॥ ॐ श्री गणपतये नमः ॥

४१ सर्गः
ततः प्रस्थाप्य सुग्रीवस्तान्हरीन्दक्षिणां दिशम्।बुद्धिविक्रमसंपन्नान्वायुवेगसमाञ्जवे॥ १अथाहूय महातेजाः सुषेणं नाम यूथपम्।तारायाः पितरं राजा श्वशुरभीमविक्रमम्॥ २अब्रवीत्प्राञ्जलिर्वाक्यमभिगम्य प्रणम्य च।साहाय्यं कुरु रामस्य कृत्येऽस्मिन्समुपस्थिते॥ ३वृतः शतसहस्रेण वानराणां तरस्विनाम्।अभिगच्छ दिशं सौम्य पश्चिमां वारुणीं प्रभो॥ ४सुराष्ट्रान्सह बाह्लीकाञ्शूराभीरांस्तथैव च।स्फीताञ्जनपदान्रम्यान्विपुलानि पुराणि च॥ ५पुंनागगहनं कुक्षिं बहुलोद्दालकाकुलम्।तथा केतकषण्डांश्च मार्गध्वं हरियूथपाः॥ ६प्रत्यक्स्रोतोगमाश्चैव नद्यः शीतजलाः शिवाः।तापसानामरण्यानि कान्तारा गिरयश्च ये॥ ७गिरिजालावृतां दुर्गां मार्गित्वा पश्चिमां दिशम्।ततः पश्चिममासाद्य समुद्रं द्रष्टुमर्हथ।तिमि नक्रायुत जलमक्षोभ्यमथ वानरः॥ ८ततः केतकषण्डेषु तमालगहनेषु च।कपयो विहरिष्यन्ति नारिकेलवनेषु च॥ ९तत्र सीतां च मार्गध्वं निलयं रावणस्य च।मरीचिपत्तनं चैव रम्यं चैव जटीपुरम्॥ १०अवन्तीमङ्गलोपां च तथा चालक्षितं वनम्।राष्ट्राणि च विशालानि पत्तनानि ततस्ततः॥ ११सिन्धुसागरयोश्चैव संगमे तत्र पर्वतः।महान्हेमगिरिर्नाम शतशृङ्गो महाद्रुमः॥ १२तस्य प्रस्थेषु रम्येषु सिंहाः पक्षगमाः स्थिताः।तिमिमत्स्यगजांश्चैव नीडान्यारोपयन्ति ते॥ १३तानि नीडानि सिंहानां गिरिशृङ्गगताश्च ये।दृप्तास्तृप्ताश्च मातङ्गास्तोयदस्वननिःस्वनाः।विचरन्ति विशालेऽस्मिंस्तोयपूर्णे समन्ततः॥ १४तस्य शृङ्गं दिवस्पर्शं काञ्चनं चित्रपादपम्।सर्वमाशु विचेतव्यं कपिभिः कामरूपिभिः॥ १५कोटिं तत्र समुद्रे तु काञ्चनीं शतयोजनम्।दुर्दर्शां परियात्रस्य गता द्रक्ष्यथ वानराः॥ १६कोट्यस्तत्र चतुर्विंशद्गन्धर्वाणां तरस्विनाम्।वसन्त्यग्निनिकाशानां घोराणां कामरूपिणाम्॥ १७नात्यासादयितव्यास्ते वानरैर्भीमविक्रमैः।नादेयं च फलं तस्माद्देशात्किंचित्प्लवंगमैः॥ १८दुरासदा हि ते वीराः सत्त्ववन्तो महाबलाः।फलमूलानि ते तत्र रक्षन्ते भीमविक्रमाः॥ १९तत्र यत्नश्च कर्तव्यो मार्गितव्या च जानकी।न हि तेभ्यो भयं किंचित्कपित्वमनुवर्तताम्॥ २०चतुर्भागे समुद्रस्य चक्रवान्नाम पर्वतः।तत्र चक्रं सहस्रारं निर्मितं विश्वकर्मणा॥ २१तत्र पञ्चजनं हत्वा हयग्रीवं च दानवम्।आजहार ततश्चक्रं शङ्खं च पुरुषोत्तमः॥ २२तस्य सानुषु चित्रेषु विशालासु गुहासु च।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २३योजनानि चतुःषष्टिर्वराहो नाम पर्वतः।सुवर्णशृङ्गः सुश्रीमानगाधे वरुणालये॥ २४तत्र प्राग्ज्योतिषं नाम जातरूपमयं पुरम्।यस्मिन्वस्ति दुष्टात्मा नरको नाम गुहासु च॥ २५तस्य सानुषु चित्रेषु विशालासु गुहासु च।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ २६तमतिक्रम्य शैलेन्द्रं काञ्चनान्तरनिर्दरः।पर्वतः सर्वसौवर्णो धारा प्रस्रवणायुतः॥ २७तं गजाश्च वराहाश्च सिंहा व्याघ्राश्च सर्वतः।अभिगर्जन्ति सततं तेन शब्देन दर्पिताः॥ २८तस्मिन्हरिहयः श्रीमान्महेन्द्रः पाकशासनः।अभिषिक्तः सुरै राजा मेघवान्नाम पर्वतः॥ २९तमतिक्रम्य शैलेन्द्रं महेन्द्रपरिपालितम्।षष्टिं गिरिसहस्राणि काञ्चनानि गमिष्यथ॥ ३०तरुणादित्यवर्णानि भ्राजमानानि सर्वतः।जातरूपमयैर्वृक्षैः शोभितानि सुपुष्पितैः॥ ३१तेषां मध्ये स्थितो राजा मेरुरुत्तमपर्वतः।आदित्येन प्रसन्नेन शैलो दत्तवरः पुरा॥ ३२तेनैवमुक्तः शैलेन्द्रः सर्व एव त्वदाश्रयाः।मत्प्रसादाद्भविष्यन्ति दिवारात्रौ च काञ्चनाः॥ ३३त्वयि ये चापि वत्स्यन्ति देवगन्धर्वदानवाः।ते भविष्यन्ति रक्ताश्च प्रभया काञ्चनप्रभाः॥ ३४आदित्या वसवो रुद्रा मरुतश्च दिवौकसः।आगम्य पश्चिमां संध्यां मेरुमुत्तमपर्वतम्॥ ३५आदित्यमुपतिष्ठन्ति तैश्च सूर्योऽभिपूजितः।अदृश्यः सर्वभूतानामस्तं गच्छति पर्वतम्॥ ३६योजनानां सहस्राणि दशतानि दिवाकरः।मुहूर्तार्धेन तं शीघ्रमभियाति शिलोच्चयम्॥ ३७शृङ्गे तस्य महद्दिव्यं भवनं सूर्यसंनिभम्।प्रासादगुणसंबाधं विहितं विश्वकर्मणा॥ ३८शोभितं तरुभिश्चित्रैर्नानापक्षिसमाकुलैः।निकेतं पाशहस्तस्य वरुणस्य महात्मनः॥ ३९अन्तरा मेरुमस्तं च तालो दशशिरा महान्।जातरूपमयः श्रीमान्भ्राजते चित्रवेदिकः॥ ४०तेषु सर्वेषु दुर्गेषु सरःसु च सरित्सु च।रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥ ४१यत्र तिष्ठति धर्मात्मा तपसा स्वेन भावितः।मेरुसावर्णिरित्येव ख्यातो वै ब्रह्मणा समः॥ ४२प्रष्टव्यो मेरुसावर्णिर्महर्षिः सूर्यसंनिभः।प्रणम्य शिरसा भूमौ प्रवृत्तिं मैथिलीं प्रति॥ ४३एतावज्जीवलोकस्य भास्करो रजनीक्षये।कृत्वा वितिमिरं सर्वमस्तं गच्छति पर्वतम्॥ ४४एतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः।अभास्करममर्यादं न जानीमस्ततः परम्॥ ४५अधिगम्य तु वैदेहीं निलयं रावणस्य च।अस्तं पर्वतमासाद्य पूर्णे मासे निवर्तत॥ ४६ऊर्ध्वं मासान्न वस्तव्यं वसन्वध्यो भवेन्मम।सहैव शूरो युष्माभिः श्वशुरो मे गमिष्यति॥ ४७श्रोतव्यं सर्वमेतस्य भवद्भिर्दिष्ट कारिभिः।गुरुरेष महाबाहुः श्वशुरो मे महाबलः॥ ४८भवन्तश्चापि विक्रान्ताः प्रमाणं सर्वकर्मसु।प्रमाणमेनं संस्थाप्य पश्यध्वं पश्चिमां दिशम्॥ ४९दृष्टायां तु नरेन्द्रस्या पत्न्याममिततेजसः।कृतकृत्या भविष्यामः कृतस्य प्रतिकर्मणा॥ ५०अतोऽन्यदपि यत्किंचित्कार्यस्यास्य हितं भवेत्।संप्रधार्य भवद्भिश्च देशकालार्थसंहितम्॥ ५१ततः सुषेण प्रमुखाः प्लवंगमाःसुग्रीववाक्यं निपुणं निशम्य।आमन्त्र्य सर्वे प्लवगाधिपं तेजग्मुर्दिशं तां वरुणाभिगुप्ताम्॥ ५२इति श्रीरामायणे किष्किन्धाकाण्डे एकचत्वारिंशः सर्गः ॥ ४१
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved