२६ सर्गः
सा राक्षसेन्द्रस्य वचो निशम्यतद्रावणस्याप्रियमप्रियार्ता।सीता वितत्रास यथा वनान्तेसिंहाभिपन्ना गजराजकन्या॥ १सा राक्षसी मध्यगता च भीरुर्वाग्भिर्भृशं रावणतर्जिता च।कान्तारमध्ये विजने विसृष्टाबालेव कन्या विललाप सीता॥ २सत्यं बतेदं प्रवदन्ति लोकेनाकालमृत्युर्भवतीति सन्तः।यत्राहमेवं परिभर्त्स्यमानाजीवामि किंचित्क्षणमप्यपुण्या॥ ३सुखाद्विहीनं बहुदुःखपूर्णमिदं तु नूनं हृदयं स्थिरं मे।विदीर्यते यन्न सहस्रधाद्यवज्राहतं शृङ्गमिवाचलस्य॥ ४नैवास्ति नूनं मम दोषमत्रवध्याहमस्याप्रियदर्शनस्य।भावं न चास्याहमनुप्रदातुमलं द्विजो मन्त्रमिवाद्विजाय॥ ५नूनं ममाङ्गान्यचिरादनार्यःशस्त्रैः शितैश्छेत्स्यति राक्षसेन्द्रः।तस्मिन्ननागच्छति लोकनाथेगर्भस्थजन्तोरिव शल्यकृन्तः॥ ६दुःखं बतेदं मम दुःखितायामासौ चिरायाभिगमिष्यतो द्वौ।बद्धस्य वध्यस्य यथा निशान्तेराजापराधादिव तस्करस्य॥ ७हा राम हा लक्ष्मण हा सुमित्रेहा राम मातः सह मे जनन्या।एषा विपद्याम्यहमल्पभाग्यामहार्णवे नौरिव मूढ वाता॥ ८तरस्विनौ धारयता मृगस्यसत्त्वेन रूपं मनुजेन्द्रपुत्रौ।नूनं विशस्तौ मम कारणात्तौसिंहर्षभौ द्वाविव वैद्युतेन॥ ९नूनं स कालो मृगरूपधारीमामल्पभाग्यां लुलुभे तदानीम्।यत्रार्यपुत्रं विससर्ज मूढारामानुजं लक्ष्मणपूर्वकं च॥ १०हा राम सत्यव्रत दीर्घवाहोहा पूर्णचन्द्रप्रतिमानवक्त्र।हा जीवलोकस्य हितः प्रियश्चवध्यां न मां वेत्सि हि राक्षसानाम्॥ ११अनन्यदेवत्वमियं क्षमा चभूमौ च शय्या नियमश्च धर्मे।पतिव्रतात्वं विफलं ममेदंकृतं कृतघ्नेष्विव मानुषाणाम्॥ १२मोघो हि धर्मश्चरितो ममायंतथैकपत्नीत्वमिदं निरर्थम्।या त्वां न पश्यामि कृशा विवर्णाहीना त्वया संगमने निराशा॥ १३पितुर्निर्देशं नियमेन कृत्वावनान्निवृत्तश्चरितव्रतश्च।स्त्रीभिस्तु मन्ये विपुलेक्षणाभिःसंरंस्यसे वीतभयः कृतार्थः॥ १४अहं तु राम त्वयि जातकामाचिरं विनाशाय निबद्धभावा।मोघं चरित्वाथ तपोव्रतं चत्यक्ष्यामि धिग्जीवितमल्पभाग्या॥ १५सा जीवितं क्षिप्रमहं त्यजेयंविषेण शस्त्रेण शितेन वापि।विषस्य दाता न तु मेऽस्ति कश्चिच्छस्त्रस्य वा वेश्मनि राक्षसस्य॥ १६शोकाभितप्ता बहुधा विचिन्त्यसीताथ वेण्युद्ग्रथनं गृहीत्वा।उद्बध्य वेण्युद्ग्रथनेन शीघ्रमहं गमिष्यामि यमस्य मूलम्॥ १७इतीव सीता बहुधा विलप्यसर्वात्मना राममनुस्मरन्ती।प्रवेपमाना परिशुष्कवक्त्रानगोत्तमं पुष्पितमाससाद॥ १८उपस्थिता सा मृदुर्सर्वगात्रीशाखां गृहीत्वाथ नगस्य तस्य।तस्यास्तु रामं प्रविचिन्तयन्त्यारामानुजं स्वं च कुलं शुभाङ्ग्याः॥ १९शोकानिमित्तानि तदा बहूनिधैर्यार्जितानि प्रवराणि लोके।प्रादुर्निमित्तानि तदा बभूवुःपुरापि सिद्धान्युपलक्षितानि॥ २०इति श्रीरामायणे सुन्दरकाण्डे षड्विंशतितमः सर्गः ॥ २६
वाल्मीकिरामायणम् Baroda Critical EditionCC0. No rights reserved