६२ सर्गः
एतैरन्यैश्च बहुभिर्वाक्यैर्वाक्यविशारदः।मां प्रशस्याभ्यनुज्ञाप्य प्रविष्टः स स्वमाश्रमम्॥ १कन्दरात्तु विसर्पित्वा पर्वतस्य शनैः शनैः।अहं विन्ध्यं समारुह्य भवतः प्रतिपालये॥ २अद्य त्वेतस्य कालस्य साग्रं वर्षशतं गतम्।देशकालप्रतीक्षोऽस्मि हृदि कृत्वा मुनेर्वचः॥ ३महाप्रस्थानमासाद्य स्वर्गते तु निशाकरे।मां निर्दहति संतापो वितर्कैर्बहुभिर्वृतम्॥ ४उत्थितां मरणे बुद्धिं मुनि वाक्यैर्निवर्तये।बुद्धिर्या तेन मे दत्ता प्राणसंरक्षणाय तु।सा मेऽपनयते दुःखं दीप्तेवाग्निशिखा तमः॥ ५बुध्यता च मया वीर्यं रावणस्य दुरात्मनः।पुत्रः संतर्जितो वाग्भिर्न त्राता मैथिली कथम्॥ ६तस्या विलपितं श्रुत्वा तौ च सीता विनाकृतौ।न मे दशरथस्नेहात्पुत्रेणोत्पादितं प्रियम्॥ ७तस्य त्वेवं ब्रुवाणस्य संपातेर्वानरैः सह।उत्पेततुस्तदा पक्षौ समक्षं वनचारिणाम्॥ ८स दृष्ट्वा स्वां तनुं पक्षैरुद्गतैररुणच्छदैः।प्रहर्षमतुलं लेभे वानरांश्चेदमब्रवीत्॥ ९निशाकरस्य महर्षेः प्रभावादमितात्मनः।आदित्यरश्मिनिर्दग्धौ पक्षौ मे पुनरुत्थितौ॥ १०यौवने वर्तमानस्य ममासीद्यः पराक्रमः।तमेवाद्यावगच्छामि बलं पौरुषमेव च॥ ११सर्वथा क्रियतां यत्नः सीतामधिगमिष्यथ।पक्षलाभो ममायं वः सिद्धिप्रत्यय कारकः॥ १२इत्युक्त्वा तान्हरीन्सर्वान्संपातिः पततां वरः।उत्पपात गिरेः शृङ्गाज्जिज्ञासुः खगमो गतिम्॥ १३तस्य तद्वचनं श्रुत्वा प्रीतिसंहृष्टमानसाः।बभूवुर्हरिशार्दूला विक्रमाभ्युदयोन्मुखाः॥ १४अथ पवनसमानविक्रमाःप्लवगवराः प्रतिलब्ध पौरुषाः।अभिजिदभिमुखां दिशं ययुर्जनकसुता परिमार्गणोन्मुखाः॥ १५इति श्रीरामायणे किष्किन्धाकाण्डे द्विषष्टितमः सर्गः ॥ ६२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved