१८ सर्गः
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम्।परुषं वालिना रामो निहतेन विचेतसा॥ १तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम्।उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम्॥ २धर्मार्थगुणसंपन्नं हरीश्वरमनुत्तमम्।अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत्॥ ३धर्ममर्थं च कामं च समयं चापि लौकिकम्।अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे॥ ४अपृष्ट्वा बुद्धिसंपन्नान्वृद्धानाचार्यसंमतान्।सौम्य वानरचापल्यात्त्वं मां वक्तुमिहेच्छसि॥ ५इक्ष्वाकूणामियं भूमिः सशैलवनकानना।मृगपक्षिमनुष्याणां निग्रहानुग्रहावपि॥ ६तां पालयति धर्मात्मा भरतः सत्यवागृजुः।धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः॥ ७नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम्।विक्रमश्च यथा दृष्टः स राजा देशकालवित्॥ ८तस्य धर्मकृतादेशा वयमन्ये च पार्थिवः।चरामो वसुधां कृत्स्नां धर्मसंतानमिच्छवः॥ ९तस्मिन्नृपतिशार्दूल भरते धर्मवत्सले।पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम्॥ १०ते वयं मार्गविभ्रष्टं स्वधर्मे परमे स्थिताः।भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि॥ ११त्वं तु संक्लिष्टधर्मा च कर्मणा च विगर्हितः।कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि॥ १२ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति।त्रयस्ते पितरो ज्ञेया धर्मे च पथि वर्तिनः॥ १३यवीयानात्मनः पुत्रः शिष्यश्चापि गुणोदितः।पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्र कारणम्॥ १४सूक्ष्मः परमदुर्ज्ञेयः सतां धर्मः प्लवंगम।हृदिस्थः सर्वभूतानामात्मा वेद शुभाशुभम्॥ १५चपलश्चपलैः सार्धं वानरैरकृतात्मभिः।जात्यन्ध इव जात्यन्धैर्मन्त्रयन्द्रक्ष्यसे नु किम्॥ १६अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते।न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि॥ १७तदेतत्कारणं पश्य यदर्थं त्वं मया हतः।भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम्॥ १८अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः।रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत्॥ १९तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर।भ्रातृभार्याभिमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः॥ २०न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः।दण्डादन्यत्र पश्यामि निग्रहं हरियूथप॥ २१औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः।प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः॥ २२भरतस्तु महीपालो वयं त्वादेशवर्तिनः।त्वं च धर्मादतिक्रान्तः कथं शक्यमुपेक्षितुम्॥ २३गुरुधर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन्।भरतः कामवृत्तानां निग्रहे पर्यवस्थितः॥ २४वयं तु भरतादेशं विधिं कृत्वा हरीश्वर।त्वद्विधान्भिन्नमर्यादान्नियन्तुं पर्यवस्थिताः॥ २५सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा।दारराज्यनिमित्तं च निःश्रेयसि रतः स मे॥ २६प्रतिज्ञा च मया दत्ता तदा वानरसंनिधौ।प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम्॥ २७तदेभिः कारणैः सर्वैर्महद्भिर्धर्मसंहितैः।शासनं तव यद्युक्तं तद्भवाननुमन्यताम्॥ २८सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः।वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यता॥ २९राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः।निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा॥ ३०आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम्।श्रमणेन कृते पापे यथा पापं कृतं त्वया॥ ३१अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः।प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः॥ ३२तदलं परितापेन धर्मतः परिकल्पितः।वधो वानरशार्दूल न वयं स्ववशे स्थिताः॥ ३३वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः।प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान्।प्रधावितान्वा वित्रस्तान्विस्रब्धानतिविष्ठितान्॥ ३४प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम्।विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते॥ ३५यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः।तस्मात्त्वं निहतो युद्धे मया बाणेन वानर।अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि॥ ३६दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च।राजानो वानरश्रेष्ठ प्रदातारो न संशयः॥ ३७तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत्।देवा मानुषरूपेण चरन्त्येते महीतले॥ ३८त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः।प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम्॥ ३९एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम्।प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः॥ ४०यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः।प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात्॥ ४१यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम्।तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव॥ ४२त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः।कार्यकारणसिद्धौ ते प्रसन्ना बुद्धिरव्यया॥ ४३मामप्यवगतं धर्माद्व्यतिक्रान्तपुरस्कृतम्।धर्मसंहितया वाचा धर्मज्ञ परिपालय॥ ४४बाष्पसंरुद्धकण्ठस्तु वाली सार्तरवः शनैः।उवाच रामं संप्रेक्ष्य पङ्कलग्न इव द्विपः॥ ४५न त्वात्मानमहं शोचे न तारां नापि बान्धवान्।यथा पुत्रं गुणश्रेष्ठमङ्गदं कनकाङ्गदम्॥ ४६स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः।तटाक इव पीताम्बुरुपशोषं गमिष्यति॥ ४७सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम्।त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः॥ ४८या ते नरपते वृत्तिर्भरते लक्ष्मणे च या।सुग्रीवे चाङ्गदे राजंस्तां चिन्तयितुमर्हसि॥ ४९मद्दोषकृतदोषां तां यथा तारां तपस्विनीम्।सुग्रीवो नावमन्येत तथावस्थातुमर्हसि॥ ५०त्वया ह्यनुगृहीतेन शक्यं राज्यमुपासितुम्।त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना॥ ५१स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम्॥ ५२न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम।वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः॥ ५३दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते।कार्यकारणसिद्धार्थावुभौ तौ नावसीदतः॥ ५४तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः।गतः स्वां प्रकृतिं धर्म्यां धर्मदृष्ट्तेन वर्त्मना॥ ५५स तस्य वाक्यं मधुरं महात्मनःसमाहितं धर्मपथानुवर्तिनः।निशम्य रामस्य रणावमर्दिनोवचः सुयुक्तं निजगाद वानरः॥ ५६शराभितप्तेन विचेतसा मयाप्रदूषितस्त्वं यदजानता प्रभो।इदं महेन्द्रोपमभीमविक्रमप्रसादितस्त्वं क्षम मे महीश्वर॥ ५७इति श्रीरामायणे किष्किन्धाकाण्डे अष्टादशः सर्गः ॥ १८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved