५७ सर्गः
इत्युक्तः करुणं वाक्यं वानरैस्त्यक्तजीवितैः।सबाष्पो वानरान्गृध्रः प्रत्युवाच महास्वनः॥ १यवीयान्मम स भ्राता जटायुर्नाम वानराः।यमाख्यात हतं युद्धे रावणेन बलीयसा॥ २वृद्धभावादपक्षत्वाच्छृण्वंस्तदपि मर्षये।न हि मे शक्तिरद्यास्ति भ्रातुर्वैरविमोक्षणे॥ ३पुरा वृत्रवधे वृत्ते स चाहं च जयैषिणौ।आदित्यमुपयातौ स्वो ज्वलन्तं रश्मिमालिनम्॥ ४आवृत्याकाशमार्गेण जवेन स्म गतौ भृशम्।मध्यं प्राप्ते च सूर्ये च जटायुरवसीदति॥ ५तमहं भ्रातरं दृष्ट्वा सूर्यरश्मिभिरर्दितम्।पक्षाभ्यं छादयामास स्नेहात्परमविह्वलम्॥ ६निर्दग्धपक्षः पतितो विन्ध्येऽहं वानरोत्तमाः।अहमस्मिन्वसन्भ्रातुः प्रवृत्तिं नोपलक्षये॥ ७जटायुषस्त्वेवमुक्तो भ्रात्रा संपातिना तदा।युवराजो महाप्राज्ञः प्रत्युवाचाङ्गदस्तदा॥ ८जटायुषो यदि भ्राता श्रुतं ते गदितं मया।आख्याहि यदि जानासि निलयं तस्य रक्षसः॥ ९अदीर्घदर्शिनं तं वा रावणं राक्षसाधिपम्।अन्तिके यदि वा दूरे यदि जानासि शंस नः॥ १०ततोऽब्रवीन्महातेजा ज्येष्ठो भ्राता जटायुषः।आत्मानुरूपं वचनं वानरान्संप्रहर्षयन्॥ ११निर्दग्धपक्षो गृध्रोऽहं गतवीर्यः प्लवंगमाः।वाङ्मात्रेण तु रामस्य करिष्ये साह्यमुत्तमम्॥ १२जानामि वारुणाल्लोकान्विष्णोस्त्रैविक्रमानपि।देवासुरविमर्दांश्च अमृतस्य च मन्थनम्॥ १३रामस्य यदिदं कार्यं कर्तव्यं प्रथमं मया।जरया च हृतं तेजः प्राणाश्च शिथिला मम॥ १४तरुणी रूपसंपन्ना सर्वाभरणभूषिता।ह्रियमाणा मया दृष्टा रावणेन दुरात्मना॥ १५क्रोशन्ती राम रामेति लक्ष्मणेति च भामिनी।भूषणान्यपविध्यन्ती गात्राणि च विधुन्वती॥ १६सूर्यप्रभेव शैलाग्रे तस्याः कौशेयमुत्तमम्।असिते राक्षसे भाति यथा वा तडिदम्बुदे॥ १७तां तु सीतामहं मन्ये रामस्य परिकीर्तनात्।श्रूयतां मे कथयतो निलयं तस्य रक्षसः॥ १८पुत्रो विश्रवसः साक्षाद्भ्राता वैश्रवणस्य च।अध्यास्ते नगरीं लङ्कां रावणो नाम राकसः॥ १९इतो द्वीपे समुद्रस्य संपूर्णे शतयोजने।तस्मिँल्लङ्का पुरी रम्या निर्मिता विश्वकर्मणा॥ २०तस्यां वसति वैदेही दीना कौशेयवासिनी।रावणान्तःपुरे रुद्धा राक्षसीभिः सुरक्षिता॥ २१जनकस्यात्मजां राज्ञस्तस्यां द्रक्ष्यथ मैथिलीम्।लङ्कायामथ गुप्तायां सागरेण समन्ततः॥ २२संप्राप्य सागरस्यान्तं संपूर्णं शतयोजनम्।आसाद्य दक्षिणं कूलं ततो द्रक्ष्यथ रावणम्॥ २३तत्रैव त्वरिताः क्षिप्रं विक्रमध्वं प्लवंगमाः।ज्ञानेन खलु पश्यामि दृष्ट्वा प्रत्यागमिष्यथ॥ २४आद्यः पन्थाः कुलिङ्गानां ये चान्ये धान्यजीविनः।द्वितीयो बलिभोजानां ये च वृक्षफलाशिनः॥ २५भासास्तृतीयं गच्छन्ति क्रौञ्चाश्च कुररैः सह।श्येनाश्चतुर्थं गच्छन्ति गृध्रा गच्छन्ति पञ्चमम्॥ २६बलवीर्योपपन्नानां रूपयौवनशालिनाम्।षष्ठस्तु पन्था हंसानां वैनतेयगतिः परा।वैनतेयाच्च नो जन्म सर्वेषां वानरर्षभाः॥ २७गर्हितं तु कृतं कर्म येन स्म पिशिताशनाः।इहस्थोऽहं प्रपश्यामि रावणं जानकीं तथा॥ २८अस्माकमपि सौवर्णं दिव्यं चक्षुर्बलं तथा।तस्मादाहारवीर्येण निसर्गेण च वानराः।आयोजनशतात्साग्राद्वयं पश्याम नित्यशः॥ २९अस्माकं विहिता वृत्तिर्निसार्गेण च दूरतः।विहिता पादमूले तु वृत्तिश्चरणयोधिनाम्॥ ३०उपायो दृश्यतां कश्चिल्लङ्घने लवणाम्भसः।अभिगम्य तु वैदेहीं समृद्धार्था गमिष्यथ॥ ३१समुद्रं नेतुमिच्छामि भवद्भिर्वरुणालयम्।प्रदास्याम्युदकं भ्रातुः स्वर्गतस्य महात्मनः॥ ३२ततो नीत्वा तु तं देशं तीरे नदनदीपतेः।निर्दग्धपक्षं संपातिं वानराः सुमहौजसः॥ ३३पुनः प्रत्यानयित्वा वै तं देशं पतगेश्वरम्।बभूवुर्वानरा हृष्टाः प्रवृत्तिमुपलभ्य ते॥ ३४इति श्रीरामायणे किष्किन्धाकाण्डे सप्तपञ्चाशः सर्गः ॥ ५७
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved