॥ ॐ श्री गणपतये नमः ॥

६७ सर्गः
पुरा राम महाबाहो महाबलपराक्रम।रूपमासीन्ममाचिन्त्यं त्रिषु लोकेषु विश्रुतम्।यथा सोमस्य शक्रस्य सूर्यस्य च यथा वपुः॥ १सोऽहं रूपमिदं कृत्वा लोकवित्रासनं महत्।ऋषीन्वनगतान्राम त्रासयामि ततस्ततः॥ २ततः स्थूलशिरा नाम महर्षिः कोपितो मया।संचिन्वन्विविधं वन्यं रूपेणानेन धर्षितः॥ ३तेनाहमुक्तः प्रेक्ष्यैवं घोरशापाभिधायिना।एतदेव नृशंसं ते रूपमस्तु विगर्हितम्॥ ४स मया याचितः क्रुद्धः शापस्यान्तो भवेदिति।अभिशापकृतस्येति तेनेदं भाषितं वचः॥ ५यदा छित्त्वा भुजौ रामस्त्वां दहेद्विजने वने।तदा त्वं प्राप्स्यसे रूपं स्वमेव विपुलं शुभम्॥ ६श्रिया विराजितं पुत्रं दनोस्त्वं विद्धि लक्ष्मण।इन्द्रकोपादिदं रूपं प्राप्तमेवं रणाजिरे॥ ७अहं हि तपसोग्रेण पितामहमतोषयम्।दीर्घमायुः स मे प्रादात्ततो मां विभ्रमोऽस्पृशत्॥ ८दीर्घमायुर्मया प्राप्तं किं मे शक्रः करिष्यति।इत्येवं बुद्धिमास्थाय रणे शक्रमधर्षयम्॥ ९तस्य बाहुप्रमुक्तेन वज्रेण शतपर्वणा।सक्थिनी च शिरश्चैव शरीरे संप्रवेशितम्॥ १०स मया याच्यमानः सन्नानयद्यमसादनम्।पितामहवचः सत्यं तदस्त्विति ममाब्रवीत्॥ ११अनाहारः कथं शक्तो भग्नसक्थिशिरोमुखः।वज्रेणाभिहतः कालं सुदीर्घमपि जीवितुम्॥ १२एवमुक्तस्तु मे शक्रो बाहू योजनमायतौ।प्रादादास्यं च मे कुक्षौ तीक्ष्णदंष्ट्रमकल्पयत्॥ १३सोऽहं भुजाभ्यां दीर्घाभ्यां समाकृष्य वनेचरान्।सिंहद्विपमृगव्याघ्रान्भक्षयामि समन्ततः॥ १४स तु मामब्रवीदिन्द्रो यदा रामः सलक्ष्मणः।छेत्स्यते समरे बाहू तदा स्वर्गं गमिष्यसि॥ १५स त्वं रामोऽसि भद्रं ते नाहमन्येन राघव।शक्यो हन्तुं यथातत्त्वमेवमुक्तं महर्षिणा॥ १६अहं हि मतिसाचिव्यं करिष्यामि नरर्षभ।मित्रं चैवोपदेक्ष्यामि युवाभ्यां संस्कृतोऽग्निना॥ १७एवमुक्तस्तु धर्मात्मा दनुना तेन राघवः।इदं जगाद वचनं लक्ष्मणस्योपशृण्वतः॥ १८रावणेन हृता सीता मम भार्या यशस्विनी।निष्क्रान्तस्य जनस्थानात्सह भ्रात्रा यथासुखम्॥ १९नाममात्रं तु जानामि न रूपं तस्य रक्षसः।निवासं वा प्रभावं वा वयं तस्य न विद्महे॥ २०शोकार्तानामनाथानामेवं विपरिधावताम्।कारुण्यं सदृशं कर्तुमुपकारे च वर्तताम्॥ २१काष्ठान्यानीय शुष्काणि काले भग्नानि कुञ्जरैः।भक्ष्यामस्त्वां वयं वीर श्वभ्रे महति कल्पिते॥ २२स त्वं सीतां समाचक्ष्व येन वा यत्र वा हृता।कुरु कल्याणमत्यर्थं यदि जानासि तत्त्वतः॥ २३एवमुक्तस्तु रामेण वाक्यं दनुरनुत्तमम्।प्रोवाच कुशलो वक्तुं वक्तारमपि राघवम्॥ २४दिव्यमस्ति न मे ज्ञानं नाभिजानामि मैथिलीम्।यस्तां ज्ञास्यति तं वक्ष्ये दग्धः स्वं रूपमास्थितः॥ २५अदग्धस्य हि विज्ञातुं शक्तिरस्ति न मे प्रभो।राक्षसं तं महावीर्यं सीता येन हृता तव॥ २६विज्ञानं हि महद्भ्रष्टं शापदोषेण राघव।स्वकृतेन मया प्राप्तं रूपं लोकविगर्हितम्॥ २७किं तु यावन्न यात्यस्तं सविता श्रान्तवाहनः।तावन्मामवटे क्षिप्त्वा दह राम यथाविधि॥ २८दग्धस्त्वयाहमवटे न्यायेन रघुनन्दन।वक्ष्यामि तमहं वीर यस्तं ज्ञास्यति राक्षसं॥ २९तेन सख्यं च कर्तव्यं न्याय्यवृत्तेन राघव।कल्पयिष्यति ते प्रीतः साहाय्यं लघुविक्रमः॥ ३०न हि तस्यास्त्यविज्ञातं त्रिषु लोकेषु राघव।सर्वान्परिसृतो लोकान्पुरा वै कारणान्तरे॥ ३१इति श्रीरामायणे अरण्यकाण्डे सप्तषष्टितमः सर्गः ॥ ६७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved