१८ सर्गः
स तां परिवृतां दीनां निरानन्दां तपस्विनीम्।साकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः॥ १मां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम्।अदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि॥ २कामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये।सर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे॥ ३नेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः।व्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्॥ ४स्वधर्मे रक्षसां भीरु सर्वथैष न संशयः।गमनं वा परस्त्रीणां हरणं संप्रमथ्य वा॥ ५एवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि।कामं कामः शरीरे मे यथाकामं प्रवर्तताम्॥ ६देवि नेह भयं कार्यं मयि विश्वसिहि प्रिये।प्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा॥ ७एकवेणी धराशय्या ध्यानं मलिनमम्बरम्।अस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते॥ ८विचित्राणि च माल्यानि चन्दनान्यगरूणि च।विविधानि च वासांसि दिव्यान्याभरणानि च॥ ९महार्हाणि च पानानि यानानि शयनानि च।गीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि॥ १०स्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्।मां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे॥ ११इदं ते चारुसंजातं यौवनं व्यतिवर्तते।यदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव॥ १२त्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत्।न हि रूपोपमा त्वन्या तवास्ति शुभदर्शने॥ १३त्वां समासाद्य वैदेहि रूपयौवनशालिनीम्।कः पुमानतिवर्तेत साक्षादपि पितामहः॥ १४यद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने।तस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते॥ १५भव मैथिलि भार्या मे मोहमेनं विसर्जय।बह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव॥ १६लोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे।तानि ते भीरु सर्वाणि राज्यं चैतदहं च ते॥ १७विजित्य पृथिवीं सर्वां नानानगरमालिनीम्।जनकाय प्रदास्यामि तव हेतोर्विलासिनि॥ १८नेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्।पश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे॥ १९असकृत्संयुगे भग्ना मया विमृदितध्वजाः।अशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः॥ २०इच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्।सप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च।साधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा॥ २१प्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने।भुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च।यथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च॥ २२ललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च।मत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव॥ २३ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे।किं करिष्यसि रामेण सुभगे चीरवाससा॥ २४निक्षिप्तविजयो रामो गतश्रीर्वनगोचरः।व्रती स्थण्डिलशायी च शङ्के जीवति वा न वा॥ २५न हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते।पुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्॥ २६न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः।हिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव॥ २७चारुस्मिते चारुदति चारुनेत्रे विलासिनि।मनो हरसि मे भीरु सुपर्णः पन्नगं यथा॥ २८क्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम्।तां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्॥ २९अन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः।यावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि॥ ३०मम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः।तास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा॥ ३१यानि वैश्रवणे सुभ्रु रत्नानि च धनानि च।तानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्॥ ३२न रामस्तपसा देवि न बलेन न विक्रमैः।न धनेन मया तुल्यस्तेजसा यशसापि वा॥ ३३पिब विहर रमस्व भुङ्क्ष्व भोगान्धननिचयं प्रदिशामि मेदिनीं च।मयि लल ललने यथासुखं त्वंत्वयि च समेत्य ललन्तु बान्धवास्ते॥ ३४कुसुमिततरुजालसंततानिभ्रमरयुतानि समुद्रतीरजानि।कनकविमलहारभूषिताङ्गीविहर मया सह भीरु काननानि॥ ३५इति श्रीरामायणे सुन्दरकाण्डे अष्टादशः सर्गः ॥ १८
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved