॥ ॐ श्री गणपतये नमः ॥

१४ सर्गः
प्रशस्य तु प्रशस्तव्यां सीतां तां हरिपुंगवः।गुणाभिरामं रामं च पुनश्चिन्तापरोऽभवत्॥ १स मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः।सीतामाश्रित्य तेजस्वी हनुमान्विललाप ह॥ २मान्या गुरुविनीतस्य लक्ष्मणस्य गुरुप्रिया।यदि सीतापि दुःखार्ता कालो हि दुरतिक्रमः॥ ३रामस्य व्यवसायज्ञा लक्ष्मणस्य च धीमतः।नात्यर्थं क्षुभ्यते देवी गङ्गेव जलदागमे॥ ४तुल्यशीलवयोवृत्तां तुल्याभिजनलक्षणाम्।राघवोऽर्हति वैदेहीं तं चेयमसितेक्षणा॥ ५तां दृष्ट्वा नवहेमाभां लोककान्तामिव श्रियम्।जगाम मनसा रामं वचनं चेदमब्रवीत्॥ ६अस्या हेतोर्विशालाक्ष्या हतो वाली महाबलः।रावणप्रतिमो वीर्ये कबन्धश्च निपातितः॥ ७विराधश्च हतः संख्ये राक्षसो भीमविक्रमः।वने रामेण विक्रम्य महेन्द्रेणेव शम्बरः॥ ८चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम्।निहतानि जनस्थाने शरैरग्निशिखोपमैः॥ ९खरश्च निहतः संख्ये त्रिशिराश्च निपातितः।दूषणश्च महातेजा रामेण विदितात्मना॥ १०ऐश्वर्यं वानराणां च दुर्लभं वालिपालितम्।अस्या निमित्ते सुग्रीवः प्राप्तवाँल्लोकसत्कृतम्॥ ११सागरश्च मया क्रान्तः श्रीमान्नदनदीपतिः।अस्या हेतोर्विशालाक्ष्याः पुरी चेयं निरीक्षिता॥ १२यदि रामः समुद्रान्तां मेदिनीं परिवर्तयेत्।अस्याः कृते जगच्चापि युक्तमित्येव मे मतिः॥ १३राज्यं वा त्रिषु लोकेषु सीता वा जनकात्मजा।त्रैलोक्यराज्यं सकलं सीताया नाप्नुयात्कलाम्॥ १४इयं सा धर्मशीलस्य मैथिलस्य महात्मनः।सुता जनकराजस्य सीता भर्तृदृढव्रता॥ १५उत्थिता मेदिनीं भित्त्वा क्षेत्रे हलमुखक्षते।पद्मरेणुनिभैः कीर्णा शुभैः केदारपांसुभिः॥ १६विक्रान्तस्यार्यशीलस्य संयुगेष्वनिवर्तिनः।स्नुषा दशरथस्यैषा ज्येष्ठा राज्ञो यशस्विनी॥ १७धर्मज्ञस्य कृतज्ञस्य रामस्य विदितात्मनः।इयं सा दयिता भार्या राक्षसी वशमागता॥ १८सर्वान्भोगान्परित्यज्य भर्तृस्नेहबलात्कृता।अचिन्तयित्वा दुःखानि प्रविष्टा निर्जनं वनम्॥ १९संतुष्टा फलमूलेन भर्तृशुश्रूषणे रता।या परां भजते प्रीतिं वनेऽपि भवने यथा॥ २०सेयं कनकवर्णाङ्गी नित्यं सुस्मितभाषिणी।सहते यातनामेतामनर्थानामभागिनी॥ २१इमां तु शीलसंपन्नां द्रष्टुमिच्छति राघवः।रावणेन प्रमथितां प्रपामिव पिपासितः॥ २२अस्या नूनं पुनर्लाभाद्राघवः प्रीतिमेष्यति।राजा राज्यपरिभ्रष्टः पुनः प्राप्येव मेदिनीम्॥ २३कामभोगैः परित्यक्ता हीना बन्धुजनेन च।धारयत्यात्मनो देहं तत्समागमकाङ्क्षिणी॥ २४नैषा पश्यति राक्षस्यो नेमान्पुष्पफलद्रुमान्।एकस्थहृदया नूनं राममेवानुपश्यति॥ २५भर्ता नाम परं नार्या भूषणं भूषणादपि।एषा हि रहिता तेन शोभनार्हा न शोभते॥ २६दुष्करं कुरुते रामो हीनो यदनया प्रभुः।धारयत्यात्मनो देहं न दुःखेनावसीदति॥ २७इमामसितकेशान्तां शतपत्रनिभेक्षणाम्।सुखार्हां दुःखितां दृष्ट्वा ममापि व्यथितं मनः॥ २८क्षितिक्षमा पुष्करसंनिभाक्षीया रक्षिता राघवलक्ष्मणाभ्याम्।सा राक्षसीभिर्विकृतेक्षणाभिःसंरक्ष्यते संप्रति वृक्षमूले॥ २९हिमहतनलिनीव नष्टशोभाव्यसनपरम्परया निपीड्यमाना।सहचररहितेव चक्रवाकीजनकसुता कृपणां दशां प्रपन्ना॥ ३०अस्या हि पुष्पावनताग्रशाखाःशोकं दृढं वै जनयत्यशोकाः।हिमव्यपायेन च मन्दरश्मिरभ्युत्थितो नैकसहस्ररश्मिः॥ ३१इत्येवमर्थं कपिरन्ववेक्ष्यसीतेयमित्येव निविष्टबुद्धिः।संश्रित्य तस्मिन्निषसाद वृक्षेबली हरीणामृषभस्तरस्वी॥ ३२इति श्रीरामायणे सुन्दरकाण्डे चतुर्दशः सर्गः ॥ १४
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved