॥ ॐ श्री गणपतये नमः ॥

१३ सर्गः
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम्।अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत॥ १सन्तान कलताभिश्च पादपैरुपशोभिताम्।दिव्यगन्धरसोपेतां सर्वतः समलंकृताम्॥ २तां स नन्दनसंकाशां मृगपक्षिभिरावृताम्।हर्म्यप्रासादसंबाधां कोकिलाकुलनिःस्वनाम्॥ ३काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम्।बह्वासनकुथोपेतां बहुभूमिगृहायुताम्॥ ४सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः।पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम्॥ ५प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत।निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत्।विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः॥ ६आमूलपुष्पनिचितैरशोकैः शोकनाशनैः।पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम्॥ ७कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः।स देशः प्रभया तेषां प्रदीप्त इव सर्वतः॥ ८पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा।विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः॥ ९शातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः।नीलाञ्जननिभाः केचित्तत्राशोकाः सहस्रशः॥ १०नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा।अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम्॥ ११द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम्।पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा॥ १२सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः।नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः॥ १३अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम्।शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम्॥ १४अशोकवनिकायां तु तस्यां वानरपुंगवः।स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम्॥ १५मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम्।प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम्॥ १६मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया।विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम्॥ १७ततो मलिनसंवीतां राक्षसीभिः समावृताम्।उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः।ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम्॥ १८मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम्।पिनद्धां धूमजालेन शिखामिव विभावसोः॥ १९पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा।सपङ्कामनलंकारां विपद्मामिव पद्मिनीम्॥ २०व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम्।ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम्॥ २१अश्रुपूर्णमुखीं दीनां कृशामननशेन च।शोकध्यानपरां दीनां नित्यं दुःखपरायणाम्॥ २२प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम्।स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव॥ २३नीलनागाभया वेण्या जघनं गतयैकया।सुखार्हां दुःखसंतप्तां व्यसनानामकोदिवाम्॥ २४तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम्।तर्कयामास सीतेति कारणैरुपपादिभिः॥ २५ह्रियमाणा तदा तेन रक्षसा कामरूपिणा।यथारूपा हि दृष्टा वै तथारूपेयमङ्गना॥ २६पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम्।कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः॥ २७तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम्।सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा॥ २८इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभामिव।भूमौ सुतनुमासीनां नियतामिव तापसीम्॥ २९निःश्वासबहुलां भीरुं भुजगेन्द्रवधूमिव।शोकजालेन महता विततेन न राजतीम्॥ ३०संसक्तां धूमजालेन शिखामिव विभावसोः।तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव॥ ३१विहतामिव च श्रद्धामाशां प्रतिहतामिव।सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव॥ ३२अभूतेनापवादेन कीर्तिं निपतितामिव।रामोपरोधव्यथितां रक्षोहरणकर्शिताम्॥ ३३अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः।बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा।वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः॥ ३४मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम्।प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम्॥ ३५तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु।आम्नायानामयोगेन विद्यां प्रशिथिलामिव॥ ३६दुःखेन बुबुधे सीतां हनुमाननलंकृताम्।संस्कारेण यथाहीनां वाचमर्थान्तरं गताम्॥ ३७तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम्।तर्कयामास सीतेति कारणैरुपपादयन्॥ ३८वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत्।तान्याभरणजालानि गात्रशोभीन्यलक्षयत्॥ ३९सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ।मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च॥ ४०श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च।तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत्॥ ४१तत्र यान्यवहीनानि तान्यहं नोपलक्षये।यान्यस्या नावहीनानि तानीमानि न संशयः॥ ४२पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम्।उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः॥ ४३भूषणानि च मुख्यानि दृष्टानि धरणीतले।अनयैवापविद्धानि स्वनवन्ति महान्ति च॥ ४४इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम्।तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत्॥ ४५इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया।प्रनष्टापि सती यस्य मनसो न प्रणश्यति॥ ४६इयं सा यत्कृते रामश्चतुर्भिः परितप्यते।कारुण्येनानृशंस्येन शोकेन मदनेन च॥ ४७स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः।पत्नी नष्टेति शोकेन प्रियेति मदनेन च॥ ४८अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम्।रामस्य च यथारूपं तस्येयमसितेक्षणा॥ ४९अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम्।तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति॥ ५०दुष्करं कुरुते रामो य इमां मत्तकाशिनीम्।सीतां विना महाबाहुर्मुहूर्तमपि जीवति॥ ५१एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः।जगाम मनसा रामं प्रशशंस च तं प्रभुम्॥ ५२इति श्रीरामायणे सुन्दरकाण्डे त्रयोदशः सर्गः ॥ १३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved