॥ ॐ श्री गणपतये नमः ॥

२५ सर्गः
ततः शोकाभिसंतप्तं सुग्रीवं क्लिन्नवासनम्।शाखामृगमहामात्राः परिवार्योपतस्थिरे॥ १अभिगम्य महाबाहुं राममक्लिष्टकारिणम्।स्थिताः प्राञ्जलयः सर्वे पितामहमिवर्षयः॥ २ततः काञ्चनशैलाभस्तरुणार्कनिभाननः।अब्रवीत्प्राञ्जलिर्वाक्यं हनुमान्मारुतात्मजः॥ ३भवत्प्रसादात्सुग्रीवः पितृपैतामहं महत्।वानराणां सुदुष्प्रापं प्राप्तो राज्यमिदं प्रभो॥ ४भवता समनुज्ञातः प्रविश्य नगरं शुभम्।संविधास्यति कार्याणि सर्वाणि ससुहृज्जनः॥ ५स्नातोऽयं विविधैर्गन्धैरौषधैश्च यथाविधि।अर्चयिष्यति रत्नैश्च माल्यैश्च त्वां विशेषतः॥ ६इमां गिरिगुहां रम्यामभिगन्तुमितोऽर्हसि।कुरुष्व स्वामि संबन्धं वानरान्संप्रहर्षयन्॥ ७एवमुक्तो हनुमता राघवः परवीरहा।प्रत्युवाच हनूमन्तं बुद्धिमान्वाक्यकोविदः॥ ८चतुर्दशसमाः सौम्य ग्रामं वा यदि वा पुरम्।न प्रवेक्ष्यामि हनुमन्पितुर्निर्देशपालकः॥ ९सुसमृद्धां गुहां दिव्यां सुग्रीवो वानरर्षभः।प्रविष्टो विधिवद्वीरः क्षिप्रं राज्येऽभिषिच्यताम्॥ १०एवमुक्त्वा हनूमन्तं रामः सुग्रीवमब्रवीत्।इममप्यङ्गदं वीर यौवराज्येऽभिषेचय॥ ११पूर्वोऽयं वार्षिको मासः श्रावणः सलिलागमः।प्रवृत्ताः सौम्य चत्वारो मासा वार्षिकसंज्ञिताः॥ १२नायमुद्योगसमयः प्रविश त्वं पुरीं शुभाम्।अस्मिन्वत्स्याम्यहं सौम्य पर्वते सहलक्ष्मणः॥ १३इयं गिरिगुहा रम्या विशाला युक्तमारुता।प्रभूतसलिला सौम्य प्रभूतकमलोत्पला॥ १४कार्तिके समनुप्राप्ते त्वं रावणवधे यत।एष नः समयः सौम्य प्रविश त्वं स्वमालयम्।अभिषिञ्चस्व राज्ये च सुहृदः संप्रहर्षय॥ १५इति रामाभ्यनुज्ञातः सुग्रीवो वानरर्षभः।प्रविवेश पुरीं रम्यां किष्किन्धां वालिपालिताम्॥ १६तं वानरसहस्राणि प्रविष्टं वानरेश्वरम्।अभिवाद्य प्रहृष्टानि सर्वतः पर्यवारयन्॥ १७ततः प्रकृतयः सर्वा दृष्ट्वा हरिगणेश्वरम्।प्रणम्य मूर्ध्ना पतिता वसुधायां समाहिताः॥ १८सुग्रीवः प्रकृतीः सर्वाः संभाष्योत्थाप्य वीर्यवान्।भ्रातुरन्तःपुरं सौम्यं प्रविवेश महाबलः॥ १९प्रविश्य त्वभिनिष्क्रान्तं सुग्रीवं वानरर्षभम्।अभ्यषिञ्चन्त सुहृदः सहस्राक्षमिवामराः॥ २०तस्य पाण्डुरमाजह्रुश्छत्रं हेमपरिष्कृतम्।शुक्ले च बालव्यजने हेमदण्डे यशस्करे॥ २१तथा सर्वाणि रत्नानि सर्वबीजौषधानि च।सक्षीराणां च वृक्षाणां प्ररोहान्कुसुमानि च॥ २२शुक्लानि चैव वस्त्राणि श्वेतं चैवानुलेपनम्।सुगन्धीनि च माल्यानि स्थलजान्यम्बुजानि च॥ २३चन्दनानि च दिव्यानि गन्धांश्च विविधान्बहून्।अक्षतं जातरूपं च प्रियङ्गुमधुसर्पिषी॥ २४दधिचर्म च वैयाघ्रं वाराही चाप्युपानहौ।समालम्भनमादाय रोचनां समनःशिलाम्।आजग्मुस्तत्र मुदिता वराः कन्यास्तु षोडश॥ २५ततस्ते वानरश्रेष्ठं यथाकालं यथाविधि।रत्नैर्वस्त्रैश्च भक्ष्यैश्च तोषयित्वा द्विजर्षभान्॥ २६ततः कुशपरिस्तीर्णं समिद्धं जातवेदसं।मन्त्रपूतेन हविषा हुत्वा मन्त्रविदो जनाः॥ २७ततो हेमप्रतिष्ठाने वरास्तरणसंवृते।प्रासादशिखरे रम्ये चित्रमाल्योपशोभिते॥ २८प्राङ्मुखं विविधैर्मन्त्रैः स्थापयित्वा वरासने।नदीनदेभ्यः संहृत्य तीर्थेभ्यश्च समन्ततः॥ २९आहृत्य च समुद्रेभ्यः सर्वेभ्यो वानरर्षभाः।अपः कनककुम्भेषु निधाय विमलाः शुभाः॥ ३०शुभैर्वृषभशृङ्गैश्च कलशैश्चापि काञ्चनैः।शास्त्रदृष्टेन विधिना महर्षिविहितेन च॥ ३१गजो गवाक्षो गवयः शरभो गन्धमादनः।मैन्दश्च द्विविदश्चैव हनूमाञ्जाम्बवान्नलः॥ ३२अभ्यषिञ्चन्त सुग्रीवं प्रसन्नेन सुगन्धिना।सलिलेन सहस्राक्षं वसवो वासवं यथा॥ ३३अभिषिक्ते तु सुग्रीवे सर्वे वानरपुंगवाः।प्रचुक्रुशुर्महात्मानो हृष्टास्तत्र सहस्रशः॥ ३४रामस्य तु वचः कुर्वन्सुग्रीवो हरिपुंगवः।अङ्गदं संपरिष्वज्य यौवराज्येऽभिषेचयत्॥ ३५अङ्गदे चाभिषिक्ते तु सानुक्रोशाः प्लवंगमाः।साधु साध्विति सुग्रीवं महात्मानोऽभ्यपूजयन्॥ ३६हृष्टपुष्टजनाकीर्णा पताकाध्वजशोभिता।बभूव नगरी रम्या क्षिकिन्धा गिरिगह्वरे॥ ३७निवेद्य रामाय तदा महात्मनेमहाभिषेकं कपिवाहिनीपतिः।रुमां च भार्यां प्रतिलभ्य वीर्यवानवाप राज्यं त्रिदशाधिपो यथा॥ ३८इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चविंशतितमः सर्गः ॥ २५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved