११ सर्गः
विमानात्तु सुसंक्रम्य प्राकारं हरियूथपः।हनूमान्वेगवानासीद्यथा विद्युद्घनान्तरे॥ १संपरिक्रम्य हनुमान्रावणस्य निवेशनान्।अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः॥ २भूयिष्ठं लोडिता लङ्का रामस्य चरता प्रियम्।न हि पश्यामि वैदेहीं सीतां सर्वाङ्गशोभनाम्॥ ३पल्वलानि तटाकानि सरांसि सरितस्तथा।नद्योऽनूपवनान्ताश्च दुर्गाश्च धरणीधराः।लोडिता वसुधा सर्वा न च पश्यामि जानकीम्॥ ४इह संपातिना सीता रावणस्य निवेशने।आख्याता गृध्रराजेन न च पश्यामि तामहम्॥ ५किं नु सीताथ वैदेही मैथिली जनकात्मजा।उपतिष्ठेत विवशा रावणं दुष्टचारिणम्॥ ६क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः।बिभ्यतो रामबाणानामन्तरा पतिता भवेत्॥ ७अथ वा ह्रियमाणायाः पथि सिद्धनिषेविते।मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम्॥ ८रावणस्योरुवेगेन भुजाभ्यां पीडितेन च।तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया॥ ९उपर्युपरि वा नूनं सागरं क्रमतस्तदा।विवेष्टमाना पतिता समुद्रे जनकात्मजा॥ १०आहो क्षुद्रेण चानेन रक्षन्ती शीलमात्मनः।अबन्धुर्भक्षिता सीता रावणेन तपस्विनी॥ ११अथ वा राक्षसेन्द्रस्य पत्नीभिरसितेक्षणा।अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति॥ १२संपूर्णचन्द्रप्रतिमं पद्मपत्रनिभेक्षणम्।रामस्य ध्यायती वक्त्रं पञ्चत्वं कृपणा गता॥ १३हा राम लक्ष्मणेत्येव हायोध्येति च मैथिली।विलप्य बहु वैदेही न्यस्तदेहा भविष्यति॥ १४अथ वा निहिता मन्ये रावणस्य निवेशने।नूनं लालप्यते मन्दं पञ्जरस्थेव शारिका॥ १५जनकस्य कुले जाता रामपत्नी सुमध्यमा।कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत्॥ १६विनष्टा वा प्रनष्टा वा मृता वा जनकात्मजा।रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम्॥ १७निवेद्यमाने दोषः स्याद्दोषः स्यादनिवेदने।कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे॥ १८अस्मिन्नेवंगते कर्ये प्राप्तकालं क्षमं च किम्।भवेदिति मतिं भूयो हनुमान्प्रविचारयन्॥ १९यदि सीतामदृष्ट्वाहं वानरेन्द्रपुरीमितः।गमिष्यामि ततः को मे पुरुषार्थो भविष्यति॥ २०ममेदं लङ्घनं व्यर्थं सागरस्य भविष्यति।प्रवेशश्चिव लङ्काया राक्षसानां च दर्शनम्॥ २१किं वा वक्ष्यति सुग्रीवो हरयो व समागताः।किष्किन्धां समनुप्राप्तौ तौ वा दशरथात्मजौ॥ २२गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम्।न दृष्टेति मया सीता ततस्त्यक्ष्यन्ति जीवितम्॥ २३परुषं दारुणं क्रूरं तीक्ष्णमिन्द्रियतापनम्।सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति॥ २४तं तु कृच्छ्रगतं दृष्ट्वा पञ्चत्वगतमानसं।भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः॥ २५विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति।भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति॥ २६पुत्रान्मृतान्समीक्ष्याथ न भविष्यन्ति मातरः।कौसल्या च सुमित्रा च कैकेयी च न संशयः॥ २७कृतज्ञः सत्यसंधश्च सुग्रीवः प्लवगाधिपः।रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यन्ति जीवितम्॥ २८दुर्मना व्यथिता दीना निरानन्दा तपस्विनी।पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम्॥ २९वालिजेन तु दुःखेन पीडिता शोककर्शिता।पञ्चत्वगमने राज्ञस्तारापि न भविष्यति॥ ३०मातापित्रोर्विनाशेन सुग्रीव व्यसनेन च।कुमारोऽप्यङ्गदः कस्माद्धारयिष्यति जीवितम्॥ ३१भर्तृजेन तु शोकेन अभिभूता वनौकसः।शिरांस्यभिहनिष्यन्ति तलैर्मुष्टिभिरेव च॥ ३२सान्त्वेनानुप्रदानेन मानेन च यशस्विना।लालिताः कपिराजेन प्राणांस्त्यक्ष्यन्ति वानराः॥ ३३न वनेषु न शैलेषु न निरोधेषु वा पुनः।क्रीडामनुभविष्यन्ति समेत्य कपिकुञ्जराः॥ ३४सपुत्रदाराः सामात्या भर्तृव्यसनपीडिताः।शैलाग्रेभ्यः पतिष्यन्ति समेत्य विषमेषु च॥ ३५विषमुद्बन्धनं वापि प्रवेशं ज्वलनस्य वा।उपवासमथो शस्त्रं प्रचरिष्यन्ति वानराः॥ ३६घोरमारोदनं मन्ये गते मयि भविष्यति।इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम्॥ ३७सोऽहं नैव गमिष्यामि किष्किन्धां नगरीमितः।न हि शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना॥ ३८मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ।आशया तौ धरिष्येते वनराश्च मनस्विनः॥ ३९हस्तादानो मुखादानो नियतो वृक्षमूलिकः।वानप्रस्थो भविष्यामि अदृष्ट्वा जनकात्मजाम्॥ ४०सागरानूपजे देशे बहुमूलफलोदके।चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम्॥ ४१उपविष्टस्य वा सम्यग्लिङ्गिनं साधयिष्यतः।शरीरं भक्षयिष्यन्ति वायसाः श्वापदानि च॥ ४२इदमप्यृषिभिर्दृष्टं निर्याणमिति मे मतिः।सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम्॥ ४३सुजातमूला सुभगा कीर्तिमालायशस्विनी।प्रभग्ना चिररात्रीयं मम सीतामपश्यतः॥ ४४तापसो वा भविष्यामि नियतो वृक्षमूलिकः।नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम्॥ ४५यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम्।अङ्गदः सहितैः सर्वैर्वानरैर्न भविष्यति॥ ४६विनाशे बहवो दोषा जीवन्प्राप्नोति भद्रकम्।तस्मात्प्राणान्धरिष्यामि ध्रुवो जीवति संगमः॥ ४७एवं बहुविधं दुःखं मनसा धारयन्मुहुः।नाध्यगच्छत्तदा पारं शोकस्य कपिकुञ्जरः॥ ४८रावणं वा वधिष्यामि दशग्रीवं महाबलम्।काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति॥ ४९अथ वैनं समुत्क्षिप्य उपर्युपरि सागरम्।रामायोपहरिष्यामि पशुं पशुपतेरिव॥ ५०इति चिन्ता समापन्नः सीतामनधिगम्य ताम्।ध्यानशोका परीतात्मा चिन्तयामास वानरः॥ ५१यावत्सीतां न पश्यामि रामपत्नीं यशस्विनीम्।तावदेतां पुरीं लङ्कां विचिनोमि पुनः पुनः॥ ५२संपाति वचनाच्चापि रामं यद्यानयाम्यहम्।अपश्यन्राघवो भार्यां निर्दहेत्सर्ववानरान्॥ ५३इहैव नियताहारो वत्स्यामि नियतेन्द्रियः।न मत्कृते विनश्येयुः सर्वे ते नरवानराः॥ ५४अशोकवनिका चापि महतीयं महाद्रुमा।इमामभिगमिष्यामि न हीयं विचिता मया॥ ५५वसून्रुद्रांस्तथादित्यानश्विनौ मरुतोऽपि च।नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः॥ ५६जित्वा तु राक्षसान्देवीमिक्ष्वाकुकुलनन्दिनीम्।संप्रदास्यामि रामाया यथासिद्धिं तपस्विने॥ ५७स मुहूर्तमिव ध्यात्वा चिन्ताविग्रथितेन्द्रियः।उदतिष्ठन्महाबाहुर्हनूमान्मारुतात्मजः॥ ५८नमोऽस्तु रामाय सलक्ष्मणायदेव्यै च तस्यै जनकात्मजायै।नमोऽस्तु रुद्रेन्द्रयमानिलेभ्योनमोऽस्तु चन्द्रार्कमरुद्गणेभ्यः॥ ५९स तेभ्यस्तु नमस्कृत्वा सुग्रीवाय च मारुतिः।दिशः सर्वाः समालोक्य अशोकवनिकां प्रति॥ ६०स गत्वा मनसा पूर्वमशोकवनिकां शुभाम्।उत्तरं चिन्तयामास वानरो मारुतात्मजः॥ ६१ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला।अशोकवनिका चिन्त्या सर्वसंस्कारसंस्कृता॥ ६२रक्षिणश्चात्र विहिता नूनं रक्षन्ति पादपान्।भगवानपि सर्वात्मा नातिक्षोभं प्रवायति॥ ६३संक्षिप्तोऽयं मयात्मा च रामार्थे रावणस्य च।सिद्धिं मे संविधास्यन्ति देवाः सर्षिगणास्त्विह॥ ६४ब्रह्मा स्वयम्भूर्भगवान्देवाश्चैव दिशन्तु मे।सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रधृत्॥ ६५वरुणः पाशहस्तश्च सोमादित्यै तथैव च।अश्विनौ च महात्मानौ मरुतः सर्व एव च॥ ६६सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः।दास्यन्ति मम ये चान्ये अदृष्टाः पथि गोचराः॥ ६७तदुन्नसं पाण्डुरदन्तमव्रणंशुचिस्मितं पद्मपलाशलोचनम्।द्रक्ष्ये तदार्यावदनं कदा न्वहंप्रसन्नताराधिपतुल्यदर्शनम्॥ ६८क्षुद्रेण पापेन नृशंसकर्मणासुदारुणालांकृतवेषधारिणा।बलाभिभूता अबला तपस्विनीकथं नु मे दृष्टपथेऽद्य सा भवेत्॥ ६९इति श्रीरामायणे सुन्दरकाण्डे एकादशः सर्गः ॥ ११
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved