॥ ॐ श्री गणपतये नमः ॥

२० सर्गः
रामचापविसृष्टेन शरेणान्तकरेण तम्।दृष्ट्वा विनिहतं भूमौ तारा ताराधिपानना॥ १सा समासाद्य भर्तारं पर्यष्वजत भामिनी।इषुणाभिहतं दृष्ट्वा वालिनं कुञ्जरोपमम्॥ २वानरेन्द्रं महेन्द्राभं शोकसंतप्तमानसा।तारा तरुमिवोन्मूलं पर्यदेवयदातुरा॥ ३रणे दारुणविक्रान्त प्रवीर प्लवतां वर।किं दीनामपुरोभागामद्य त्वं नाभिभाषसे॥ ४उत्तिष्ठ हरिशार्दूल भजस्व शयनोत्तमम्।नैवंविधाः शेरते हि भूमौ नृपतिसत्तमाः॥ ५अतीव खलु ते कान्ता वसुधा वसुधाधिप।गतासुरपि यां गात्रैर्मां विहाय निषेवसे॥ ६व्यक्तमन्या त्वया वीर धर्मतः संप्रवर्तता।किष्किन्धेव पुरी रम्या स्वर्गमार्गे विनिर्मिता॥ ७यान्यस्माभिस्त्वया सार्धं वनेषु मधुगन्धिषु।विहृतानि त्वया काले तेषामुपरमः कृतः॥ ८निरानन्दा निराशाहं निमग्ना शोकसागरे।त्वयि पञ्चत्वमापन्ने महायूथपयूथपे॥ ९हृदयं सुस्थिरं मह्यं दृष्ट्वा विनिहतं भुवि।यन्न शोकाभिसंतप्तं स्फुटतेऽद्य सहस्रधा॥ १०सुग्रीवस्य त्वया भार्या हृता स च विवासितः।यत्तत्तस्य त्वया व्युष्टिः प्राप्तेयं प्लवगाधिप॥ ११निःश्रेयसपरा मोहात्त्वया चाहं विगर्हिता।यैषाब्रुवं हितं वाक्यं वानरेन्द्रहितैषिणी॥ १२कालो निःसंशयो नूनं जीवितान्तकरस्तव।बलाद्येनावपन्नोऽसि सुग्रीवस्यावशो वशम्॥ १३वैधव्यं शोकसंतापं कृपणं कृपणा सती।अदुःखोपचिता पूर्वं वर्तयिष्याम्यनाथवत्॥ १४लालितश्चाङ्गदो वीरः सुकुमारः सुखोचितः।वत्स्यते कामवस्थां मे पितृव्ये क्रोधमूर्छिते॥ १५कुरुष्व पितरं पुत्र सुदृष्टं धर्मवत्सलम्।दुर्लभं दर्शनं त्वस्य तव वत्स भविष्यति॥ १६समाश्वासय पुत्रं त्वं संदेशं संदिशस्व च।मूर्ध्नि चैनं समाघ्राय प्रवासं प्रस्थितो ह्यसि॥ १७रामेण हि महत्कर्म कृतं त्वामभिनिघ्नता।आनृण्यं तु गतं तस्य सुग्रीवस्य प्रतिश्रवे॥ १८सकामो भव सुग्रीव रुमां त्वं प्रतिपत्स्यसे।भुङ्क्ष्व राज्यमनुद्विग्नः शस्तो भ्राता रिपुस्तव॥ १९किं मामेवं विलपतीं प्रेंणा त्वं नाभिभाषसे।इमाः पश्य वरा बह्वीर्भार्यास्ते वानरेश्वर॥ २०तस्या विलपितं श्रुत्वा वानर्यः सर्वतश्च ताः।परिगृह्याङ्गदं दीनं दुःखार्ताः परिचुक्रुशुः॥ २१किमङ्गदं साङ्गद वीर बाहोविहाय यास्यद्य चिरप्रवासं।न युक्तमेवं गुणसंनिकृष्टंविहाय पुत्रं प्रियपुत्र गन्तुम्॥ २२किमप्रियं ते प्रियचारुवेषकृतं मया नाथ सुतेन वा ते।सहायिनीमद्य विहाय वीरयमक्षयं गच्छसि दुर्विनीतम्॥ २३यद्यप्रियं किंचिदसंप्रधार्यकृतं मया स्यात्तव दीर्घबाहो।क्षमस्व मे तद्धरिवंश नाथव्रजामि मूर्ध्ना तव वीर पादौ॥ २४तथा तु तारा करुणं रुदन्तीभर्तुः समीपे सह वानरीभिः।व्यवस्यत प्रायमनिन्द्यवर्णाउपोपवेष्टुं भुवि यत्र वाली॥ २५इति श्रीरामायणे किष्किन्धाकाण्डे विंशतितमः सर्गः ॥ २०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved