॥ ॐ श्री गणपतये नमः ॥

३१ सर्गः
अङ्गदस्य वचः श्रुत्वा सुग्रीवः सचिवैः सह।लक्ष्मणं कुपितं श्रुत्वा मुमोचासनमात्मवान्॥ १सचिवानब्रवीद्वाक्यं निश्चित्य गुरुलाघवम्।मन्त्रज्ञान्मन्त्रकुशलो मन्त्रेषु परिनिष्ठितः॥ २न मे दुर्व्याहृतं किंचिन्नापि मे दुरनुष्ठितम्।लक्ष्मणो राघवभ्राता क्रुद्धः किमिति चिन्तये॥ ३असुहृद्भिर्ममामित्रैर्नित्यमन्तरदर्शिभिः।मम दोषानसंभूताञ्श्रावितो राघवानुजः॥ ४अत्र तावद्यथाबुद्धि सर्वैरेव यथाविधि।भवद्भिर्निश्चयस्तस्य विज्ञेयो निपुणं शनैः॥ ५न खल्वस्ति मम त्रासो लक्ष्मणान्नापि राघवात्।मित्रं त्वस्थान कुपितं जनयत्येव संभ्रमम्॥ ६सर्वथा सुकरं मित्रं दुष्करं परिपालनम्।अनित्यत्वात्तु चित्तानां प्रीतिरल्पेऽपि भिद्यते॥ ७अतोनिमित्तं त्रस्तोऽहं रामेण तु महात्मना।यन्ममोपकृतं शक्यं प्रतिकर्तुं न तन्मया॥ ८सुग्रीवेणैवमुक्तस्तु हनुमान्हरिपुंगवः।उवाच स्वेन तर्केण मध्ये वानरमन्त्रिणाम्॥ ९सर्वथा नैतदाश्चर्यं यत्त्वं हरिगणेश्वर।न विस्मरसि सुस्निग्धमुपकारकृतं शुभम्॥ १०राघवेण तु शूरेण भयमुत्सृज्य दूरतः।त्वत्प्रियार्थं हतो वाली शक्रतुल्यपराक्रमः॥ ११सर्वथा प्रणयात्क्रुद्धो राघवो नात्र संशयः।भ्रातरं स प्रहितवाँल्लक्ष्मणं लक्ष्मिवर्धनम्॥ १२त्वं प्रमत्तो न जानीषे कालं कलविदां वर।फुल्लसप्तच्छदश्यामा प्रवृत्ता तु शरच्छिवा॥ १३निर्मल ग्रहनक्षत्रा द्यौः प्रनष्टबलाहका।प्रसन्नाश्च दिशः सर्वाः सरितश्च सरांसि च॥ १४प्राप्तमुद्योगकालं तु नावैषि हरिपुंगव।त्वं प्रमत्त इति व्यक्तं लक्ष्मणोऽयमिहागतः॥ १५आर्तस्य हृतदारस्य परुषं पुरुषान्तरात्।वचनं मर्षणीयं ते राघवस्य महात्मनः॥ १६कृतापराधस्य हि ते नान्यत्पश्याम्यहं क्षमम्।अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्॥ १७नियुक्तैर्मन्त्रिभिर्वाच्यो अवश्यं पार्थिवो हितम्।अत एव भयं त्यक्त्वा ब्रवीम्यवधृतं वचः॥ १८अभिक्रुद्धः समर्थो हि चापमुद्यम्य राघवः।सदेवासुरगन्धर्वं वशे स्थापयितुं जगत्॥ १९न स क्षमः कोपयितुं यः प्रसाद्य पुनर्भवेत्।पूर्वोपकारं स्मरता कृतज्ञेन विशेषतः॥ २०तस्य मूर्ध्ना प्रणम्य त्वं सपुत्रः ससुहृज्जनः।राजंस्तिष्ठ स्वसमये भर्तुर्भार्येव तद्वशे॥ २१न रामरामानुजशासनं त्वयाकपीन्द्रयुक्तं मनसाप्यपोहितुम्।मनो हि ते ज्ञास्यति मानुषं बलंसराघवस्यास्य सुरेन्द्रवर्चसः॥ २२इति श्रीरामायणे किष्किन्धाकाण्डे एकत्रिंशत्तमः सर्गः ॥ ३१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved