३९ सर्गः
अथ राजा समृद्धार्थः सुग्रीवः प्लवगेश्वरः।उवाच नरशार्दूलं रामं परबलार्दनम्॥ १आगता विनिविष्टाश्च बलिनः कामरूपिणः।वानरेन्द्रा महेन्द्राभा ये मद्विषयवासिनः॥ २त इमे बहुसाहस्रैर्हरिभिर्भीमविक्रमैः।आगता वानरा घोरा दैत्यदानवसंनिभाः॥ ३ख्यातकर्मापदानाश्च बलवन्तो जितक्लमाः।पराक्रमेषु विख्याता व्यवसायेषु चोत्तमाः॥ ४पृथिव्यम्बुचरा राम नानानगनिवासिनः।कोट्यग्रश इमे प्राप्ता वानरास्तव किंकराः॥ ५निदेशवर्तिनः सर्वे सर्वे गुरुहिते रताः।अभिप्रेतमनुष्ठातुं तव शक्ष्यन्त्यरिंदम॥ ६यन्मन्यसे नरव्याघ्र प्राप्तकालं तदुच्यताम्।तत्सैन्यं त्वद्वशे युक्तमाज्ञापयितुमर्हसि॥ ७काममेषामिदं कार्यं विदितं मम तत्त्वतः।तथापि तु यथा तत्त्वमाज्ञापयितुमर्हसि॥ ८तथा ब्रुवाणं सुग्रीवं रामो दशरथात्मजः।बाहुभ्यां संपरिष्वज्य इदं वचनमब्रवीत्॥ ९ज्ञायतां सौम्य वैदेही यदि जीवति वा न वा।स च देशो महाप्राज्ञ यस्मिन्वसति रावणः॥ १०अधिगम्य च वैदेहीं निलयं रावणस्य च।प्राप्तकालं विधास्यामि तस्मिन्काले सह त्वया॥ ११नाहमस्मिन्प्रभुः कार्ये वानरेश न लक्ष्मणः।त्वमस्य हेतुः कार्यस्य प्रभुश्च प्लवगेश्वर॥ १२त्वमेवाज्ञापय विभो मम कार्यविनिश्चयम्।त्वं हि जानासि यत्कार्यं मम वीर न संशयः॥ १३सुहृद्द्वितीयो विक्रान्तः प्राज्ञः कालविशेषवित्।भवानस्मद्धिते युक्तः सुकृतार्थोऽर्थवित्तमः॥ १४एवमुक्तस्तु सुग्रीवो विनतं नाम यूथपम्।अब्रवीद्राम साम्निध्ये लक्ष्मणस्य च धीमतः।शैलाभं मेघनिर्घोषमूर्जितं प्लवगेश्वरम्॥ १५सोमसूर्यात्मजैः सार्धं वानरैर्वानरोत्तम।देशकालनयैर्युक्तः कार्याकार्यविनिश्चये॥ १६वृतः शतसहस्रेण वानराणां तरस्विनाम्।अधिगच्छ दिशं पूर्वां सशैलवनकाननाम्॥ १७तत्र सीतां च वैदेहीं निलयं रावणस्य च।मार्गध्वं गिरिदुर्गेषु वनेषु च नदीषु च॥ १८नदीं भागीरथीं रम्यां सरयूं कौशिकीं तथा।कालिन्दीं यमुनां रम्यां यामुनं च महागिरिम्॥ १९सरस्वतीं च सिन्धुं च शोणं मणिनिभोदकम्।महीं कालमहीं चैव शैलकाननशोभिताम्॥ २०ब्रह्ममालान्विदेहांश्च मालवान्काशिकोसलान्।मागधांश्च महाग्रामान्पुण्ड्रान्वङ्गांस्तथैव च॥ २१पत्तनं कोशकाराणां भूमिं च रजताकराम्।सर्वमेतद्विचेतव्यं मृगयद्भिर्ततस्ततः॥ २२रामस्य दयितां भार्यां सीतां दशरतः स्नुषाम्।समुद्रमवगाढांश्च पर्वतान्पत्तनानि च॥ २३मन्दरस्य च ये कोटिं संश्रिताः केचिदायताम्।कर्णप्रावरणाश्चैव तथा चाप्योष्ठकर्णकाः॥ २४घोरा लोहमुखाश्चैव जवनाश्चैकपादकाः।अक्षया बलवन्तश्च पुरुषाः पुरुषादकाः॥ २५किराताः कर्णचूडाश्च हेमाङ्गाः प्रियदर्शनाः।आममीनाशनास्तत्र किराता द्वीपवासिनः॥ २६अन्तर्जलचरा घोरा नरव्याघ्रा इति श्रुताः।एतेषामालयाः सर्वे विचेयाः काननौकसः॥ २७गिरिभिर्ये च गम्यन्ते प्लवनेन प्लवेन च।रत्नवन्तं यवद्वीपं सप्तराज्योपशोभितम्॥ २८सुवर्णरूप्यकं चैव सुवर्णाकरमण्डितम्।यवद्वीपमतिक्रम्य शिशिरो नाम पर्वतः॥ २९दिवं स्पृशति शृङ्गेण देवदानवसेवितः।एतेषां गिरिदुर्गेषु प्रतापेषु वनेषु च॥ ३०रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः।ततः समुद्रद्वीपांश्च सुभीमान्द्रष्टुमर्हथ॥ ३१तत्रासुरा महाकायाश्छायां गृह्णन्ति नित्यशः।ब्रह्मणा समनुज्ञाता दीर्घकालं बुभुक्षिताः॥ ३२तं कालमेघप्रतिमं महोरगनिषेवितम्।अभिगम्य महानादं तीर्थेनैव महोदधिम्॥ ३३ततो रक्तजलं भीमं लोहितं नाम सागरम्।गता द्रक्ष्यथ तां चैव बृहतीं कूटशाल्मलीम्॥ ३४गृहं च वैनतेयस्य नानारत्नविभूषितम्।तत्र कैलाससंकाशं विहितं विश्वकर्मणा॥ ३५तत्र शैलनिभा भीमा मन्देहा नाम राक्षसाः।शैलशृङ्गेषु लम्बन्ते नानारूपा भयावहाः॥ ३६ते पतन्ति जले नित्यं सूर्यस्योदयनं प्रति।अभितप्ताश्च सूर्येण लम्बन्ते स्म पुनः पुनः॥ ३७ततः पाण्डुरमेघाभं क्षीरौदं नाम सागरम्।गता द्रक्ष्यथ दुर्धर्षा मुखा हारमिवोर्मिभिः॥ ३८तस्य मध्ये महाश्वेत ऋषभो नाम पर्वतः।दिव्यगन्धैः कुसुमितै रजतैश्च नगैर्वृतः॥ ३९सरश्च राजतैः पद्मैर्ज्वलितैर्हेमकेसरैः।नाम्ना सुदर्शनं नाम राजहंसैः समाकुलम्॥ ४०विबुधाश्चारणा यक्षाः किंनराः साप्सरोगणाः।हृष्टाः समभिगच्छन्ति नलिनीं तां रिरंसवः॥ ४१क्षीरोदं समतिक्रम्य ततो द्रक्ष्यथ वानराः।जलोदं सागरश्रेष्ठं सर्वभूतभयावहम्॥ ४२तत्र तत्कोपजं तेजः कृतं हयमुखं महत्।अस्याहुस्तन्महावेगमोदनं सचराचरम्॥ ४३तत्र विक्रोशतां नादो भूतानां सागरौकसाम्।श्रूयते चासमर्थानां दृष्ट्वा तद्वडवामुखम्॥ ४४स्वादूदस्योत्तरे देशे योजनानि त्रयोदश।जातरूपशिलो नाम महान्कनकपर्वतः॥ ४५आसीनं पर्वतस्याग्रे सर्वभूतनमस्कृतम्।सहस्रशिरसं देवमनन्तं नीलवाससं॥ ४६त्रिशिराः काञ्चनः केतुस्तालस्तस्य महात्मनः।स्थापितः पर्वतस्याग्रे विराजति सवेदिकः॥ ४७पूर्वस्यां दिशि निर्माणं कृतं तत्त्रिदशेश्वरैः।ततः परं हेममयः श्रीमानुदयपर्वतः॥ ४८तस्य कोटिर्दिवं स्पृष्ट्वा शतयोजनमायता।जातरूपमयी दिव्या विराजति सवेदिका॥ ४९सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः।जातरूपमयैर्दिव्यैः शोभते सूर्यसंनिभैः॥ ५०तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।शृङ्गं सौमनसं नाम जातरूपमयं ध्रुवम्॥ ५१तत्र पूर्वं पदं कृत्वा पुरा विष्णुस्त्रिविक्रमे।द्वितीयं शिखरं मेरोश्चकार पुरुषोत्तमः॥ ५२उत्तरेण परिक्रम्य जम्बूद्वीपं दिवाकरः।दृश्यो भवति भूयिष्ठं शिखरं तन्महोच्छ्रयम्॥ ५३तत्र वैखानसा नाम वालखिल्या महर्षयः।प्रकाशमाना दृश्यन्ते सूर्यवर्णास्तपस्विनः॥ ५४अयं सुदर्शनो द्वीपः पुरो यस्य प्रकाशते।यस्मिंस्तेजश्च चक्षुश्च सर्वप्रानभृतामपि॥ ५५शैलस्य तस्य कुञ्जेषु कन्दरेषु वनेषु च।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ५६काञ्चनस्य च शैलस्य सूर्यस्य च महात्मनः।आविष्टा तेजसा संध्या पूर्वा रक्ता प्रकाशते॥ ५७ततः परमगम्या स्याद्दिक्पूर्वा त्रिदशावृता।रहिता चन्द्रसूर्याभ्यामदृश्या तिमिरावृता॥ ५८शैलेषु तेषु सर्वेषु कन्दरेषु वनेषु च।ये च नोक्ता मया देशा विचेया तेषु जानकी॥ ५९एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः।अभास्करममर्यादं न जानीमस्ततः परम्॥ ६०अधिगम्य तु वैदेहीं निलयं रावणस्य च।मासे पूर्णे निवर्तध्वमुदयं प्राप्य पर्वतम्॥ ६१ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम।सिद्धार्थाः संनिवर्तध्वमधिगम्य च मैथिलीम्॥ ६२महेन्द्रकान्तां वनषण्ड मण्डितांदिशं चरित्वा निपुणेन वानराः।अवाप्य सीतां रघुवंशजप्रियांततो निवृत्ताः सुखितो भविष्यथ॥ ६३इति श्रीरामायणे किष्किन्धाकाण्डे एकोनचत्वारिंशः सर्गः ॥ ३९
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved