२३ सर्गः
ततः समुपजिघ्रन्ती कपिराजस्य तन्मुखम्।पतिं लोकाच्च्युतं तारा मृतं वचनमब्रवीत्॥ १शेषे त्वं विषमे दुःखमकृत्वा वचनं मम।उपलोपचिते वीर सुदुःखे वसुधातले॥ २मत्तः प्रियतरा नूनं वानरेन्द्र मही तव।शेषे हि तां परिष्वज्य मां च न प्रतिभाषसे॥ ३सुग्रीव एव विक्रान्तो वीर साहसिक प्रिय।ऋक्षवानरमुख्यास्त्वां बलिनं पर्युपासते॥ ४एषां विलपितं कृच्छ्रमङ्गदस्य च शोचतः।मम चेमां गिरं श्रुत्वा किं त्वं न प्रतिबुध्यसे॥ ५इदं तच्छूरशयनं यत्र शेषे हतो युधि।शायिता निहता यत्र त्वयैव रिपवः पुरा॥ ६विशुद्धसत्त्वाभिजन प्रिययुद्ध मम प्रिय।मामनाथां विहायैकां गतस्त्वमसि मानद॥ ७शूराय न प्रदातव्या कन्या खलु विपश्चिता।शूरभार्यां हतां पश्य सद्यो मां विधवां कृताम्॥ ८अवभग्नश्च मे मानो भग्ना मे शाश्वती गतिः।अगाधे च निमग्नास्मि विपुले शोकसागरे॥ ९अश्मसारमयं नूनमिदं मे हृदयं दृढम्।भर्तारं निहतं दृष्ट्वा यन्नाद्य शतधा गतम्॥ १०सुहृच्चैव हि भर्ता च प्रकृत्या च मम प्रियः।आहवे च पराक्रान्तः शूरः पञ्चत्वमागतः॥ ११पतिहीना तु या नारी कामं भवतु पुत्रिणी।धनधान्यैः सुपूर्णापि विधवेत्युच्यते बुधैः॥ १२स्वगात्रप्रभवे वीर शेषे रुधिरमण्डले।कृमिरागपरिस्तोमे त्वमेवं शयने यथा॥ १३रेणुशोणितसंवीतं गात्रं तव समन्ततः।परिरब्धुं न शक्नोमि भुजाभ्यां प्लवगर्षभ॥ १४कृतकृत्योऽद्य सुग्रीवो वैरेऽस्मिन्नतिदारुणे।यस्य रामविमुक्तेन हृतमेकेषुणा भयम्॥ १५शरेण हृदि लग्नेन गात्रसंस्पर्शने तव।वार्यामि त्वां निरीक्षन्ती त्वयि पञ्चत्वमागते॥ १६उद्बबर्ह शरं नीलस्तस्य गात्रगतं तदा।गिरिगह्वरसंलीनं दीप्तमाशीविषं यथा॥ १७तस्य निष्कृष्यमाणस्य बाणस्य च बभौ द्युतिः।अस्तमस्तकसंरुद्धो रश्मिर्दिनकरादिव॥ १८पेतुः क्षतजधारास्तु व्रणेभ्यस्तस्य सर्वशः।ताम्रगैरिकसंपृक्ता धारा इव धराधरात्॥ १९अवकीर्णं विमार्जन्ती भर्तारं रणरेणुना।अस्रैर्नयनजैः शूरं सिषेचास्त्रसमाहतम्॥ २०रुधिरोक्षितसर्वाङ्गं दृष्ट्वा विनिहतं पतिम्।उवाच तारा पिङ्गाक्षं पुत्रमङ्गदमङ्गना॥ २१अवस्थां पश्चिमां पश्य पितुः पुत्र सुदारुणाम्।संप्रसक्तस्य वैरस्य गतोऽन्तः पापकर्मणा॥ २२बालसूर्योदयतनुं प्रयान्तं यमसादनम्।अभिवादय राजानं पितरं पुत्र मानदम्॥ २३एवमुक्तः समुत्थाय जग्राह चरणौ पितुः।भुजाभ्यां पीनवृताभ्यामङ्गदोऽहमिति ब्रुवन्॥ २४अभिवादयमानं त्वामङ्गदं त्वं यथापुरा।दीर्घायुर्भव पुत्रेति किमर्थं नाभिभाषसे॥ २५अहं पुत्रसहाया त्वामुपासे गतचेतनम्।सिंहेन निहतं सद्यो गौः सवत्सेव गोवृषम्॥ २६इष्ट्वा संग्रामयज्ञेन नानाप्रहरणाम्भसा।अस्मिन्नवभृथे स्नातः कथं पत्न्या मया विना॥ २७या दत्ता देवराजेन तव तुष्टेन संयुगे।शातकुम्भमयीं मालां तां ते पश्यामि नेह किम्॥ २८राजश्रीर्न जहाति त्वां गतासुमपि मानद।सूर्यस्यावर्तमानस्य शैलराजमिव प्रभा॥ २९न मे वचः पथ्यमिदं त्वया कृतंन चास्मि शक्ता हि निवारणे तव।हता सपुत्रास्मि हतेन संयुगेसह त्वया श्रीर्विजहाति मामिह॥ ३०इति श्रीरामायणे किष्किन्धाकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved