२४ सर्गः
गतासुं वालिनं दृष्ट्वा राघवस्तदनन्तरम्।अब्रवीत्प्रश्रितं वाक्यं सुग्रीवं शत्रुतापनः॥ १न शोकपरितापेन श्रेयसा युज्यते मृतः।यदत्रानन्तरं कार्यं तत्समाधातुमर्हथ॥ २लोकवृत्तमनुष्ठेयं कृतं वो बाष्पमोक्षणम्।न कालादुत्तरं किंचित्कर्म शक्यमुपासितुम्॥ ३नियतः कारणं लोके नियतिः कर्मसाधनम्।नियतिः सर्वभूतानां नियोगेष्विह कारणम्॥ ४न कर्ता कस्यचित्कश्चिन्नियोगे चापि नेश्वरः।स्वभावे वर्तते लोकस्तस्य कालः परायणम्॥ ५न कालः कालमत्येति न कालः परिहीयते।स्वभावं वा समासाद्य न कश्चिदतिवर्तते॥ ६न कालस्यास्ति बन्धुत्वं न हेतुर्न पराक्रमः।न मित्रज्ञातिसंबन्धः कारणं नात्मनो वशः॥ ७किं तु काल परीणामो द्रष्टव्यः साधु पश्यता।धर्मश्चार्थश्च कामश्च कालक्रमसमाहिताः॥ ८इतः स्वां प्रकृतिं वाली गतः प्राप्तः क्रियाफलम्।धर्मार्थकामसंयोगैः पवित्रं प्लवगेश्वर॥ ९स्वधर्मस्य च संयोगाज्जितस्तेन महात्मना।स्वर्गः परिगृहीतश्च प्राणानपरिरक्षता॥ १०एषा वै नियतिः श्रेष्ठा यां गतो हरियूथपः।तदलं परितापेन प्राप्तकालमुपास्यताम्॥ ११वचनान्ते तु रामस्य लक्ष्मणः परवीरहा।अवदत्प्रश्रितं वाक्यं सुग्रीवं गतचेतसं॥ १२कुरु त्वमस्य सुग्रीव प्रेतकार्यमनन्तरम्।ताराङ्गदाभ्यां सहितो वालिनो दहनं प्रति॥ १३समाज्ञापय काष्ठानि शुष्काणि च बहूनि च।चन्दनानि च दिव्यानि वालिसंस्कारकारणात्॥ १४समाश्वासय चैनं त्वमङ्गदं दीनचेतसं।मा भूर्बालिशबुद्धिस्त्वं त्वदधीनमिदं पुरम्॥ १५अङ्गदस्त्वानयेन्माल्यं वस्त्राणि विविधानि च।घृतं तैलमथो गन्धान्यच्चात्र समनन्तरम्॥ १६त्वं तार शिबिकां शीघ्रमादायागच्छ संभ्रमात्।त्वरा गुणवती युक्ता ह्यस्मिन्काले विशेषतः॥ १७सज्जीभवन्तु प्लवगाः शिबिकावाहनोचिताः।समर्था बलिनश्चैव निर्हरिष्यन्ति वालिनम्॥ १८एवमुक्त्वा तु सुग्रीवं सुमित्रानन्दवर्धनः।तस्थौ भ्रातृसमीपस्थो लक्ष्मणः परवीरहा॥ १९लक्ष्मणस्य वचः श्रुत्वा तारः संभ्रान्तमानसः।प्रविवेश गुहां शीघ्रं शिबिकासक्तमानसः॥ २०आदाय शिबिकां तारः स तु पर्यापयत्पुनः।वानरैरुह्यमानां तां शूरैरुद्वहनोचितैः॥ २१ततो वालिनमुद्यम्य सुग्रीवः शिबिकां तदा।आरोपयत विक्रोशन्नङ्गदेन सहैव तु॥ २२आरोप्य शिबिकां चैव वालिनं गतजीवितम्।अलंकारैश्च विविधैर्माल्यैर्वस्त्रैश्च भूषितम्॥ २३आज्ञापयत्तदा राजा सुग्रीवः प्लवगेश्वरः।और्ध्वदेहिकमार्यस्य क्रियतामनुरूपतः॥ २४विश्राणयन्तो रत्नानि विविधानि बहूनि च।अग्रतः प्लवगा यान्तु शिबिका तदनन्तरम्॥ २५राज्ञामृद्धिविशेषा हि दृश्यन्ते भुवि यादृशाः।तादृशं वालिनः क्षिप्रं प्राकुर्वन्नौर्ध्वदेहिकम्॥ २६अङ्गदमप्रिगृह्याशु तारप्रभृतयस्तथा।क्रोशन्तः प्रययुः सर्वे वानरा हतबान्धवाः॥ २७ताराप्रभृतयः सर्वा वानर्यो हतयूथपाः।अनुजग्मुर्हि भर्तारं क्रोशन्त्यः करुणस्वनाः॥ २८तासां रुदितशब्देन वानरीणां वनान्तरे।वनानि गिरयः सर्वे विक्रोशन्तीव सर्वतः॥ २९पुलिने गिरिनद्यास्तु विविक्ते जलसंवृते।चितां चक्रुः सुबहवो वानरा वनचारिणः॥ ३०अवरोप्य ततः स्कन्धाच्छिबिकां वहनोचिताः।तस्थुरेकान्तमाश्रित्य सर्वे शोकसमन्विताः॥ ३१ततस्तारा पतिं दृष्ट्वा शिबिकातलशायिनम्।आरोप्याङ्के शिरस्तस्य विललाप सुदुःखिता॥ ३२जनं च पश्यसीमं त्वं कस्माच्छोकाभिपीडितम्।प्रहृष्टमिव ते वक्त्रं गतासोरपि मानद।अस्तार्कसमवर्णं च लक्ष्यते जीवतो यथा॥ ३३एष त्वां रामरूपेण कालः कर्षति वानर।येन स्म विधवाः सर्वाः कृता एकेषुणा रणे॥ ३४इमास्तास्तव राजेन्द्रवानर्यो वल्लभाः सदा।पादैर्विकृष्टमध्वानमागताः किं न बुध्यसे॥ ३५तवेष्टा ननु नामैता भार्याश्चन्द्रनिभाननाः।इदानीं नेक्षसे कस्मात्सुग्रीवं प्लवगेश्वरम्॥ ३६एते हि सचिवा राजंस्तारप्रभृतयस्तव।पुरवासिजनश्चायं परिवार्यासतेऽनघ॥ ३७विसर्जयैनान्प्रवलान्यथोचितमरिंदम।ततः क्रीडामहे सर्वा वनेषु मदिरोत्कटाः॥ ३८एवं विलपतीं तारां पतिशोकपरिप्लुताम्।उत्थापयन्ति स्म तदा वानर्यः शोककर्शिताः॥ ३९सुग्रीवेण ततः सार्धमङ्गदः पितरं रुदन्।चितामारोपयामास शोकेनाभिहतेन्द्रियः॥ ४०ततोऽग्निं विधिवद्दत्त्वा सोऽपसव्यं चकार ह।पितरं दीर्घमध्वानं प्रस्थितं व्याकुलेन्द्रियः॥ ४१संस्कृत्य वालिनं ते तु विधिपूर्वं प्लवंगमाः।आजग्मुरुदकं कर्तुं नदीं शीतजलां शुभाम्॥ ४२ततस्ते सहितास्तत्र अङ्गदं स्थाप्य चाग्रतः।सुग्रीवतारासहिताः सिषिचुर्वालिने जलम्॥ ४३सुग्रीवेणैव दीनेन दीनो भूत्वा महाबलः।समानशोकः काकुत्स्थः प्रेतकार्याण्यकारयत्॥ ४४इति श्रीरामायणे किष्किन्धाकाण्डे चतुर्विंशतितमः सर्गः ॥ २४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved