॥ ॐ श्री गणपतये नमः ॥

२० सर्गः
सीताया वचनं श्रुत्वा परुषं राक्षसाधिपः।प्रत्युवाच ततः सीतां विप्रियं प्रियदर्शनाम्॥ १यथा यथा सान्त्वयिता वश्यः स्त्रीणां तथा तथा।यथा यथा प्रियं वक्ता परिभूतस्तथा तथा॥ २संनियच्छति मे क्रोधं त्वयि कामः समुत्थितः।द्रवतो मार्गमासाद्य हयानिव सुसारथिः॥ ३वामः कामो मनुष्याणां यस्मिन्किल निबध्यते।जने तस्मिंस्त्वनुक्रोशः स्नेहश्च किल जायते॥ ४एतस्मात्कारणान्न तां घतयामि वरानने।वधार्हामवमानार्हां मिथ्याप्रव्रजिते रताम्॥ ५परुषाणि हि वाक्यानि यानि यानि ब्रवीषि माम्।तेषु तेषु वधो युक्तस्तव मैथिलि दारुणः॥ ६एवमुक्त्वा तु वैदेहीं रावणो राक्षसाधिपः।क्रोधसंरम्भसंयुक्तः सीतामुत्तरमब्रवीत्॥ ७द्वौ मासौ रक्षितव्यौ मे योऽवधिस्ते मया कृतः।ततः शयनमारोह मम त्वं वरवर्णिनि॥ ८द्वाभ्यामूर्ध्वं तु मासाभ्यां भर्तारं मामनिच्छतीम्।मम त्वां प्रातराशार्थमारभन्ते महानसे॥ ९तां तर्ज्यमानां संप्रेक्ष्य राक्षसेन्द्रेण जानकीम्।देवगन्धर्वकन्यास्ता विषेदुर्विपुलेक्षणाः॥ १०ओष्ठप्रकारैरपरा नेत्रवक्त्रैस्तथापराः।सीतामाश्वासयामासुस्तर्जितां तेन रक्षसा॥ ११ताभिराश्वासिता सीता रावणं राक्षसाधिपम्।उवाचात्महितं वाक्यं वृत्तशौण्डीर्यगर्वितम्॥ १२नूनं न ते जनः कश्चिदसिन्निःश्रेयसे स्थितः।निवारयति यो न त्वां कर्मणोऽस्माद्विगर्हितात्॥ १३मां हि धर्मात्मनः पत्नीं शचीमिव शचीपतेः।त्वदन्यस्त्रिषु लोकेषु प्रार्थयेन्मनसापि कः॥ १४राक्षसाधम रामस्य भार्याममिततेजसः।उक्तवानसि यत्पापं क्व गतस्तस्य मोक्ष्यसे॥ १५यथा दृप्तश्च मातङ्गः शशश्च सहितौ वने।तथा द्विरदवद्रामस्त्वं नीच शशवत्स्मृतः॥ १६स त्वमिक्ष्वाकुनाथं वै क्षिपन्निह न लज्जसे।चक्षुषो विषयं तस्य न तावदुपगच्छसि॥ १७इमे ते नयने क्रूरे विरूपे कृष्णपिङ्गले।क्षितौ न पतिते कस्मान्मामनार्यनिरीक्षितः॥ १८तस्य धर्मात्मनः पत्नीं स्नुषां दशरथस्य च।कथं व्याहरतो मां ते न जिह्वा पाप शीर्यते॥ १९असंदेशात्तु रामस्य तपसश्चानुपालनात्।न त्वां कुर्मि दशग्रीव भस्म भस्मार्हतेजसा॥ २०नापहर्तुमहं शक्या तस्य रामस्य धीमतः।विधिस्तव वधार्थाय विहितो नात्र संशयः॥ २१शूरेण धनदभ्राता बलैः समुदितेन च।अपोह्य रामं कस्माद्धि दारचौर्यं त्वया कृतम्॥ २२सीताया वचनं श्रुत्वा रावणो राक्षसाधिपः।विवृत्य नयने क्रूरे जानकीमन्ववैक्षत॥ २३नीलजीमूतसंकाशो महाभुजशिरोधरः।सिंहसत्त्वगतिः श्रीमान्दीप्तजिह्वोग्रलोचनः॥ २४चलाग्रमकुटः प्रांशुश्चित्रमाल्यानुलेपनः।रक्तमाल्याम्बरधरस्तप्ताङ्गदविभूषणः॥ २५श्रोणीसूत्रेण महता मेककेन सुसंवृतः।अमृतोत्पादनद्धेन भुजंगेनेव मन्दरः॥ २६तरुणादित्यवर्णाभ्यां कुण्डलाभ्यां विभूषितः।रक्तपल्लवपुष्पाभ्यामशोकाभ्यामिवाचलः॥ २७अवेक्षमाणो वैदेहीं कोपसंरक्तलोचनः।उवाच रावणः सीतां भुजंग इव निःश्वसन्॥ २८अनयेनाभिसंपन्नमर्थहीनमनुव्रते।नाशयाम्यहमद्य त्वां सूर्यः संध्यामिवौजसा॥ २९इत्युक्त्वा मैथिलीं राजा रावणः शत्रुरावणः।संदिदेश ततः सर्वा राक्षसीर्घोरदर्शनाः॥ ३०एकाक्षीमेककर्णां च कर्णप्रावरणां तथा।गोकर्णीं हस्तिकर्णीं च लम्बकर्णीमकर्णिकाम्॥ ३१हस्तिपद्य श्वपद्यौ च गोपदीं पादचूलिकाम्।एकाक्षीमेकपादीं च पृथुपादीमपादिकाम्॥ ३२अतिमात्रशिरोग्रीवामतिमात्रकुचोदरीम्।अतिमात्रास्यनेत्रां च दीर्घजिह्वामजिह्विकाम्।अनासिकां सिंहमुखीं गोमुखीं सूकरीमुखीम्॥ ३३यथा मद्वशगा सीता क्षिप्रं भवति जानकी।तथा कुरुत राक्षस्यः सर्वाः क्षिप्रं समेत्य च॥ ३४प्रतिलोमानुलोमैश्च सामदानादिभेदनैः।आवर्तयत वैदेहीं दण्डस्योद्यमनेन च॥ ३५इति प्रतिसमादिश्य राक्षसेन्द्रः पुनः पुनः।काममन्युपरीतात्मा जानकीं पर्यतर्जयत्॥ ३६उपगम्य ततः क्षिप्रं राक्षसी धान्यमालिनी।परिष्वज्य दशग्रीवमिदं वचनमब्रवीत्॥ ३७मया क्रीड महाराजसीतया किं तवानया।अकामां कामयानस्य शरीरमुपतप्यते।इच्छन्तीं कामयानस्य प्रीतिर्भवति शोभना॥ ३८एवमुक्तस्तु राक्षस्या समुत्क्षिप्तस्ततो बली।ज्वलद्भास्करवर्णाभं प्रविवेश निवेशनम्॥ ३९देवगन्धर्वकन्याश्च नागकन्याश्च तास्ततः।परिवार्य दशग्रीवं विविशुस्तद्गृहोत्तमम्॥ ४०स मैथिलीं धर्मपरामवस्थितांप्रवेपमानां परिभर्त्स्य रावणः।विहाय सीतां मदनेन मोहितःस्वमेव वेश्म प्रविवेश भास्वरम्॥ ४१इति श्रीरामायणे सुन्दरकाण्डे विंशतितमः सर्गः ॥ २०
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved