२९ सर्गः
गुहां प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः।वर्षरात्रोषितो रामः कामशोकाभिपीडितः॥ १पाण्डुरं गगनं दृष्ट्वा विमलं चन्द्रमण्डलम्।शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम्॥ २कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम्।बुद्ध्वा कालमतीतं च मुमोह परमातुरः॥ ३स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः।मनःस्थामपि वैदेहीं चिन्तयामास राघवः॥ ४आसीनः पर्वतस्याग्रे हेमधातुविभूषिते।शारदं गगनं दृष्ट्व जगाम मनसा प्रियाम्॥ ५दृष्ट्वा च विमलं व्योम गतविद्युद्बलाहकम्।सारसारवसंघुष्टं विललापार्तया गिरा॥ ६सारसारवसंनादैः सारसारवनादिनी।याश्रमे रमते बाला साद्य मे रमते कथम्॥ ७पुष्पितांश्चासनान्दृष्ट्वा काञ्चनानिव निर्मलान्।कथं स रमते बाला पश्यन्ती मामपश्यती॥ ८या पुरा कलहंसानां स्वरेण कलभाषिणी।बुध्यते चारुसर्वाङ्गी साद्य मे बुध्यते कथम्॥ ९निःस्वनं चक्रवाकानां निशम्य सहचारिणाम्।पुण्डरीकविशालाक्षी कथमेषा भविष्यति॥ १०सरांसि सरितो वापीः काननानि वनानि च।तां विना मृगशावाक्षीं चरन्नाद्य सुखं लभे॥ ११अपि तां मद्वियोगाच्च सौकुमार्याच्च भामिनीम्।न दूरं पीडयेत्कामः शरद्गुणनिरन्तरः॥ १२एवमादि नरश्रेष्ठो विललाप नृपात्मजः।विहंग इव सारङ्गः सलिलं त्रिदशेश्वरात्॥ १३ततश्चञ्चूर्य रम्येषु फलार्थी गिरिसानुषु।ददर्श पर्युपावृत्तो लक्ष्मीवाँल्लक्ष्मणोऽग्रजम्॥ १४तं चिन्तया दुःसहया परीतंविसंज्ञमेकं विजने मनस्वी।भ्रातुर्विषादात्परितापदीनःसमीक्ष्य सौमित्रिरुवाच रामम्॥ १५किमार्य कामस्य वशंगतेनकिमात्मपौरुष्यपराभवेन।अयं सदा संहृइयते समाधिःकिमत्र योगेन निवर्तितेन॥ १६क्रियाभियोगं मनसः प्रसादंसमाधियोगानुगतं च कालम्।सहायसामर्थ्यमदीनसत्त्वस्वकर्महेतुं च कुरुष्व हेतुम्॥ १७न जानकी मानववंशनाथत्वया सनाथा सुलभा परेण।न चाग्निचूडां ज्वलितामुपेत्यन दह्यते वीरवरार्ह कश्चित्॥ १८सलक्ष्मणं लक्ष्मणमप्रधृष्यंस्वभावजं वाक्यमुवाच रामः।हितं च पथ्यं च नयप्रसक्तंससामधर्मार्थसमाहितं च॥ १९निःसंशयं कार्यमवेक्षितव्यंक्रियाविशेषो ह्यनुवर्तितव्यः।ननु प्रवृत्तस्य दुरासदस्यकुमारकार्यस्य फलं न चिन्त्यम्॥ २०अथ पद्मपलाशाक्षीं मैथिलीमनुचिन्तयन्।उवाच लक्ष्मणं रामो मुखेन परिशुष्यता॥ २१तर्पयित्वा सहस्राक्षः सलिलेन वसुंधराम्।निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः॥ २२स्निग्धगम्भीरनिर्घोषाः शैलद्रुमपुरोगमाः।विसृज्य सलिलं मेघाः परिश्रान्ता नृपात्मज॥ २३नीलोत्पलदलश्यामः श्यामीकृत्वा दिशो दश।विमदा इव मातङ्गाः शान्तवेगाः पयोधराः॥ २४जलगर्भा महावेगाः कुटजार्जुनगन्धिनः।चरित्वा विरताः सौम्य वृष्टिवाताः समुद्यताः॥ २५घनानां वारणानां च मयूराणां च लक्ष्मण।नादः प्रस्रवणानां च प्रशान्तः सहसानघ॥ २६अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः।अनुलिप्ता इवाभान्ति गिरयश्चन्द्ररश्मिभिः॥ २७दर्शयन्ति शरन्नद्यः पुलिनानि शनैः शनैः।नवसंगमसव्रीडा जघनानीव योषितः॥ २८प्रसन्नसलिलाः सौम्य कुररीभिर्विनादिताः।चक्रवाकगणाकीर्णा विभान्ति सलिलाशयाः॥ २९अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज।उद्योगसमयः सौम्य पार्थिवानामुपस्थितः॥ ३०इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज।न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम्॥ ३१चत्वारो वार्षिका मासा गता वर्षशतोपमाः।मम शोकाभितप्तस्य सौम्य सीतामपश्यतः॥ ३२प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते।कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण॥ ३३अनाथो हृतराज्योऽयं रावणेन च धर्षितः।दीनो दूरगृहः कामी मां चैव शरणं गतः॥ ३४इत्येतैः कारणैः सौम्य सुग्रीवस्य दुरात्मनः।अहं वानरराजस्य परिभूतः परंतप॥ ३५स कालं परिसंख्याय सीतायाः परिमार्गणे।कृतार्थः समयं कृत्वा दुर्मतिर्नावबुध्यते॥ ३६त्वं प्रविश्य च किष्किन्धां ब्रूहि वानरपुंगवम्।मूर्खं ग्राम्य सुखे सक्तं सुग्रीवं वचनान्मम॥ ३७अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम्।आशां संश्रुत्य यो हन्ति स लोके पुरुषाधमः॥ ३८शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम्।सत्येन परिगृह्णाति स वीरः पुरुषोत्तमः॥ ३९कृतार्था ह्यकृतार्थानां मित्राणां न भवन्ति ये।तान्मृतानपि क्रव्यादः कृतघ्नान्नोपभुञ्जते॥ ४०नूनं काञ्चनपृष्ठस्य विकृष्टस्य मया रणे।द्रष्टुमिच्छन्ति चापस्य रूपं विद्युद्गणोपमम्॥ ४१घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे।निर्घोषमिव वज्रस्य पुनः संश्रोतुमिच्छति॥ ४२काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे।त्वत्सहायस्य मे वीर न चिन्ता स्यान्नृपात्मज॥ ४३यदर्थमयमारम्भः कृतः परपुरंजय।समयं नाभिजानाति कृतार्थः प्लवगेश्वरः॥ ४४वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः।व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते॥ ४५सामात्यपरिषत्क्रीडन्पानमेवोपसेवते।शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम्॥ ४६उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल।मम रोषस्य यद्रूपं ब्रूयाश्चैनमिदं वचः॥ ४७न च संकुचितः पन्था येन वाली हतो गतः।समये तिष्ठ सुग्रीवमा वालिपथमन्वगाः॥ ४८एक एव रणे वाली शरेण निहतो मया।त्वां तु सत्यादतिक्रान्तं हनिष्यामि सबान्धवम्॥ ४९तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ।तत्तद्ब्रूहि नरश्रेष्ठ त्वर कालव्यतिक्रमः॥ ५०कुरुष्व सत्यं मयि वानरेश्वरप्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम्।मा वालिनं प्रेत्य गतो यमक्षयंत्वमद्य पश्येर्मम चोदितैः शरैः॥ ५१स पूर्वजं तीव्रविवृद्धकोपंलालप्यमानं प्रसमीक्ष्य दीनम्।चकार तीव्रां मतिमुग्रतेजाहरीश्वरमानववंशनाथः॥ ५२इति श्रीरामायणे किष्किन्धाकाण्डे एकोनत्रिंशत्तमः सर्गः ॥ २९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved