५० सर्गः
इत्युक्त्वा हनुमांस्तत्र पुनः कृष्णाजिनाम्बराम्।अब्रवीत्तां महाभागां तापसीं धर्मचारिणीम्॥ १इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम्।क्षुत्पिपासा परिश्रान्ताः परिखिन्नाश्च सर्वशः॥ २महद्धिरण्या विवरं प्रविष्टाः स्म पिपासिताः।इमांस्त्वेवं विधान्भावान्विविधानद्भुतोपमान्।दृष्ट्वा वयं प्रव्यथिताः संभ्रान्ता नष्टचेतसः॥ ३कस्येमे काञ्चना वृक्षास्तरुणादित्यसंनिभाः।शुचीन्यभ्यवहार्याणि मूलानि च फलानि च॥ ४काञ्चनानि विमानानि राजतानि गृहाणि च।तपनीय गवाक्षाणि मणिजालावृतानि च॥ ५पुष्पिताः फालवन्तश्च पुण्याः सुरभिगन्धिनः।इमे जाम्बूनदमयाः पादपाः कस्य तेजसा॥ ६काञ्चनानि च पद्मानि जातानि विमले जले।कथं मत्स्याश्च सौवर्णा चरन्ति सह कच्छपैः॥ ७आत्मानमनुभावं च कस्य चैतत्तपोबलम्।अजानतां नः सर्वेषां सर्वमाख्यातुमर्हसि॥ ८एवमुक्ता हनुमता तापसी धर्मचारिणी।प्रत्युवाच हनूमन्तं सर्वभूतहिते रता॥ ९मयो नाम महातेजा मायावी दानवर्षभः।तेनेदं निर्मितं सर्वं मायया काञ्चनं वनम्॥ १०पुरा दानवमुख्यानां विश्वकर्मा बभूव ह।येनेदं काञ्चनं दिव्यं निर्मितं भवनोत्तमम्॥ ११स तु वर्षसहस्राणि तपस्तप्त्वा महावने।पितामहाद्वरं लेभे सर्वमौशसनं धनम्॥ १२विधाय सर्वं बलवान्सर्वकामेश्वरस्तदा।उवास सुखितः कालं कंचिदस्मिन्महावने॥ १३तमप्सरसि हेमायां सक्तं दानवपुंगवम्।विक्रम्यैवाशनिं गृह्य जघानेशः पुरंदरः॥ १४इदं च ब्रह्मणा दत्तं हेमायै वनमुत्तमम्।शाश्वतः कामभोगश्च गृहं चेदं हिरण्मयम्॥ १५दुहिता मेरुसावर्णेरहं तस्याः स्वयं प्रभा।इदं रक्षामि भवनं हेमाया वानरोत्तम॥ १६मम प्रियसखी हेमा नृत्तगीतविशारदा।तया दत्तवरा चास्मि रक्षामि भवनोत्तमम्॥ १७किं कार्यं कस्य वा हेतोः कान्ताराणि प्रपद्यथ।कथं चेदं वनं दुर्गं युष्माभिरुपलक्षितम्॥ १८इमान्यभ्यवहार्याणि मूलानि च फलानि च।भुक्त्वा पीत्वा च पानीयं सर्वं मे वक्तुमर्हथ॥ १९इति श्रीरामायणे किष्किन्धाकाण्डे पञ्चाशः सर्गः ॥ ५०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved