११ सर्गः
रामस्य वचनं श्रुत्वा हर्षपौरुषवर्धनम्।सुग्रीवः पूजयां चक्रे राघवं प्रशशंस च॥ १असंशयं प्रज्वलितैस्तीक्ष्णैर्मर्मातिगैः शरैः।त्वं दहेः कुपितो लोकान्युगान्त इव भास्करः॥ २वालिनः पौरुषं यत्तद्यच्च वीर्यं धृतिश्च या।तन्ममैकमनाः श्रुत्वा विधत्स्व यदनन्तरम्॥ ३समुद्रात्पश्चिमात्पूर्वं दक्षिणादपि चोत्तरम्।क्रामत्यनुदिते सूर्ये वाली व्यपगतक्लमः॥ ४अग्राण्यारुह्य शैलानां शिखराणि महान्त्यपि।ऊर्ध्वमुत्क्षिप्य तरसा प्रतिगृह्णाति वीर्यवान्॥ ५बहवः सारवन्तश्च वनेषु विविधा द्रुमाः।वालिना तरसा भग्ना बलं प्रथयतात्मनः॥ ६महिषो दुन्दुभिर्नाम कैलासशिखरप्रभः।बलं नागसहस्रस्य धारयामास वीर्यवान्॥ ७वीर्योत्सेकेन दुष्टात्मा वरदानाच्च मोहितः।जगाम स महाकायः समुद्रं सरितां पतिम्॥ ८ऊर्मिमन्तमतिक्रम्य सागरं रत्नसंचयम्।मम युद्धं प्रयच्छेति तमुवाच महार्णवम्॥ ९ततः समुद्रो धर्मात्मा समुत्थाय महाबलः।अब्रवीद्वचनं राजन्नसुरं कालचोदितम्॥ १०समर्थो नास्मि ते दातुं युद्धं युद्धविशारद।श्रूयतामभिधास्यामि यस्ते युद्धं प्रदास्यति॥ ११शैलराजो महारण्ये तपस्विशरणं परम्।शंकरश्वशुरो नाम्ना हिमवानिति विश्रुतः॥ १२गुहा प्रस्रवणोपेतो बहुकन्दरनिर्झरः।स समर्थस्तव प्रीतिमतुलां कर्तुमाहवे॥ १३तं भीतमिति विज्ञाय समुद्रमसुरोत्तमः।हिमवद्वनमागच्छच्छरश्चापादिव च्युतः॥ १४ततस्तस्य गिरेः श्वेता गजेन्द्रविपुलाः शिलाः।चिक्षेप बहुधा भूमौ दुन्दुभिर्विननाद च॥ १५ततः श्वेताम्बुदाकारः सौम्यः प्रीतिकराकृतिः।हिमवानब्रवीद्वाक्यं स्व एव शिखरे स्थितः॥ १६क्लेष्टुमर्हसि मां न त्वं दुन्दुभे धर्मवत्सल।रणकर्मस्वकुशलस्तपस्विशरणं ह्यहम्॥ १७तस्य तद्वचनं श्रुत्वा गिरिराजस्य धीमतः।उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः॥ १८यदि युद्धेऽसमर्थस्त्वं मद्भयाद्वा निरुद्यमः।तमाचक्ष्व प्रदद्यान्मे योऽद्य युद्धं युयुत्सतः॥ १९हिमवानब्रवीद्वाक्यं श्रुत्वा वाक्यविशारदः।अनुक्तपूर्वं धर्मात्मा क्रोधात्तमसुरोत्तमम्॥ २०वाली नाम महाप्राज्ञः शक्रतुल्यपराक्रमः।अध्यास्ते वानरः श्रीमान्किष्किन्धामतुलप्रभाम्॥ २१स समर्थो महाप्राज्ञस्तव युद्धविशारदः।द्वन्द्वयुद्धं महद्दातुं नमुचेरिव वासवः॥ २२तं शीघ्रमभिगच्छ त्वं यदि युद्धमिहेच्छसि।स हि दुर्धर्षणो नित्यं शूरः समरकर्मणि॥ २३श्रुत्वा हिमवतो वाक्यं क्रोधाविष्टः स दुन्दुभिः।जगाम तां पुरीं तस्य किष्किन्धां वालिनस्तदा॥ २४धारयन्माहिषं रूपं तीक्ष्णशृङ्गो भयावहः।प्रावृषीव महामेघस्तोयपूर्णो नभस्तले॥ २५ततस्तु द्वारमागम्य किष्किन्धाया महाबलः।ननर्द कम्पयन्भूमिं दुन्दुभिर्दुन्दुभिर्यथा॥ २६समीपजान्द्रुमान्भञ्जन्वसुधां दारयन्खुरैः।विषाणेनोल्लेखन्दर्पात्तद्द्वारं द्विरदो यथा॥ २७अन्तःपुरगतो वाली श्रुत्वा शब्दममर्षणः।निष्पपात सह स्त्रीभिस्ताराभिरिव चन्द्रमाः॥ २८मितं व्यक्ताक्षरपदं तमुवाच स दुन्दुभिम्।हरीणामीश्वरो वाली सर्वेषां वनचारिणाम्॥ २९किमर्थं नगरद्वारमिदं रुद्ध्वा विनर्दसि।दुन्दुभे विदितो मेऽसि रक्ष प्राणान्महाबल॥ ३०तस्य तद्वचनं श्रुत्वा वानरेन्द्रस्य धीमतः।उवाच दुन्दुभिर्वाक्यं क्रोधात्संरक्तलोचनः॥ ३१न त्वं स्त्रीसंनिधौ वीर वचनं वक्तुमर्हसि।मम युद्धं प्रयच्छ त्वं ततो ज्ञास्यामि ते बलम्॥ ३२अथ वा धारयिष्यामि क्रोधमद्य निशामिमाम्।गृह्यतामुदयः स्वैरं कामभोगेषु वानर॥ ३३यो हि मत्तं प्रमत्तं वा सुप्तं वा रहितं भृशम्।हन्यात्स भ्रूणहा लोके त्वद्विधं मदमोहितम्॥ ३४स प्रहस्याब्रवीन्मन्दं क्रोधात्तमसुरोत्तमम्।विसृज्य ताः स्त्रियः सर्वास्ताराप्रभृतिकास्तदा॥ ३५मत्तोऽयमिति मा मंस्था यद्यभीतोऽसि संयुगे।मदोऽयं संप्रहारेऽस्मिन्वीरपानं समर्थ्यताम्॥ ३६तमेवमुक्त्वा संक्रुद्धो मालामुत्क्षिप्य काञ्चनीम्।पित्रा दत्तां महेन्द्रेण युद्धाय व्यवतिष्ठत॥ ३७विषाणयोर्गृहीत्वा तं दुन्दुभिं गिरिसंनिभम्।वाली व्यापातयां चक्रे ननर्द च महास्वनम्॥ ३८युद्धे प्राणहरे तस्मिन्निष्पिष्टो दुन्दुभिस्तदा।श्रोत्राभ्यामथ रक्तं तु तस्य सुस्राव पात्यतः।पपात च महाकायः क्षितौ पञ्चत्वमागतः॥ ३९तं तोलयित्वा बाहुभ्यां गतसत्त्वमचेतनम्।चिक्षेप वेगवान्वाली वेगेनैकेन योजनम्॥ ४०तस्य वेगप्रविद्धस्य वक्त्रात्क्षतजबिन्दवः।प्रपेतुर्मारुतोत्क्षिप्ता मतङ्गस्याश्रमं प्रति॥ ४१तान्दृष्ट्वा पतितांस्तत्र मुनिः शोणितविप्रुषः।उत्ससर्ज महाशापं क्षेप्तारं वालिनं प्रति।इह तेनाप्रवेष्टव्यं प्रविष्टस्य बधो भवेत्॥ ४२स महर्षिं समासाद्य याचते स्म कृताञ्जलिः॥ ४३ततः शापभयाद्भीत ऋश्यमूकं महागिरिम्।प्रवेष्टुं नेच्छति हरिर्द्रष्टुं वापि नरेश्वर॥ ४४तस्याप्रवेशं ज्ञात्वाहमिदं राम महावनम्।विचरामि सहामात्यो विषादेन विवर्जितः॥ ४५एषोऽस्थिनिचयस्तस्य दुन्दुभेः संप्रकाशते।वीर्योत्सेकान्निरस्तस्य गिरिकूटनिभो महान्॥ ४६इमे च विपुलाः सालाः सप्त शाखावलम्बिनः।यत्रैकं घटते वाली निष्पत्रयितुमोजसा॥ ४७एतदस्यासमं वीर्यं मया राम प्रकाशितम्।कथं तं वालिनं हन्तुं समरे शक्ष्यसे नृप॥ ४८यदि भिन्द्याद्भवान्सालानिमांस्त्वेकेषुणा ततः।जानीयां त्वां महाबाहो समर्थं वालिनो वधे॥ ४९तस्य तद्वचनं श्रुत्वा सुग्रीवस्य महात्मनः।राघवो दुन्दुभेः कायं पादाङ्गुष्ठेन लीलया।तोलयित्वा महाबाहुश्चिक्षेप दशयोजनम्॥ ५०क्षिप्तं दृष्ट्वा ततः कायं सुग्रीवः पुनरब्रवीत्।लक्ष्मणस्याग्रतो राममिदं वचनमर्थवत्॥ ५१आर्द्रः समांसप्रत्यग्रः क्षिप्तः कायः पुरा सखे।लघुः संप्रति निर्मांसस्तृणभूतश्च राघव।नात्र शक्यं बलं ज्ञातुं तव वा तस्य वाधिकम्॥ ५२इति श्रीरामायणे किष्किन्धाकाण्डे एकादशः सर्गः ॥ ११
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved