॥ ॐ श्री गणपतये नमः ॥

५९ सर्गः
दृष्टाश्रमपदं शून्यं रामो दशरथात्मजः।रहितां पर्णशालां च विध्वस्तान्यासनानि च॥ १अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः।उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ॥ २क्व नु लक्ष्मण वैदेही कं वा देशमितो गता।केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया॥ ३वृष्केणावार्य यदि मां सीते हसितुमिच्छसि।अलं ते हसितेनाद्य मां भजस्व सुदुःखितम्॥ ४यैः सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः।एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥ ५मृतं शोकेन महता सीताहरणजेन माम्।परलोके महाराजो नूनं द्रक्ष्यति मे पिता॥ ६कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः।अपूरयित्वा तं कालं मत्सकाशमिहागतः॥ ७कामवृत्तमनार्यं मां मृषावादिनमेव च।धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता॥ ८विवशं शोकसंतप्तं दीनं भग्नमनोरथम्।मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम्॥ ९क्व गच्छसि वरारोहे मामुत्सृज्य सुमध्यमे।त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः॥ १०इतीव विलपन्रामः सीतादर्शनलालसः।न ददर्श सुदुःखार्तो राघवो जनकात्मजाम्॥ ११अनासादयमानं तं सीतां दशरथात्मजम्।पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम्।लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया॥ १२मा विषादं महाबाहो कुरु यत्नं मया सह।इदं च हि वनं शूर बहुकन्दरशोभितम्॥ १३प्रियकाननसंचारा वनोन्मत्ता च मैथिली।सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम्॥ १४सरितं वापि संप्राप्ता मीनवञ्जुरसेविताम्।वित्रासयितुकामा वा लीना स्यात्कानने क्वचित्।जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ॥ १५तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे।वनं सर्वं विचिनुवो यत्र सा जनकात्मजा।मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः॥ १६एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः।सह सौमित्रिणा रामो विचेतुमुपचक्रमे।तौ वनानि गिरींश्चैव सरितश्च सरांसि च॥ १७निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ।तस्य शैलस्य सानूनि गुहाश्च शिखराणि च॥ १८निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः।विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत्॥ १९नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभे।ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत्॥ २०विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसं।प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम्॥ २१यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम्।एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः॥ २२उवाच दीनया वाचा दुःखाभिहतचेतनः।वनं सर्वं सुविचितं पद्मिन्यः फुल्लपङ्कजाः॥ २३गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्झरः।न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम्॥ २४एवं स विलपन्रामः सीताहरणकर्शितः।दीनः शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत्॥ २५स विह्वलितसर्वाङ्गो गतबुद्धिर्विचेतनः।विषसादातुरो दीनो निःश्वस्याशीतमायतम्॥ २६बहुशः स तु निःश्वस्य रामो राजीवलोचनः।हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः॥ २७तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवः।बहुप्रकारं धर्मज्ञः प्रश्रितः प्रश्रिताञ्जलिः॥ २८अनादृत्य तु तद्वाक्यं लक्ष्मणौष्ठपुटच्युतम्।अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः॥ २९इति श्रीरामायणे अरण्यकाण्डे एकोनषष्टितमः सर्गः ॥ ५९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved