७० सर्गः
तौ कबन्धेन तं मार्गं पम्पाया दर्शितं वने।आतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ॥ १तौ शैलेष्वाचितानेकान्क्षौद्रकल्पफलद्रुमान्।वीक्षन्तौ जग्मतुर्द्रष्टुं सुग्रीवं रामलक्ष्मणौ॥ २कृत्वा च शैलपृष्ठे तु तौ वासं रघुनन्दनौ।पम्पायाः पश्चिमं तीरं राघवावुपतस्थतुः॥ ३तौ पुष्करिण्याः पम्पायास्तीरमासाद्य पश्चिमम्।अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम्॥ ४तौ तमाश्रममासाद्य द्रुमैर्बहुभिरावृतम्।सुरम्यमभिवीक्षन्तौ शबरीमभ्युपेयतुः॥ ५तौ तु दृष्ट्वा तदा सिद्धा समुत्थाय कृताञ्जलिः।पादौ जग्राह रामस्य लक्ष्मणस्य च धीमतः॥ ६तामुवाच ततो रामः श्रमणीं संशितव्रताम्।कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः॥ ७कच्चित्ते नियतः कोप आहारश्च तपोधने।कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम्।कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि॥ ८रामेण तापसी पृष्ठा सा सिद्धा सिद्धसंमता।शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता॥ ९चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः।इतस्ते दिवमारूढा यानहं पर्यचारिषम्॥ १०तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः।आगमिष्यति ते रामः सुपुण्यमिममाश्रमम्॥ ११स ते प्रतिग्रहीतव्यः सौमित्रिसहितोऽतिथिः।तं च दृष्ट्वा वराँल्लोकानक्षयांस्त्वं गमिष्यसि॥ १२मया तु विविधं वन्यं संचितं पुरुषर्षभ।तवार्थे पुरुषव्याघ्र पम्पायास्तीरसंभवम्॥ १३एवमुक्तः स धर्मात्मा शबर्या शबरीमिदम्।राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम्॥ १४दनोः सकाशात्तत्त्वेन प्रभावं ते महात्मनः।श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे॥ १५एतत्तु वचनं श्रुत्वा रामवक्त्राद्विनिःसृतम्।शबरी दर्शयामास तावुभौ तद्वनं महत्॥ १६पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम्।मतङ्गवनमित्येव विश्रुतं रघुनन्दन॥ १७इह ते भावितात्मानो गुरवो मे महाद्युते।जुहवांश्चक्रिरे तीर्थं मन्त्रवन्मन्त्रपूजितम्॥ १८इयं प्रत्यक्स्थली वेदी यत्र ते मे सुसत्कृताः।पुष्पोपहारं कुर्वन्ति श्रमादुद्वेपिभिः करैः॥ १९तेषां तपः प्रभावेन पश्याद्यापि रघूत्तम।द्योतयन्ति दिशः सर्वाः श्रिया वेद्योऽतुलप्रभाः॥ २०अशक्नुवद्भिस्तैर्गन्तुमुपवासश्रमालसैः।चिन्तितेऽभ्यागतान्पश्य समेतान्सप्त सागरान्॥ २१कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह।अद्यापि न विशुष्यन्ति प्रदेशे रघुनन्दन॥ २२कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया।तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेवरम्॥ २३तेषामिच्छाम्यहं गन्तुं समीपं भावितात्मनाम्।मुनीनामाश्रंमो येषामहं च परिचारिणी॥ २४धर्मिष्ठं तु वचः श्रुत्वा राघवः सहलक्ष्मणः।अनुजानामि गच्छेति प्रहृष्टवदनोऽब्रवीत्॥ २५अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने।ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा॥ २६यत्र ते सुकृतात्मानो विहरन्ति महर्षयः।तत्पुण्यं शबरीस्थानं जगामात्मसमाधिना॥ २७इति श्रीरामायणे अरण्यकाण्डे सप्ततितमः सर्गः ॥ ७०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved