॥ ॐ श्री गणपतये नमः ॥

४० सर्गः
ततः प्रस्थाप्य सुग्रीवस्तन्महद्वानरं बलम्।दक्षिणां प्रेषयामास वानरानभिलक्षितान्॥ १नीलमग्निसुतं चैव हनुमन्तं च वानरम्।पितामहसुतं चैव जाम्बवन्तं महाकपिम्॥ २सुहोत्रं च शरीरं च शरगुल्मं तथैव च।गजं गवाक्षं गवयं सुषेणमृषभं तथा॥ ३मैन्दं च द्विविदं चैव विजयं गन्धमादनम्।उल्कामुखमसङ्गं च हुताशन सुतावुभौ॥ ४अङ्गदप्रमुखान्वीरान्वीरः कपिगणेश्वरः।वेगविक्रमसंपन्नान्संदिदेश विशेषवित्॥ ५तेषामग्रेसरं चैव महद्बलमसंगगम्।विधाय हरिवीराणामादिशद्दक्षिणां दिशम्॥ ६ये केचन समुद्देशास्तस्यां दिशि सुदुर्गमाः।कपीशः कपिमुख्यानां स तेषां तानुदाहरत्॥ ७सहस्रशिरसं विन्ध्यं नानाद्रुमलतावृतम्।नर्मदां च नदीं दुर्गां महोरगनिषेविताम्॥ ८ततो गोदावरीं रम्यां कृष्णावेणीं महानदीम्।वरदां च महाभागां महोरगनिषेविताम्॥ ९मेखलानुत्कलांश्चैव दशार्णनगराण्यपि।अवन्तीमभ्रवन्तीं च सर्वमेवानुपश्यत॥ १०विदर्भानृषिकांश्चैव रम्यान्माहिषकानपि।तथा बङ्गान्कलिङ्गांश्च कौशिकांश्च समन्ततः॥ ११अन्वीक्ष्य दण्डकारण्यं सपर्वतनदीगुहम्।नदीं गोदावरीं चैव सर्वमेवानुपश्यत॥ १२तथैवान्ध्रांश्च पुण्ड्रांश्च चोलान्पाण्ड्यान्सकेरलान्।अयोमुखश्च गन्तव्यः पर्वतो धातुमण्डितः॥ १३विचित्रशिखरः श्रीमांश्चित्रपुष्पितकाननः।सचन्दनवनोद्देशो मार्गितव्यो महागिरिः॥ १४ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम्।तत्र द्रक्ष्यथ कावेरीं विहृतामप्सरोगणैः॥ १५तस्यासीनं नगस्याग्रे मलयस्य महौजसं।द्रक्ष्यथादित्यसंकाशमगस्त्यमृषिसत्तमम्॥ १६ततस्तेनाभ्यनुज्ञाताः प्रसन्नेन महात्मना।ताम्रपर्णीं ग्राहजुष्टां तरिष्यथ महानदीम्॥ १७सा चन्दनवनैर्दिव्यैः प्रच्छन्ना द्वीप शालिनी।कान्तेव युवतिः कान्तं समुद्रमवगाहते॥ १८ततो हेममयं दिव्यं मुक्तामणिविभूषितम्।युक्तं कवाटं पाण्ड्यानां गता द्रक्ष्यथ वानराः॥ १९ततः समुद्रमासाद्य संप्रधार्यार्थनिश्चयम्।अगस्त्येनान्तरे तत्र सागरे विनिवेशितः॥ २०चित्रनानानगः श्रीमान्महेन्द्रः पर्वतोत्तमः।जातरूपमयः श्रीमानवगाढो महार्णवम्॥ २१नानाविधैर्नगैः फुल्लैर्लताभिश्चोपशोभितम्।देवर्षियक्षप्रवरैरप्सरोभिश्च सेवितम्॥ २२सिद्धचारणसंघैश्च प्रकीर्णं सुमनोहरम्।तमुपैति सहस्राक्षः सदा पर्वसु पर्वसु॥ २३द्वीपस्तस्यापरे पारे शतयोजनमायतः।अगम्यो मानुषैर्दीप्तस्तं मार्गध्वं समन्ततः।तत्र सर्वात्मना सीता मार्गितव्या विशेषतः॥ २४स हि देशस्तु वध्यस्य रावणस्य दुरात्मनः।राक्षसाधिपतेर्वासः सहस्राक्षसमद्युतेः॥ २५दक्षिणस्य समुद्रस्य मध्ये तस्य तु राक्षसी।अङ्गारकेति विख्याता छायामाक्षिप्य भोजिनी॥ २६तमतिक्रम्य लक्ष्मीवान्समुद्रे शतयोजने।गिरिः पुष्पितको नाम सिद्धचारणसेवितः॥ २७चन्द्रसूर्यांशुसंकाशः सागराम्बुसमावृतः।भ्राजते विपुलैः शृङ्गैरम्बरं विलिखन्निव॥ २८तस्यैकं काञ्चनं शृङ्गं सेवते यं दिवाकरः।श्वेतं राजतमेकं च सेवते यं निशाकरः॥ २९न तं कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः।प्रणम्य शिरसा शैलं तं विमार्गत वानराः॥ ३०तमतिक्रम्य दुर्धर्षाः सूर्यवान्नाम पर्वतः।अध्वना दुर्विगाहेन योजनानि चतुर्दश॥ ३१ततस्तमप्यतिक्रम्य वैद्युतो नाम पर्वतः।सर्वकामफलैर्वृक्षैः सर्वकालमनोहरैः॥ ३२तत्र भुक्त्वा वरार्हाणि मूलानि च फलानि च।मधूनि पीत्वा मुख्यानि परं गच्छत वानराः॥ ३३तत्र नेत्रमनःकान्तः कुञ्जरो नाम पर्वतः।अगस्त्यभवनं यत्र निर्मितं विश्वकर्मणा॥ ३४तत्र योजनविस्तारमुच्छ्रितं दशयोजनम्।शरणं काञ्चनं दिव्यं नानारत्नविभूषितम्॥ ३५तत्र भोगवती नाम सर्पाणामालयः पुरी।विशालरथ्या दुर्धर्षा सर्वतः परिरक्षिता।रक्षिता पन्नगैर्घोरैस्तीक्ष्णदंष्ट्रैर्महाविषैः॥ ३६सर्पराजो महाघोरो यस्यां वसति वासुकिः।निर्याय मार्गितव्या च सा च भोगवती पुरी॥ ३७तं च देशमतिक्रम्य महानृषभसंस्थितः।सर्वरत्नमयः श्रीमानृषभो नाम पर्वतः॥ ३८गोशीर्षकं पद्मकं च हरिश्यामं च चन्दनम्।दिव्यमुत्पद्यते यत्र तच्चैवाग्निसमप्रभम्॥ ३९न तु तच्चन्दनं दृष्ट्वा स्प्रष्टव्यं च कदाचन।रोहिता नाम गन्धर्वा घोरा रक्षन्ति तद्वनम्॥ ४०तत्र गन्धर्वपतयः पञ्चसूर्यसमप्रभाः।शैलूषो ग्रामणीर्भिक्षुः शुभ्रो बभ्रुस्तथैव च॥ ४१अन्ते पृथिव्या दुर्धर्षास्तत्र स्वर्गजितः स्थिताः।ततः परं न वः सेव्यः पितृलोकः सुदारुणः।राजधानी यमस्यैषा कष्टेन तमसावृता॥ ४२एतावदेव युष्माभिर्वीरा वानरपुंगवाः।शक्यं विचेतुं गन्तुं वा नातो गतिमतां गतिः॥ ४३सर्वमेतत्समालोक्य यच्चान्यदपि दृश्यते।गतिं विदित्वा वैदेह्याः संनिवर्तितमर्हथ॥ ४४यस्तु मासान्निवृत्तोऽग्रे दृष्टा सीतेति वक्ष्यति।मत्तुल्यविभवो भोगैः सुखं स विहरिष्यति॥ ४५ततः प्रियतरो नास्ति मम प्राणाद्विशेषतः।कृतापराधो बहुशो मम बन्धुर्भविष्यति॥ ४६अमितबलपराक्रमा भवन्तोविपुलगुणेषु कुलेषु च प्रसूताः।मनुजपतिसुतां यथा लभध्वंतदधिगुणं पुरुषार्थमारभध्वम्॥ ४७इति श्रीरामायणे किष्किन्धाकाण्डे चत्वारिंशः सर्गः ॥ ४०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved