१७ सर्गः
ततः शरेणाभिहतो रामेण रणकर्कशः।पपात सहसा वाली निकृत्त इव पादपः॥ १स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः।अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः॥ २तस्मिन्निपतिते भूमौ हर्यृषाणां गणेश्वरे।नष्टचन्द्रमिव व्योम न व्यराजत भूतलम्॥ ३भूमौ निपतितस्यापि तस्य देहं महात्मनः।न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः॥ ४शक्रदत्ता वरा माला काञ्चनी रत्नभूषिता।दधार हरिमुख्यस्य प्राणांस्तेजः श्रियं च सा॥ ५स तया मालया वीरो हैमया हरियूथपः।संध्यानुगतपर्यन्तः पयोधर इवाभवत्॥ ६तस्य माला च देहश्च मर्मघाती च यः शरः।त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते॥ ७तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम्।रामबाणासनक्षिप्तमावहत्परमां गतिम्॥ ८तं तथा पतितं संख्ये गतार्चिषमिवानलम्।ययातिमिव पुण्यान्ते देवलोकात्परिच्युतम्॥ ९आदित्यमिव कालेन युगान्ते भुवि पातितम्।महेन्द्रमिव दुर्धर्षं महेन्द्रमिव दुःसहम्॥ १०महेन्द्रपुत्रं पतितं वालिनं हेममालिनम्।सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम्।लक्ष्मणानुगतो रामो ददर्शोपससर्प च॥ ११स दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम्।अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम्॥ १२पराङ्मुखवधं कृत्वा को नु प्राप्तस्त्वया गुणः।यदहं युद्धसंरब्धस्त्वत्कृते निधनं गतः॥ १३कुलीनः सत्त्वसंपन्नस्तेजस्वी चरितव्रतः।रामः करुणवेदी च प्रजानां च हिते रतः॥ १४सानुक्रोशो महोत्साहः समयज्ञो दृढव्रतः।इति ते सर्वभूतानि कथयन्ति यशो भुवि॥ १५तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तव।तारया प्रतिषिद्धः सन्सुग्रीवेण समागतः॥ १६न मामन्येन संरब्धं प्रमत्तं वेद्धुमर्हसि।इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव॥ १७न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम्।जाने पापसमाचारं तृणैः कूपमिवावृतम्॥ १८सतां वेषधरं पापं प्रच्छन्नमिव पावकम्।नाहं त्वामभिजानानि धर्मच्छद्माभिसंवृतम्॥ १९विषये वा पुरे वा ते यदा नापकरोम्यहम्।न च त्वां प्रतिजानेऽहं कस्मात्त्वं हंस्यकिल्बिषम्॥ २०फलमूलाशनं नित्यं वानरं वनगोचरम्।मामिहाप्रतियुध्यन्तमन्येन च समागतम्॥ २१त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः।लिङ्गमप्यस्ति ते राजन्दृश्यते धर्मसंहितम्॥ २२कः क्षत्रियकुले जातः श्रुतवान्नष्टसंशयः।धर्मलिङ्ग प्रतिच्छन्नः क्रूरं कर्म समाचरेत्॥ २३राम राजकुले जातो धर्मवानिति विश्रुतः।अभव्यो भव्यरूपेण किमर्थं परिधावसि॥ २४साम दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ।पार्थिवानां गुणा राजन्दण्डश्चाप्यपकारिषु॥ २५वयं वनचरा राम मृगा मूलफलाशनाः।एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः॥ २६भूमिर्हिरण्यं रूप्यं च निग्रहे कारणानि च।तत्र कस्ते वने लोभो मदीयेषु फलेषु वा॥ २७नयश्च विनयश्चोभौ निग्रहानुग्रहावपि।राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः॥ २८त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः।राजवृत्तैश्च संकीर्णः शरासनपरायणः॥ २९न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता।इन्द्रियैः कामवृत्तः सन्कृष्यसे मनुजेश्वर॥ ३०हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम्।किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम्॥ ३१राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः।नास्तिकः परिवेत्ता च सर्वे निरयगामिनः॥ ३२अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम्।अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः॥ ३३पञ्च पञ्चनखा भक्ष्या ब्रह्मक्षत्रेण राघव।शल्यकः श्वाविधो गोधा शशः कूर्मश्च पञ्चमः॥ ३४चर्म चास्थि च मे राजन्न स्पृशन्ति मनीषिणः।अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः॥ ३५त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा।प्रमदा शीलसंपन्ना धूर्तेन पतिता यथा॥ ३६शठो नैकृतिकः क्षुद्रो मिथ्या प्रश्रितमानसः।कथं दशरथेन त्वं जातः पापो महात्मना॥ ३७छिन्नचारित्र्यकक्ष्येण सतां धर्मातिवर्तिना।त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना॥ ३८दृश्यमानस्तु युध्येथा मया युधि नृपात्मज।अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया॥ ३९त्वयादृश्येन तु रणे निहतोऽहं दुरासदः।प्रसुप्तः पन्नगेनेव नरः पानवशं गतः॥ ४०सुग्रीवप्रियकामेन यदहं निहतस्त्वया।कण्ठे बद्ध्वा प्रदद्यां तेऽनिहतं रावणं रणे॥ ४१न्यस्तां सागरतोये वा पाताले वापि मैथिलीम्।जानयेयं तवादेशाच्छ्वेतामश्वतरीमिव॥ ४२युक्तं यत्प्रप्नुयाद्राज्यं सुग्रीवः स्वर्गते मयि।अयुक्तं यदधर्मेण त्वयाहं निहतो रणे॥ ४३काममेवंविधं लोकः कालेन विनियुज्यते।क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम्॥ ४४इत्येवमुक्त्वा परिशुष्कवक्त्रःशराभिघाताद्व्यथितो महात्मा।समीक्ष्य रामं रविसंनिकाशंतूष्णीं बभूवामरराजसूनुः॥ ४५इति श्रीरामायणे किष्किन्धाकाण्डे सप्तदशः सर्गः ॥ १७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved