॥ ॐ श्री गणपतये नमः ॥

२ सर्गः
स सागरमनाधृष्यमतिक्रम्य महाबलः।त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह॥ १ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान्।अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा॥ २योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः।अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति॥ ३शतान्यहं योजनानां क्रमेयं सुबहून्यपि।किं पुनः सागरस्यान्तं संख्यातं शतयोजनम्॥ ४स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः।जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम्॥ ५शाद्वलानि च नीलानि गन्धवन्ति वनानि च।गण्डवन्ति च मध्येन जगाम नगवन्ति च॥ ६शैलांश्च तरुसंछन्नान्वनराजीश्च पुष्पिताः।अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः॥ ७स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च।स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः॥ ८सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान्।प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि॥ ९प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा।असनान्कोविदारांश्च करवीरांश्च पुष्पितान्॥ १०पुष्पभारनिबद्धांश्च तथा मुकुलितानपि।पादपान्विहगाकीर्णान्पवनाधूतमस्तकान्॥ ११हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः।आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान्॥ १२संततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः।उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः॥ १३समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम्।परिखाभिः सपद्माभिः सोत्पलाभिरलंकृताम्॥ १४सीतापहरणार्थेन रावणेन सुरक्षिताम्।समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः॥ १५काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम्।अट्टालकशताकीर्णां पताकाध्वजमालिनीम्॥ १६तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः।ददर्श हनुमाँल्लङ्कां दिवि देवपुरीमिव॥ १७गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः।ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा॥ १८पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा।प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम्॥ १९संपूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीमिव।अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा॥ २०दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः।रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि॥ २१वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम्।शतघ्नीशूलकेशान्तामट्टालकवतंसकाम्॥ २२द्वारमुत्तरमासाद्य चिन्तयामास वानरः।कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम्।ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः॥ २३तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः।रावणं च रिपुं घोरं चिन्तयामास वानरः॥ २४आगत्यापीह हरयो भविष्यन्ति निरर्थकाः।न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि॥ २५इमां तु विषमां दुर्गां लङ्कां रावणपालिताम्।प्राप्यापि स महाबाहुः किं करिष्यति राघवः॥ २६अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते।न दानस्य न भेदस्य नैव युद्धस्य दृश्यते॥ २७चतुर्णामेव हि गतिर्वानराणां महात्मनाम्।वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः॥ २८यावज्जानामि वैदेहीं यदि जीवति वा न वा।तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम्॥ २९ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः।गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः॥ ३०अनेन रूपेण मया न शक्या रक्षसां पुरी।प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः॥ ३१उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः।वञ्चनीया मया सर्वे जानकीं परिमार्गिता॥ ३२लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया।प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत्॥ ३३तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः।हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः॥ ३४केनोपायेन पश्येयं मैथिलीं जनकात्मजाम्।अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना॥ ३५न विनश्येत्कथं कार्यं रामस्य विदितात्मनः।एकामेकश्च पश्येयं रहिते जनकात्मजाम्॥ ३६भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः।विक्लवं दूतमासाद्य तमः सूर्योदये यथा॥ ३७अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते।घातयन्ति हि कार्याणि दूताः पण्डितमानिनः॥ ३८न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत्।लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत्॥ ३९मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः।भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः॥ ४०न हि शक्यं क्वचित्स्थातुमविज्ञातेन राक्षसैः।अपि राक्षसरूपेण किमुतान्येन केनचित्॥ ४१वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम।न ह्यस्त्यविदितं किंचिद्राक्षसानां बलीयसाम्॥ ४२इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः।विनाशमुपयास्यामि भर्तुरर्थश्च हीयते॥ ४३तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः।लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये॥ ४४रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम्।विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम्॥ ४५इति संचिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः।आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः।पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः॥ ४६प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान्।प्रविवेश पुरीं रम्यां सुविभक्तमहापथम्॥ ४७प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः।शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम्॥ ४८सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम्।तलैः स्फाटिकसंपूर्णैः कार्तस्वरविभूषितैः॥ ४९वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः।तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम्॥ ५०काञ्चनानि विचित्राणि तोरणानि च रक्षसाम्।लङ्कामुद्द्योतयामासुः सर्वतः समलंकृताम्॥ ५१अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः।आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः॥ ५२स पाण्डुरोद्विद्धविमानमालिनींमहार्हजाम्बूनदजालतोरणाम्।यशस्विनां रावणबाहुपालितांक्षपाचरैर्भीमबलैः समावृताम्॥ ५३चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्तारागणैर्मध्यगतो विराजन्।ज्योत्स्नावितानेन वितत्य लोकमुत्तिष्ठते नैकसहस्ररश्मिः॥ ५४शङ्खप्रभं क्षीरमृणालवर्णमुद्गच्छमानं व्यवभासमानम्।ददर्श चन्द्रं स कपिप्रवीरःपोप्लूयमानं सरसीव हंसं॥ ५५इति श्रीरामायणे सुन्दरकाण्डे द्वितीयः सर्गः ॥ २
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved