॥ ॐ श्री गणपतये नमः ॥

३० सर्गः
स कामिनं दीनमदीनसत्त्वःशोकाभिपन्नं समुदीर्णकोपम्।नरेन्द्रसूनुर्नरदेवपुत्रंरामानुजः पूर्वजमित्युवाच॥ १न वानरः स्थास्यति साधुवृत्तेन मंस्यते कार्यफलानुषङ्गान्।न भक्ष्यते वानरराज्यलक्ष्मींतथा हि नाभिक्रमतेऽस्य बुद्धिः॥ २मतिक्षयाद्ग्राम्यसुखेषु सक्तस्तव प्रसादाप्रतिकारबुद्धिः।हतोऽग्रजं पश्यतु वालिनं सन राज्यमेवं विगुणस्य देयम्॥ ३न धारये कोपमुदीर्णवेगंनिहन्मि सुग्रीवमसत्यमद्य।हरिप्रवीरैः सह वालिपुत्रोनरेन्द्रपत्न्या विचयं करोतु॥ ४तमात्तबाणासनमुत्पतन्तंनिवेदितार्थं रणचण्डकोपम्।उवच रामः परवीरहन्तास्ववेक्षितं सानुनयं च वाक्यम्॥ ५न हि वै त्वद्विधो लोके पापमेवं समाचरेत्।पापमार्येण यो हन्ति स वीरः पुरुषोत्तमः॥ ६नेदमद्य त्वया ग्राह्यं साधुवृत्तेन लक्ष्मण।तां प्रीतिमनुवर्तस्व पूर्ववृत्तं च संगतम्॥ ७सामोपहितया वाचा रूक्षाणि परिवर्जयन्।वक्तुमर्हसि सुग्रीवं व्यतीतं कालपर्यये॥ ८सोऽ ग्रजेनानुशिष्टार्थो यथावत्पुरुषर्षभः।प्रविवेश पुरीं वीरो लक्ष्मणः परवीरहा॥ ९ततः शुभमतिः प्राज्ञो भ्रातुः प्रियहिते रतः।लक्ष्मणः प्रतिसंरब्धो जगाम भवनं कपेः॥ १०शक्रबाणासनप्रख्यं धनुः कालान्तकोपमः।प्रगृह्य गिरिशृङ्गाभं मन्दरः सानुमानिव॥ ११यथोक्तकारी वचनमुत्तरं चैव सोत्तरम्।बृहस्पतिसमो बुद्ध्या मत्त्वा रामानुजस्तदा॥ १२कामक्रोधसमुत्थेन भ्रातुः कोपाग्निना वृतः।प्रभञ्जन इवाप्रीतः प्रययौ लक्ष्मणस्तदा॥ १३सालतालाश्वकर्णांश्च तरसा पातयन्बहून्।पर्यस्यन्गिरिकूटानि द्रुमानन्यांश्च वेगतः॥ १४शिलाश्च शकलीकुर्वन्पद्भ्यां गज इवाशुगः।दूरमेकपदं त्यक्त्वा ययौ कार्यवशाद्द्रुतम्॥ १५तामपश्यद्बलाकीर्णां हरिराजमहापुरीम्।दुर्गामिक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे॥ १६रोषात्प्रस्फुरमाणौष्ठः सुग्रीवं प्रति कल्ष्मणः।ददर्श वानरान्भीमान्किष्किन्धाया बहिश्चरान्॥ १७शैलशृङ्गाणि शतशः प्रवृद्धांश्च महीरुहान्।जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे॥ १८तान्गृहीतप्रहरणान्हरीन्दृष्ट्वा तु लक्ष्मणः।बभूव द्विगुणं क्रुद्धो बह्विन्धन इवानलः॥ १९तं ते भयपरीताङ्गाः क्रुद्धं दृष्ट्वा प्लवंगमाः।कालमृत्युयुगान्ताभं शतशो विद्रुता दिशः॥ २०ततः सुग्रीवभवनं प्रविश्य हरिपुंगवाः।क्रोधमागमनं चैव लक्ष्मणस्य न्यवेदयन्॥ २१तारया सहितः कामी सक्तः कपिवृषो रहः।न तेषां कपिवीराणां शुश्राव वचनं तदा॥ २२ततः सचिवसंदिष्टा हरयो रोमहर्षणाः।गिरिकुञ्जरमेघाभा नगर्या निर्ययुस्तदा॥ २३नखदंष्ट्रायुधा घोराः सर्वे विकृतदर्शनाः।सर्वे शार्दूलदर्पाश्च सर्वे च विकृताननाः॥ २४दशनागबलाः केचित्केचिद्दशगुणोत्तराः।केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः॥ २५कृत्स्नां हि कपिभिर्व्याप्तां द्रुमहस्तैर्महाबलैः।अपश्यल्लक्ष्मणः क्रुद्धः किष्किन्धां तां दुरासदम्॥ २६ततस्ते हरयः सर्वे प्राकारपरिखान्तरात्।निष्क्रम्योदग्रसत्त्वास्तु तस्थुराविष्कृतं तदा॥ २७सुग्रीवस्य प्रमादं च पूर्वजं चार्तमात्मवान्।बुद्ध्वा कोपवशं वीरः पुनरेव जगाम सः॥ २८स दीर्घोष्णमहोच्छ्वासः कोपसंरक्तलोचनः।बभूव नरशार्दूलसधूम इव पावकः॥ २९बाणशल्यस्फुरज्जिह्वः सायकासनभोगवान्।स्वतेजोविषसंघातः पञ्चास्य इव पन्नगः॥ ३०तं दीप्तमिव कालाग्निं नागेन्द्रमिव कोपितम्।समासाद्याङ्गदस्त्रासाद्विषादमगमद्भृशम्॥ ३१सोऽङ्गदं रोषताम्राक्षः संदिदेश महायशाः।सुग्रीवः कथ्यतां वत्स ममागमनमित्युत॥ ३२एष रामानुजः प्राप्तस्त्वत्सकाशमरिंदमः।भ्रातुर्व्यसनसंतप्तो द्वारि तिष्ठति लक्ष्मणः॥ ३३लक्ष्मणस्य वचः श्रुत्वा शोकाविष्टोऽङ्गदोऽब्रवीत्।पितुः समीपमागम्य सौमित्रिरयमागतः॥ ३४ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम्।सिंहनादं समं चक्रुर्लक्ष्मणस्य समीपतः॥ ३५तेन शब्देन महता प्रत्यबुध्यत वानरः।मदविह्वलताम्राक्षो व्याकुलस्रग्विभूषणः॥ ३६अथाङ्गदवचः श्रुत्वा तेनैव च समागतौ।मन्त्रिणो वानरेन्द्रस्य संमतोदारदर्शिनौ॥ ३७प्लक्षश्चैव प्रभावश्च मन्त्रिणावर्थधर्मयोः।वक्तुमुच्चावचं प्राप्तं लक्ष्मणं तौ शशंसतुः॥ ३८प्रसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः।आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम्॥ ३९सत्यसंधौ महाभागौ भ्रातरौ रामलक्ष्मणौ।वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ॥ ४०तयोरेको धनुष्पाणिर्द्वारि तिष्ठति लक्ष्मणः।यस्य भीताः प्रवेपन्ते नादान्मुञ्चन्ति वानराः॥ ४१स एष राघवभ्राता लक्ष्मणो वाक्यसारथिः।व्यवसाय रथः प्राप्तस्तस्य रामस्य शासनात्॥ ४२तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः सह बन्धुभिः।राजंस्तिष्ठ स्वसमये भव सत्यप्रतिश्रवः॥ ४३इति श्रीरामायणे किष्किन्धाकाण्डे त्रिंशत्तमः सर्गः ॥ ३०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved