॥ ॐ श्री गणपतये नमः ॥

२२ सर्गः
ततः सीतामुपागम्य राक्षस्यो विकृताननाः।परुषं परुषा नार्य ऊचुस्ता वाक्यमप्रियम्॥ १किं त्वमन्तःपुरे सीते सर्वभूतमनोहरे।महार्हशयनोपेते न वासमनुमन्यसे॥ २मानुषी मानुषस्यैव भार्यात्वं बहु मन्यसे।प्रत्याहर मनो रामान्न त्वं जातु भविष्यसि॥ ३मानुषी मानुषं तं तु राममिच्छसि शोभने।राज्याद्भ्रष्टमसिद्धार्थं विक्लवं तमनिन्दिते॥ ४राक्षसीनां वचः श्रुत्वा सीता पद्मनिभेक्षणा।नेत्राभ्यामश्रुपूर्णाभ्यामिदं वचनमब्रवीत्॥ ५यदिदं लोकविद्विष्टमुदाहरथ संगताः।नैतन्मनसि वाक्यं मे किल्बिषं प्रतितिष्ठति॥ ६न मानुषी राक्षसस्य भार्या भवितुमर्हति।कामं खादत मां सर्वा न करिष्यामि वो वचः।दीनो वा राज्यहीनो वा यो मे भर्ता स मे गुरुः॥ ७सीताया वचनं श्रुत्वा राक्षस्यः क्रोधमूर्छिताः।भर्त्सयन्ति स्म परुषैर्वाक्यै रावणचोदिताः॥ ८अवलीनः स निर्वाक्यो हनुमाञ्शिंशपाद्रुमे।सीतां संतर्जयन्तीस्ता राक्षसीरशृणोत्कपिः॥ ९तामभिक्रम्य संरब्धा वेपमानां समन्ततः।भृशं संलिलिहुर्दीप्तान्प्रलम्बदशनच्छदान्॥ १०ऊचुश्च परमक्रुद्धाः प्रगृह्याशु परश्वधान्।नेयमर्हति भर्तारं रावणं राक्षसाधिपम्॥ ११सा भर्त्स्यमाना भीमाभी राक्षसीभिर्वरानना।सा बाष्पमपमार्जन्ती शिंशपां तामुपागमत्॥ १२ततस्तां शिंशपां सीता राक्षसीभिः समावृता।अभिगम्य विशालाक्षी तस्थौ शोकपरिप्लुता॥ १३तां कृशां दीनवदनां मलिनाम्बरधारिणीम्।भर्त्सयां चक्रिरे भीमा राक्षस्यस्ताः समन्ततः॥ १४ततस्तां विनता नाम राक्षसी भीमदर्शना।अब्रवीत्कुपिताकारा कराला निर्णतोदरी॥ १५सीते पर्याप्तमेतावद्भर्तृस्नेहो निदर्शितः।सर्वत्रातिकृतं भद्रे व्यसनायोपकल्पते॥ १६परितुष्टास्मि भद्रं ते मानुषस्ते कृतो विधिः।ममापि तु वचः पथ्यं ब्रुवन्त्याः कुरु मैथिलि॥ १७रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्।विक्रान्तं रूपवन्तं च सुरेशमिव वासवम्॥ १८दक्षिणं त्यागशीलं च सर्वस्य प्रियवादिनम्।मानुषं कृपणं रामं त्यक्त्वा रावणमाश्रय॥ १९दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता।अद्य प्रभृति सर्वेषां लोकानामीश्वरी भव।अग्नेः स्वाहा यथा देवी शचीवेन्द्रस्य शोभने॥ २०किं ते रामेण वैदेहि कृपणेन गतायुषा॥ २१एतदुक्तं च मे वाक्यं यदि त्वं न करिष्यसि।अस्मिन्मुहूर्ते सर्वास्त्वां भक्षयिष्यामहे वयम्॥ २२अन्या तु विकटा नाम लम्बमानपयोधरा।अब्रवीत्कुपिता सीतां मुष्टिमुद्यम्य गर्जती॥ २३बहून्यप्रतिरूपाणि वचनानि सुदुर्मते।अनुक्रोशान्मृदुत्वाच्च सोढानि तव मैथिलि।न च नः कुरुषे वाक्यं हितं कालपुरस्कृतम्॥ २४आनीतासि समुद्रस्य पारमन्यैर्दुरासदम्।रावणान्तःपुरं घोरं प्रविष्टा चासि मैथिलि॥ २५रावणस्य गृहे रुधा अस्माभिस्तु सुरक्षिता।न त्वां शक्तः परित्रातुमपि साक्षात्पुरंदरः॥ २६कुरुष्व हितवादिन्या वचनं मम मैथिलि।अलमश्रुप्रपातेन त्यज शोकमनर्थकम्॥ २७भज प्रीतिं प्रहर्षं च त्यजैतां नित्यदैन्यताम्।सीते राक्षसराजेन सह क्रीड यथासुखम्॥ २८जानासि हि यथा भीरु स्त्रीणां यौवनमध्रुवम्।यावन्न ते व्यतिक्रामेत्तावत्सुखमवाप्नुहि॥ २९उद्यानानि च रम्याणि पर्वतोपवनानि च।सह राक्षसराजेन चर त्वं मदिरेक्षणे॥ ३०स्त्रीसहस्राणि ते सप्त वशे स्थास्यन्ति सुन्दरि।रावणं भज भर्तारं भर्तारं सर्वरक्षसाम्॥ ३१उत्पाट्य वा ते हृदयं भक्षयिष्यामि मैथिलि।यदि मे व्याहृतं वाक्यं न यथावत्करिष्यसि॥ ३२ततश्चण्डोदरी नाम राक्षसी क्रूरदर्शना।भ्रामयन्ती महच्छूलमिदं वचनमब्रवीत्॥ ३३इमां हरिणलोकाक्षीं त्रासोत्कम्पपयोधराम्।रावणेन हृतां दृष्ट्वा दौर्हृदो मे महानभूत्॥ ३४यकृत्प्लीहमथोत्पीडं हृदयं च सबन्धनम्।अन्त्राण्यपि तथा शीर्षं खादेयमिति मे मतिः॥ ३५ततस्तु प्रघसा नाम राक्षसी वाक्यमब्रवीत्।कण्ठमस्या नृशंसायाः पीडयामः किमास्यते॥ ३६निवेद्यतां ततो राज्ञे मानुषी सा मृतेति ह।नात्र कश्चन संदेहः खादतेति स वक्ष्यति॥ ३७ततस्त्वजामुखी नाम राक्षसी वाक्यमब्रवीत्।विशस्येमां ततः सर्वान्समान्कुरुत पीलुकान्॥ ३८विभजाम ततः सर्वा विवादो मे न रोचते।पेयमानीयतां क्षिप्रं माल्यं च विविधं बहु॥ ३९ततः शूर्पणखा नाम राक्षसी वाक्यमब्रवीत्।अजामुखा यदुक्तं हि तदेव मम रोचते॥ ४०सुरा चानीयतां क्षिप्रं सर्वशोकविनाशिनी।मानुषं मांसमासाद्य नृत्यामोऽथ निकुम्भिलाम्॥ ४१एवं संभर्त्स्यमाना सा सीता सुरसुतोपमा।राक्षसीभिः सुघोराभिर्धैर्यमुत्सृज्य रोदिति॥ ४२इति श्रीरामायणे सुन्दरकाण्डे द्वाविंशतितमः सर्गः ॥ २२
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved