॥ ॐ श्री गणपतये नमः ॥

४५ सर्गः
गतेषु वानरेन्द्रेषु रामः सुग्रीवमब्रवीत्।कथं भवान्विनाजीते सर्वं वै मण्डलं भुवः॥ १सुग्रीवस्तु ततो राममुवाच प्रणतात्मवान्।श्रूयतां सर्वमाख्यास्ये विस्तरेण नरर्षभ॥ २यदा तु दुन्दुभिं नाम दानवं महिषाकृतिम्।परिकालयते वाली मलयं प्रति पर्वतम्॥ ३तदा विवेश महिषो मलयस्य गुहां प्रति।विवेश वाली तत्रापि मलयं तज्जिघांसया॥ ४ततोऽहं तत्र निक्षिप्तो गुहाद्वारिविनीतवत्।न च निष्क्रमते वाली तदा संवत्सरे गते॥ ५ततः क्षतजवेगेन आपुपूरे तदा बिलम्।तदहं विस्मितो दृष्ट्वा भ्रातृशोकविषार्दितः॥ ६अथाहं कृतबुद्धिस्तु सुव्यक्तं निहतो गुरुः।शिलापर्वतसंकाशा बिलद्वारि मया कृता।अशक्नुवन्निष्क्रमितुं महिषो विनशेदिति॥ ७ततोऽहमागां किष्किन्धां निराशस्तस्य जीविते।राज्यं च सुमहत्प्राप्तं तारा च रुमया सह।मित्रैश्च सहितस्तत्र वसामि विगतज्वरः॥ ८आजगाम ततो वाली हत्वा तं दानवर्षभम्।ततोऽहमददां राज्यं गौरवाद्भययन्त्रितः॥ ९स मां जिघांसुर्दुष्टात्मा वाली प्रव्यथितेन्द्रियः।परिलाकयते क्रोधाद्धावन्तं सचिवैः सह॥ १०ततोऽहं वालिना तेन सानुबन्धः प्रधावितः।नदीश्च विविधाः पश्यन्वनानि नगराणि च॥ ११आदर्शतलसंकाशा ततो वै पृथिवी मया।अलातचक्रप्रतिमा दृष्टा गोष्पदवत्तदा॥ १२ततः पूर्वमहं गत्वा दक्षिणामहमाश्रितः।दिशं च पश्चिमां भूयो गतोऽस्मि भयशङ्कितः।उत्तरां तु दिशं यान्तं हनुमान्मामथाब्रवीत्॥ १३इदानीं मे स्मृतं राजन्यथा वाली हरीश्वरः।मतङ्गेन तदा शप्तो ह्यस्मिन्नाश्रममण्डले॥ १४प्रविशेद्यदि वा वाली मूर्धास्य शतधा भवेत्।तत्र वासः सुखोऽस्माकं निरुद्विग्नो भविष्यति॥ १५ततः पर्वतमासाद्य ऋश्यमूकं नृपात्मज।न विवेश तदा वाली मतङ्गस्य भयात्तदा॥ १६एवं मया तदा राजन्प्रत्यक्षमुपलक्षितम्।पृथिवीमण्डलं कृत्स्नं गुहामस्म्यागतस्ततः॥ १७इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥ ४५
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved