस्तं संत्यक्तवनदैवतम्॥ ६विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम्।दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः॥ ७हृता मृता वा नष्टा वा भक्षिता वा भविष्यति।निलीनाप्यथ वा भीरुरथ वा वनमाश्रिता॥ ८गता विचेतुं पुष्पाणि फलान्यपि च वा पुनः।अथ वा पद्मिनीं याता जलार्थं वा नदीं गता॥ ९यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम्।शोकरक्तेक्षणः शोकादुन्मत्त इव लक्ष्यते॥ १०वृक्षाद्वृक्षं प्रधावन्स गिरींश्चापि नदीन्नदीम्।बभूव विलपन्रामः शोकपङ्कार्णवप्लुतः॥ ११अस्ति कच्चित्त्वया दृष्टा सा कदम्बप्रिया प्रिया।कदम्ब यदि जानीषे शंस सीतां शुभाननाम्॥ १२स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम्।शंसस्व यदि वा दृष्टा बिल्व बिल्वोपमस्तनी॥ १३अथ वार्जुन शंस त्वं प्रियां तामर्जुनप्रियाम्।जनकस्य सुता भीरुर्यदि जीवति वा न वा॥ १४ककुभः ककुभोरुं तां व्यक्तं जानाति मैथिलीम्।लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः॥ १५भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्ययम्।एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम्॥ १६अशोकशोकापनुद शोकोपहतचेतसं।त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम्॥ १७यदि ताल त्वया दृष्टा पक्वतालफलस्तनी।कथयस्व वरारोहां कारुष्यं यदि ते मयि॥ १८यदि दृष्टा त्वया सीता जम्बुजाम्बूनदप्रभा।प्रियां यदि विजानीषे निःशङ्कं कथयस्व मे॥ १९अथ वा मृगशावाक्षीं मृग जानासि मैथिलीम्।मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत्॥ २०गज सा गजनासोरुर्यदि दृष्टा त्वया भवेत्।तां मन्ये विदितां तुभ्यमाख्याहि वरवारण॥ २१शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना।मैथिली मम विस्रब्धः कथयस्व न ते भयम्॥ २२किं धावसि प्रिये नूनं दृष्टासि कमलेक्षणे।वृक्षेणाच्छाद्य चात्मानं किं मां न प्रतिभाषसे॥ २३तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि।नात्यर्थं हास्यशीलासि किमर्थं मामुपेक्षसे॥ २४पीतकौशेयकेनासि सूचिता वरवर्णिनि।धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम्॥ २५नैव सा नूनमथ वा हिंसिता चारुहासिनी।कृच्छ्रं प्राप्तं हि मां नूनं यथोपेक्षितुमर्हति॥ २६व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः।विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया॥ २७नूनं तच्छुभदन्तौष्ठं मुखं निष्प्रभतां गतम्।सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेय शोभिता॥ २८कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा।नूनं विक्षिप्यमाणौ तौ बाहू पल्लवकोमलौ॥ २९भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ।मया विरहिता बाला रक्षसां भक्षणाय वै॥ ३०सार्थेनेव परित्यक्ता भक्षिता बहुबान्धवा।हा लक्ष्मण महाबाहो पश्यसि त्वं प्रियां क्वचित्॥ ३१हा प्रिये क्व गता भद्रे हा सीतेति पुनः पुनः।इत्येवं विलपन्रामः परिधावन्वनाद्वनम्॥ ३२क्वचिदुद्भ्रमते वेगात्क्वचिद्विभ्रमते बलात्।क्वचिन्मत्त इवाभाति कान्तान्वेषणतत्परः॥ ३३स वनानि नदीः शैलान्गिरिप्रस्रवणानि च।काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३४तथा स गत्वा विपुलं महद्वनंपरीत्य सर्वं त्वथ मैथिलीं प्रति।अनिष्ठिताशः स चकार मार्गणेपुनः प्रियायाः परमं परिश्रमम्॥ ३५इति श्रीरामायणे अरण्यकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved