॥ ॐ श्री गणपतये नमः ॥

६६ सर्गः
संस्तूयमानो हनुमान्व्यवर्धत महाबलः।समाविध्य च लाङ्गूलं हर्षाच्च बलमेयिवान्॥ १तस्य संस्तूयमानस्य सर्वैर्वानरपुंगवैः।तेजसापूर्यमाणस्य रूपमासीदनुत्तमम्॥ २यथा विजृम्भते सिंहो विवृद्धो गिरिगह्वरे।मारुतस्यौरसः पुत्रस्तथा संप्रति जृम्भते॥ ३अशोभत मुखं तस्य जृम्भमाणस्य धीमतः।अम्बरीषोपमं दीप्तं विधूम इव पावकः॥ ४हरीणामुत्थितो मध्यात्संप्रहृष्टतनूरुहः।अभिवाद्य हरीन्वृद्धान्हनुमानिदमब्रवीत्॥ ५अरुजन्पर्वताग्राणि हुताशनसखोऽनिलः।बलवानप्रमेयश्च वायुराकाशगोचरः॥ ६तस्याहं शीघ्रवेगस्य शीघ्रगस्य महात्मनः।मारुतस्यौरसः पुत्रः प्लवने नास्ति मे समः॥ ७उत्सहेयं हि विस्तीर्णमालिखन्तमिवाम्बरम्।मेरुं गिरिमसंगेन परिगन्तुं सहस्रशः॥ ८बाहुवेगप्रणुन्नेन सागरेणाहमुत्सहे।समाप्लावयितुं लोकं सपर्वतनदीह्रदम्॥ ९ममोरुजङ्घावेगेन भविष्यति समुत्थितः।संमूर्छितमहाग्राहः समुद्रो वरुणालयः॥ १०पन्नगाशनमाकाशे पतन्तं पक्षिसेवितम्।वैनतेयमहं शक्तः परिगन्तुं सहस्रशः॥ ११उदयात्प्रस्थितं वापि ज्वलन्तं रश्मिमालिनम्।अनस्तमितमादित्यमभिगन्तुं समुत्सहे॥ १२ततो भूमिमसंस्पृश्य पुनरागन्तुमुत्सहे।प्रवेगेनैव महता भीमेन प्लवगर्षभाः॥ १३उत्सहेयमतिक्रान्तुं सर्वानाकाशगोचरान्।सागरं क्षोभयिष्यामि दारयिष्यामि मेदिनीम्॥ १४पर्वतान्कम्पयिष्यामि प्लवमानः प्लवंगमाः।हरिष्ये चोरुवेगेन प्लवमानो महार्णवम्॥ १५लतानां वीरुधां पुष्पं पादपानां च सर्वशः।अनुयास्यति मामद्य प्लवमानं विहायसा।भविष्यति हि मे पन्थाः स्वातेः पन्था इवाम्बरे॥ १६चरन्तं घोरमाकाशमुत्पतिष्यन्तमेव च।द्रक्ष्यन्ति निपतन्तं च सर्वभूतानि वानराः॥ १७महामेरुप्रतीकाशं मां द्रक्ष्यध्वं प्लवंगमाः।दिवमावृत्य गच्छन्तं ग्रसमानमिवाम्बरम्॥ १८विधमिष्यामि जीमूतान्कम्पयिष्यामि पर्वतान्।सागरं क्षोभयिष्यामि प्लवमानः समाहितः॥ १९वैनतेयस्य वा शक्तिर्मम वा मारुतस्य वा।ऋते सुपर्णराजानं मारुतं वा महाबलम्।न हि भूतं प्रपश्यामि यो मां प्लुतमनुव्रजेत्॥ २०निमेषान्तरमात्रेण निरालम्भनमम्बरम्।सहसा निपतिष्यामि घनाद्विद्युदिवोत्थिता॥ २१भविष्यति हि मे रूपं प्लवमानस्य सागरम्।विष्णोः प्रक्रममाणस्य तदा त्रीन्विक्रमानिव॥ २२बुद्ध्या चाहं प्रपश्यामि मनश्चेष्टा च मे तथा।अहं द्रक्ष्यामि वैदेहीं प्रमोदध्वं प्लवंगमाः॥ २३मारुतस्य समो वेगे गरुडस्य समो जवे।अयुतं योजनानां तु गमिष्यामीति मे मतिः॥ २४वासवस्य सवज्रस्य ब्रह्मणो वा स्वयम्भुवः।विक्रम्य सहसा हस्तादमृतं तदिहानये।लङ्कां वापि समुत्क्षिप्य गच्छेयमिति मे मतिः॥ २५तमेवं वानरश्रेष्ठं गर्जन्तममितौजसं।उवाच परिसंहृष्टो जाम्बवान्हरिसत्तमः॥ २६वीर केसरिणः पुत्र वेगवन्मारुतात्मज।ज्ञातीनां विपुलं शोकस्त्वया तात प्रणाशितः॥ २७तव कल्याणरुचयः कपिमुख्याः समागताः।मङ्गलं कार्यसिद्ध्यर्थं करिष्यन्ति समाहिताः॥ २८ऋषीणां च प्रसादेन कपिवृद्धमतेन च।गुरूणां च प्रसादेन प्लवस्व त्वं महार्णवम्॥ २९स्थास्यामश्चैकपादेन यावदागमनं तव।त्वद्गतानि च सर्वेषां जीवितानि वनौकसाम्॥ ३०ततस्तु हरिशार्दूलस्तानुवाच वनौकसः।नेयं मम मही वेगं प्लवने धारयिष्यति॥ ३१एतानि हि नगस्यास्य शिलासंकटशालिनः।शिखराणि महेन्द्रस्य स्थिराणि च महान्ति च॥ ३२एतानि मम निष्पेषं पादयोः पततां वराः।प्लवतो धारयिष्यन्ति योजनानामितः शतम्॥ ३३ततस्तु मारुतप्रख्यः स हरिर्मारुतात्मजः।आरुरोह नगश्रेष्ठं महेन्द्रमरिमर्दनः॥ ३४वृतं नानाविधैर्वृक्षैर्मृगसेवितशाद्वलम्।लताकुसुमसंबाधं नित्यपुष्पफलद्रुमम्॥ ३५सिंहशार्दूलचरितं मत्तमातङ्गसेवितम्।मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसंकुलम्॥ ३६महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः।विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः॥ ३७पादाभ्यां पीडितस्तेन महाशैलो महात्मना।ररास सिंहाभिहतो महान्मत्त इव द्विपः॥ ३८मुमोच सलिलोत्पीडान्विप्रकीर्णशिलोच्चयः।वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः॥ ३९नानागन्धर्वमिथुनैः पानसंसर्गकर्कशैः।उत्पतद्भिर्विहंगैश्च विद्याधरगणैरपि॥ ४०त्यज्यमानमहासानुः संनिलीनमहोरगः।शैलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः॥ ४१निःश्वसद्भिस्तदा तैस्तु भुजगैरर्धनिःसृतैः।सपताक इवाभाति स तदा धरणीधरः॥ ४२ऋषिभिस्त्रास संभ्रान्तैस्त्यज्यमानः शिलोच्चयः।सीदन्महति कान्तारे सार्थहीन इवाध्वगः॥ ४३स वेगवान्वेगसमाहितात्माहरिप्रवीरः परवीरहन्ता।मनः समाधाय महानुभावोजगाम लङ्कां मनसा मनस्वी॥ ४४इति श्रीरामायणे किष्किन्धाकाण्डे षट्षष्टितमः सर्गः ॥ ६६॥ समाप्तं किष्किन्धाकाण्डम् ॥
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved