२ सर्गः
तौ तु दृष्ट्वा महात्मानौ भ्रातरौ रामलक्ष्मणौ।वरायुधधरौ वीरौ सुग्रीवः शङ्कितोऽभवत्॥ १उद्विग्नहृदयः सर्वा दिशः समवलोकयन्।न व्यतिष्ठत कस्मिंश्चिद्देशे वानरपुंगवः॥ २नैव चक्रे मनः स्थाने वीक्षमाणो महाबलौ।कपेः परमभीतस्य चित्तं व्यवससाद ह॥ ३चिन्तयित्वा स धर्मात्मा विमृश्य गुरुलाघवम्।सुग्रीवः परमोद्विग्नः सर्वैरनुचरैः सह॥ ४ततः स सचिवेभ्यस्तु सुग्रीवः प्लवगाधिपः।शशंस परमोद्विग्नः पश्यंस्तौ रामलक्ष्मणौ॥ ५एतौ वनमिदं दुर्गं वालिप्रणिहितौ ध्रुवम्।छद्मना चीरवसनौ प्रचरन्ताविहागतौ॥ ६ततः सुग्रीवसचिवा दृष्ट्वा परमधन्विनौ।जग्मुर्गिरितटात्तस्मादन्यच्छिखरमुत्तमम्॥ ७ते क्षिप्रमभिगम्याथ यूथपा यूथपर्षभम्।हरयो वानरश्रेष्ठं परिवार्योपतस्थिरे॥ ८एकमेकायनगताः प्लवमाना गिरेर्गिरिम्।प्रकम्पयन्तो वेगेन गिरीणां शिखराणि च॥ ९ततः शाखामृगाः सर्वे प्लवमाना महाबलाः।बभञ्जुश्च नगांस्तत्र पुष्पितान्दुर्गसंश्रितान्॥ १०आप्लवन्तो हरिवराः सर्वतस्तं महागिरिम्।मृगमार्जारशार्दूलांस्त्रासयन्तो ययुस्तदा॥ ११ततः सुग्रीवसचिवाः पर्वतेन्द्रं समाश्रिताः।संगम्य कपिमुख्येन सर्वे प्राञ्जलयः स्थिताः॥ १२ततस्तं भयसंत्रस्तं वालिकिल्बिषशङ्कितम्।उवाच हनुमान्वाक्यं सुग्रीवं वाक्यकोविदः॥ १३यस्मादुद्विग्नचेतास्त्वं प्रद्रुतो हरिपुंगव।तं क्रूरदर्शनं क्रूरं नेह पश्यामि वालिनम्॥ १४यस्मात्तव भयं सौम्य पूर्वजात्पापकर्मणः।स नेह वाली दुष्टात्मा न ते पश्याम्यहं भयम्॥ १५अहो शाखामृगत्वं ते व्यक्तमेव प्लवंगम।लघुचित्ततयात्मानं न स्थापयसि यो मतौ॥ १६बुद्धिविज्ञानसंपन्न इङ्गितैः सर्वमाचर।न ह्यबुद्धिं गतो राजा सर्वभूतानि शास्ति हि॥ १७सुग्रीवस्तु शुभं वाक्यं श्रुत्वा सर्वं हनूमतः।ततः शुभतरं वाक्यं हनूमन्तमुवाच ह॥ १८दीर्घबाहू विशालाक्षौ शरचापासिधारिणौ।कस्य न स्याद्भयं दृष्ट्वा एतौ सुरसुतोपमौ॥ १९वालिप्रणिहितावेतौ शङ्केऽहं पुरुषोत्तमौ।राजानो बहुमित्राश्च विश्वासो नात्र हि क्षमः॥ २०अरयश्च मनुष्येण विज्ञेयाश्छन्नचारिणः।विश्वस्तानामविश्वस्ताश्छिद्रेषु प्रहरन्ति हि॥ २१कृत्येषु वाली मेधावी राजानो बहुदर्शनाः।भवन्ति परहन्तारस्ते ज्ञेयाः प्राकृतैर्नरैः॥ २२तौ त्वया प्राकृतेनैव गत्वा ज्ञेयौ प्लवंगम।शङ्कितानां प्रकारैश्च रूपव्याभाषणेन च॥ २३लक्षयस्व तयोर्भावं प्रहृष्टमनसौ यदि।विश्वासयन्प्रशंसाभिरिङ्गितैश्च पुनः पुनः॥ २४ममैवाभिमुखं स्थित्वा पृच्छ त्वं हरिपुंगव।प्रयोजनं प्रवेशस्य वनस्यास्य धनुर्धरौ॥ २५शुद्धात्मानौ यदि त्वेतौ जानीहि त्वं प्लवंगम।व्याभाषितैर्वा रूपैर्वा विज्ञेया दुष्टतानयोः॥ २६इत्येवं कपिराजेन संदिष्टो मारुतात्मजः।चकार गमने बुद्धिं यत्र तौ रामलक्ष्मणौ॥ २७तथेति संपूज्य वचस्तु तस्यकपेः सुभीतस्य दुरासदस्य।महानुभावो हनुमान्ययौ तदास यत्र रामोऽतिबलश्च लक्ष्मणः॥ २८इति श्रीरामायणे किष्किन्धाकाण्डे द्वितीयः सर्गः ॥ २
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved