२३ सर्गः
तथा तासां वदन्तीनां परुषं दारुणं बहु।राक्षसीनामसौम्यानां रुरोद जनकात्मजा॥ १एवमुक्ता तु वैदेही राक्षसीभिर्मनस्विनी।उवाच परमत्रस्ता बाष्पगद्गदया गिरा॥ २न मानुषी राक्षसस्य भार्या भवितुमर्हति।कामं खादत मां सर्वा न करिष्यामि वो वचः॥ ३सा राक्षसी मध्यगता सीता सुरसुतोपमा।न शर्म लेभे दुःखार्ता रावणेन च तर्जिता॥ ४वेपते स्माधिकं सीता विशन्तीवाङ्गमात्मनः।वने यूथपरिभ्रष्टा मृगी कोकैरिवार्दिता॥ ५सा त्वशोकस्य विपुलां शाखामालम्ब्य पुष्पिताम्।चिन्तयामास शोकेन भर्तारं भग्नमानसा॥ ६सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः।चिन्तयन्ती न शोकस्य तदान्तमधिगच्छति॥ ७सा वेपमाना पतिता प्रवाते कदली यथा।राक्षसीनां भयत्रस्ता विवर्णवदनाभवत्॥ ८तस्या सा दीर्घविपुला वेपन्त्याः सीतया तदा।ददृशे कम्पिनी वेणी व्यालीव परिसर्पती॥ ९सा निःश्वसन्ती दुःखार्ता शोकोपहतचेतना।आर्ता व्यसृजदश्रूणि मैथिली विललाप ह॥ १०हा रामेति च दुःखार्ता पुनर्हा लक्ष्मणेति च।हा श्वश्रु मम कौसल्ये हा सुमित्रेति भाविनि॥ ११लोकप्रवादः सत्योऽयं पण्डितैः समुदाहृतः।अकाले दुर्लभो मृत्युः स्त्रिया वा पुरुषस्य वा॥ १२यत्राहमाभिः क्रूराभी राक्षसीभिरिहार्दिता।जीवामि हीना रामेण मुहूर्तमपि दुःखिता॥ १३एषाल्पपुण्या कृपणा विनशिष्याम्यनाथवत्।समुद्रमध्ये नौ पूर्णा वायुवेगैरिवाहता॥ १४भर्तारं तमपश्यन्ती राक्षसीवशमागता।सीदामि खलु शोकेन कूलं तोयहतं यथा॥ १५तं पद्मदलपत्राक्षं सिंहविक्रान्तगामिनम्।धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्॥ १६सर्वथा तेन हीनाया रामेण विदितात्मना।तीष्क्णं विषमिवास्वाद्य दुर्लभं मम जीवितम्॥ १७कीदृशं तु मया पापं पुरा देहान्तरे कृतम्।येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्॥ १८जीवितं त्यक्तुमिच्छामि शोकेन महता वृता।राक्षसीभिश्च रक्षन्त्या रामो नासाद्यते मया॥ १९धिगस्तु खलु मानुष्यं धिगस्तु परवश्यताम्।न शक्यं यत्परित्यक्तुमात्मच्छन्देन जीवितम्॥ २०इति श्रीरामायणे सुन्दरकाण्डे त्रयोविंशतितमः सर्गः ॥ २३
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved