॥ ॐ श्री गणपतये नमः ॥

६० सर्गः
स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत्।शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम्।अपि गोदावरीं सीता पद्मान्यानयितुं गता॥ १एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि।नदीं गोदावरीं रम्यां जगाम लघुविक्रमः॥ २तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत्।नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे॥ ३कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी।न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा॥ ४लक्ष्मणस्य वचः श्रुत्वा दीनः संताप मोहितः।रामः समभिचक्राम स्वयं गोदावरीं नदीम्॥ ५स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत्॥ ६भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि।न तां शशंसू रामाय तथा गोदावरी नदी॥ ७ततः प्रचोदिता भूतैः शंसास्मै तां प्रियामिति।न च साभ्यवदत्सीतां पृष्टा रामेण शोचिता॥ ८रावणस्य च तद्रूपं कर्माणि च दुरात्मनः।ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम्॥ ९निराशस्तु तया नद्या सीताया दर्शने कृतः।उवाच रामः सौमित्रिं सीतादर्शनकर्शितः॥ १०किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः।मातरं चैव वैदेह्या विना तामहमप्रियम्॥ ११या मे राज्यविहीनस्य वने वन्येन जीवतः।सर्वं व्यपनयच्छोकं वैदेही क्व नु सा गता॥ १२ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः।मन्ये दीर्घा भविष्यन्ति रात्रयो मम जाग्रतः॥ १३गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम्।सर्वाण्यनुचरिष्यामि यदि सीता हि दृश्यते॥ १४एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ।वसुंधरायां पतितं पुष्पमार्गमपश्यताम्॥ १५तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले।उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः॥ १६अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण।अपिनद्धानि वैदेह्या मया दत्तानि कानने॥ १७एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम्।क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा॥ १८तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत।यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम्॥ १९मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि।असेव्यः सततं चैव निस्तृणद्रुमपल्लवः॥ २०इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण।यदि नाख्याति मे सीतामद्य चन्द्रनिभाननाम्॥ २१एवं स रुषितो रामो दिधक्षन्निव चक्षुषा।ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत्॥ २२स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च।संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम्॥ २३पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः।भूषणानां हि सौमित्रे माल्यानि विविधानि च॥ २४तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजबिन्दुभिः।आवृतं पश्य सौमित्रे सर्वतो धरणीतलम्॥ २५मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः।भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति॥ २६तस्य निमित्तं वैदेह्या द्वयोर्विवदमानयोः।बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह॥ २७मुक्तामणिचितं चेदं तपनीयविभूषितम्।धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः॥ २८तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम्।विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम्॥ २९छत्रं शतशलाकं च दिव्यमाल्योपशोभितम्।भग्नदण्डमिदं कस्य भूमौ सौम्य निपातितम्॥ ३०काञ्चनोरश्छदाश्चेमे पिशाचवदनाः खराः।भीमरूपा महाकायाः कस्य वा निहता रणे॥ ३१दीप्तपावकसंकाशो द्युतिमान्समरध्वजः।अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः॥ ३२रथाक्षमात्रा विशिखास्तपनीयविभूषणाः।कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः॥ ३३वैरं शतगुणं पश्य ममेदं जीवितान्तकम्।सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः॥ ३४हृता मृता वा सीता हि भक्षिता वा तपस्विनी।न धर्मस्त्रायते सीतां ह्रियमाणां महावने॥ ३५भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण।के हि लोके प्रियं कर्तुं शक्ताः सौम्य ममेश्वराः॥ ३६कर्तारमपि लोकानां शूरं करुणवेदिनम्।अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण॥ ३७मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम्।निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः॥ ३८मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण।अद्यैव सर्वभूतानां रक्षसामभवाय च।संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः॥ ३९नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः।किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण॥ ४०ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण।निःसंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम्॥ ४१संनिरुद्धग्रहगणमावारितनिशाकरम्।विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम्॥ ४२विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम्।ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम्॥ ४३न तां कुशलिनीं सीतां प्रदास्यन्ति ममेश्वराः।अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम्॥ ४४नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण।मम चापगुणान्मुक्तैर्बाणजालैर्निरन्तरम्॥ ४५अर्दितं मम नाराचैर्ध्वस्तभ्रान्तमृगद्विजम्।समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण॥ ४६आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः।करिष्ये मैथिलीहेतोरपिशाचमराक्षसं॥ ४७मम रोषप्रयुक्तानां सायकानां बलं सुराः।द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम्॥ ४८नैव देवा न दैतेया न पिशाचा न राक्षसाः।भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते॥ ४९देवदानवयक्षाणां लोका ये रक्षसामपि।बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः।निर्मर्यादानिमाँल्लोकान्करिष्याम्यद्य सायकैः॥ ५०यथा जरा यथा मृत्युर्यथाकालो यथाविधिः।नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण।तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम्॥ ५१पुरेव मे चारुदतीमनिन्दितांदिशन्ति सीतां यदि नाद्य मैथिलीम्।सदेवगन्धर्वमनुष्य पन्नगंजगत्सशैलं परिवर्तयाम्यहम्॥ ५२इति श्रीरामायणे अरण्यकाण्डे षष्टितमः सर्गः ॥ ६०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved