३६ सर्गः
एवमुक्तस्तु सुग्रीवो लक्ष्मणेन महात्मना।हनुमन्तं स्थितं पार्श्वे सचिवं वाक्यमब्रवीत्॥ १महेन्द्रहिमवद्विन्ध्यकैलासशिखरेषु च।मन्दरे पाण्डुशिखरे पञ्चशैलेषु ये स्थिताः॥ २तरुणादित्यवर्णेषु भ्राजमानेषु सर्वशः।पर्वतेषु समुद्रान्ते पश्चिमस्यां तु ये दिशि॥ ३आदित्यभवने चैव गिरौ संध्याभ्रसंनिभे।पद्मतालवनं भीमं संश्रिता हरिपुंगवाः॥ ४अञ्जनाम्बुदसंकाशाः कुञ्जरप्रतिमौजसः।अञ्जने परते चैव ये वसन्ति प्लवंगमाः॥ ५मनःशिला गुहावासा वानराः कनकप्रभाः।मेरुपार्श्वगताश्चैव ये च धूम्रगिरिं श्रिताः॥ ६तरुणादित्यवर्णाश्च पर्वते ये महारुणे।पिबन्तो मधुमैरेयं भीमवेगाः प्लवंगमाः॥ ७वनेषु च सुरम्येषु सुगन्धिषु महत्सु च।तापसानां च रम्येषु वनान्तेषु समन्ततः॥ ८तांस्तांस्त्वमानय क्षिप्रं पृथिव्यां सर्ववानरान्।सामदानादिभिः कल्पैराशु प्रेषय वानरान्॥ ९प्रेषिताः प्रथमं ये च मया दूता महाजवाः।त्वरणार्थं तु भूयस्त्वं हरीन्संप्रेषयापरान्॥ १०ये प्रसक्ताश्च कामेषु दीर्घसूत्राश्च वानराः।इहानयस्व तान्सर्वाञ्शीघ्रं तु मम शासनात्॥ ११अहोभिर्दशभिर्ये च नागच्छन्ति ममाज्ञया।हन्तव्यास्ते दुरात्मानो राजशासनदूषकाः॥ १२शतान्यथ सहस्राणि कोट्यश्च मम शासनात्।प्रयान्तु कपिसिंहानां दिशो मम मते स्थिताः॥ १३मेघपर्वतसंकाशाश्छादयन्त इवाम्बरम्।घोररूपाः कपिश्रेष्ठा यान्तु मच्छासनादितः॥ १४ते गतिज्ञा गतिं गत्वा पृथिव्यां सर्ववानराः।आनयन्तु हरीन्सर्वांस्त्वरिताः शासनान्मम॥ १५तस्य वानरराजस्य श्रुत्वा वायुसुतो वचः।दिक्षु सर्वासु विक्रान्तान्प्रेषयामास वानरान्॥ १६ते पदं विष्णुविक्रान्तं पतत्रिज्योतिरध्वगाः।प्रयाताः प्रहिता राज्ञा हरयस्तत्क्षणेन वै॥ १७ते समुद्रेषु गिरिषु वनेषु च सरित्सु च।वानरा वानरान्सर्वान्रामहेतोरचोदयन्॥ १८मृत्युकालोपमस्याज्ञां राजराजस्य वानराः।सुग्रीवस्याययुः श्रुत्वा सुग्रीवभयदर्शिनः॥ १९ततस्तेऽञ्जनसंकाशा गिरेस्तस्मान्महाजवाः।तिस्रः कोट्यः प्लवंगानां निर्ययुर्यत्र राघवः॥ २०अस्तं गच्छति यत्रार्कस्तस्मिन्गिरिवरे रताः।तप्तहेमसमाभासास्तस्मात्कोट्यो दशच्युताः॥ २१कैलास शिखरेभ्यश्च सिंहकेसरवर्चसाम्।ततः कोटिसहस्राणि वानराणामुपागमन्॥ २२फलमूलेन जीवन्तो हिमवन्तमुपाश्रिताः।तेषां कोटिसहस्राणां सहस्रं समवर्तत॥ २३अङ्गारक समानानां भीमानां भीमकर्मणाम्।विन्ध्याद्वानरकोटीनां सहस्राण्यपतन्द्रुतम्॥ २४क्षीरोदवेलानिलयास्तमालवनवासिनः।नारिकेलाशनाश्चैव तेषां संख्या न विद्यते॥ २५वनेभ्यो गह्वरेभ्यश्च सरिद्भ्यश्च महाजवाः।आगच्छद्वानरी सेना पिबन्तीव दिवाकरम्॥ २६ये तु त्वरयितुं याता वानराः सर्ववानरान्।ते वीरा हिमवच्छैलं ददृशुस्तं महाद्रुमम्॥ २७तस्मिन्गिरिवरे रम्ये यज्ञो महेश्वरः पुरा।सर्वदेवमनस्तोषो बभौ दिव्यो मनोहरः॥ २८अन्नविष्यन्दजातानि मूलानि च फलानि च।अमृतस्वादुकल्पानि ददृशुस्तत्र वानराः॥ २९तदन्न संभवं दिव्यं फलं मूलं मनोहरम्।यः कश्चित्सकृदश्नाति मासं भवति तर्पितः॥ ३०तानि मूलानि दिव्यानि फलानि च फलाशनाः।औषधानि च दिव्यानि जगृहुर्हरियूथपाः॥ ३१तस्माच्च यज्ञायतनात्पुष्पाणि सुरभीणि च।आनिन्युर्वानरा गत्वा सुग्रीवप्रियकारणात्॥ ३२ते तु सर्वे हरिवराः पृथिव्यां सर्ववानरान्।संचोदयित्वा त्वरितं यूथानां जग्मुरग्रतः॥ ३३ते तु तेन मुहूर्तेन यूथपाः शीघ्रकारिणः।किष्किन्धां त्वरया प्राप्ताः सुग्रीवो यत्र वानरः॥ ३४ते गृहीत्वौषधीः सर्वाः फलं मूलं च वानराः।तं प्रतिग्राहयामासुर्वचनं चेदमब्रुवन्॥ ३५सर्वे परिगताः शैलाः समुद्राश्च वनानि च।पृथिव्यां वानराः सर्वे शासनादुपयान्ति ते॥ ३६एवं श्रुत्वा ततो हृष्टः सुग्रीवः प्लवगाधिपः।प्रतिजग्राह च प्रीतस्तेषां सर्वमुपायनम्॥ ३७इति श्रीरामायणे किष्किन्धाकाण्डे षट्त्रिंशः सर्गः ॥ ३६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved